________________
१६ ]
प्रथमः प्रत्यक्षप्रस्तावः
तदंशाश्व अभिलापतदंशास्तेषां शब्दसामान्यतत्स्वलक्षणानाम् । अभिलापविवेकतःअभिलपनमभिधेयप्रतिपादनम् अभिलापः, तस्योक्तन्यायेन विविक्तो ( विवेको ) विरहः तस्मात् । ततो 'न विकल्पसम्भवः' इत्यध्याहारः ।
मा भूद्विकल्पः । तदुक्तम्
"परमार्थतस्तु सकलं विज्ञानमविकल्पकम् । तद्ब्राह्मविषये सर्वस्याविकल्पेन वर्त्तनात् ॥” [ प्र० वार्तिकाल० २।२४९]
इति चेत् ; तदसारम् ; यस्मात् -
विकल्पविरहे न स्यादनुमानं तदात्मकम् ।
दत्यये तु नाध्यक्षं यथाकामं प्रसिद्धयति ॥ ४०३ ॥ प्रत्यक्षं कल्पनापोढमर्थ सामर्थ्यसम्भवात् । इत्यादिनानुमानेन साधनात्तद्व्यवस्थितेः ॥ ४०४ ।। स्वत एवाविकल्पं चेत्प्रत्यक्षं सिद्धिमृच्छति । भूतोपादानमध्यक्षं तद्वत्किन्न प्रसिद्ध्यति ॥४०५॥ तदुपादानभावेन तस्य चेन्नावभासनम् । निरंशैकस्वभावस्य किं तस्यास्त्यवभासनम् ? ॥४०६ ॥ चित्रकज्ञानवादस्तु वादिनः श्रेयसे न वः । वाच्यवाचकसं सिद्धेस्तत्रा प्रतिवेदनात् ॥ ४०७ ॥ कथं तद्वेद्यसिद्धिः स्यादध्यक्षे चानवस्थिते । प्रमाणपरिशुद्ध्या हि प्रमेयस्य व्यवस्थितिः ॥ ४०८॥
१३५
इदमेवाह - 'अप्रमाणप्रमेयत्वमनुषज्यते' इति । प्रमाणमत्र प्रत्यक्षमेव अनुमानाभावस्य २० विकल्पाभाववादिना परेणैवाभ्युपगमात् । प्रमेयमपि तद्वेद्यं स्वलक्षणमेव । प्रमाणप्रमेय प्रमाणप्रमेये तयोर्भावः प्रमाणप्रमेयत्वम्, तदभावः अप्रमाणप्रमेयत्वम्, अनुषज्यते विकल्पाभावमन्वागच्छति प्रतिपादितेन न्यायेनेति भावः ।
भवतु तर्हि सर्वस्यापि प्रमाणप्रमेयविभागस्याभावः सर्वभावनैरात्म्यस्यापि सौग - तैरङ्गीकारादिति चेत् ;
कथं स्यात्सर्वनैरात्म्यं प्रमाणं यदि तत्र वः ?
कथं स्यात्सर्वनैरात्म्यं प्रमाणं चेन्न तत्र वः ? ॥ ४०९॥
प्रमाणमन्तरेणापि तत्सिद्धं यदि बुध्यते । भावनैरात्म्यवद्भावँसद्भावः किन्न सिद्धिमान् ? ॥ ४१० ॥
१५
१ विकल्पात्मकम् । २ अनुमानाभावे । ३ “अविसंवादश्च अर्थादुत्पत्तेरर्थाव्यभिचारतः” । - प्र० वार्तिकाल० २२७ । ४ प्रत्यक्षस्य । ५-ते: आ०, ब०, प०, स० । ६ नैरात्म्यम् । ७ - वस्वभावः आ०, ब०, प० ।
२५