________________
न्यायविनिश्चयविवरण
एतदेवाह-अवश्यमनुषज्यते । अवश्यं भावनैरात्म्यं सांगतानामङ्गीकारवशवर्तित्वात, अवश्यं प्रमाणादिभावंतत्त्वं विपर्ययात् , तदपि प्रमाणसिद्धिनिरपेक्षमेव सिद्ध्यतीति यावत् ।
इदमन्यद् व्याख्यानम्-यदि अभिलापसम्बन्धविशिष्टा एवार्था विज्ञानैर्व्यवसीयेरन् तदा न तावत्तद्विशिष्टत्वमर्थानामौत्पत्तिकम् ; प्रथमदर्शन एव तद्विशिष्टव्यवसायप्रसङ्गेन सङ्केतवै. ५ यापत्तेः । सङ्केतकालगृहीतस्याभिलापस्यानुस्मृत्य योजनात् विषयस्य तद्विशिष्टत्वमिति चेत् ;
अत्राह-'अभिलाप' इत्यादि। अयमस्यार्थः-अभिलप्यते यः स्वार्थः परार्थश्च स अभिलापस्तेन विवेकः असम्बन्धः । कस्य ? अभिलापस्य तद्वाचकस्य शब्दस्य । तथा हि स्वार्थविशेषे निर्णीते शब्दविशेपे स्मृतिः स्यात् नानिर्णीते, अन्यथा दानादिचेतसां स्वर्गप्रापणसाम
येऽनिर्णीतेऽपि तद्विशेषस्मृत्या तंद्योजनं स्यात् । न चैवम् अविवादप्राप्तः। अस्याश्च तत्र १० तद्योजनायां स्वार्थविशेषनिर्णय इत्यन्योन्यसंश्रयः" । तन्न अभिलापस्य' अभिलापेन सम्बन्धः ।
तथा, अभिलप्यते अनेनेत्यभिलापः शब्दः तेन विवेकः । केपाम् ? तदंशानां धकारादीनाम् । तथा हि-'यथा विशेषणविशिष्टार्थग्रहणं तद्विशेषणस्मृतौ नान्यथा तथा तदंशविशिष्टाभिलापस्मरणं "केवलस्याऽवाचकत्वात्। तदंशस्मरणपूर्वकम्, तत्स्मरणमप्यभिलापविशेषस्मरणपूर्वकम्' इत्यन्योन्य.
संश्रयो द्वितीयः" । तदेवम् अभिलापतदंशानामभिलापविवेकतो विकल्पाभाव एव प्राप्तः, तदभ्यु१५ पगमे" च निर्विकल्पस्याकिञ्चित्करत्वान्न प्रमाणम् , अत एव न प्रमेयम् , इति अप्रमाणप्रमेयत्वं "तद्विवेकतः अवश्यमनुषज्यते ।
____ इदमपरं तद्व्याख्यानम्-यदि अमिलापविशिष्टार्थव्यवसायस्तदभिलापस्मरणात् तद्वत्तदपि" स्मरणं केवलस्य तस्याऽवाचकत्वात् तदंशविशिष्टस्यैव, तदंशानां च स्मृतानामेव
तद्विशेषणतयावसाय इति । अभिलापस्मरणं तदंशस्मरणञ्च अपरामिलापतदंशस्मरणद्वये सति २० भवति । तदपि तदपराभिलापतदंशस्मरणे भवति, तत्राप्येवमिति अनेकोऽनवस्थानदोषः प्रसज्यते । तस्मात् अभिलापतदंशानामभिलापविवेकतो वाचकशब्दविरहात्तदवस्थ एव 'अप्रमाण' इत्यादिदोप इति ।
स्यान्मतम्-भवतु परस्पराश्रयः अनवस्थानं तु न सम्भवति, स्मर्यमाणस्य शब्दस्य शब्दान्तरस्मरणनिरपेक्षत्वात् । स्वयमवाचकस्य हि वाचकविशिष्टतया निर्णये व्यतिरिक्तवाचक२५ स्मरणमपेक्षणीयम्, शब्दस्य त्वर्थप्रतिपादनवत् स्वप्रतिपादनेऽपि व्यापारान्न तत्स्मरणे वाचका.
१-ते इति अवश्यं आ०,ब०,५०,स० । २-ववस्वम् आ०,व०,१०,१० । ३ कारणजन्यम् । -नुसृत्य आ०, ब०,५०,स०। ५-जना वि-ता०६-ष्टमि-आ०,०,५०,सः । ७ कस्यापि लाभस्य आ०,०,५०,स। ८ शब्दविशेष । ९ शब्दयोजनं स्यात्तथा च दानचित्तं स्वर्गप्रापणसमर्थम्' इति विकल्पः समुत्पद्येत ।१० स्वार्थविशेषे निर्णीते शब्दविशेषे स्मृतिः, अस्याश्च शब्दविशेषस्मृतेश्च तत्र खार्थविशेषे तद्योजनायाम्-शब्दयोजनायाम् खार्थविशेषनिर्णय इत्यन्योन्याश्रयः। ११ अभिलाप्यस्य, अभिलप्यते यः इति व्युत्पत्तेः । १२ अंशविरहितस्य । केवलस्य वाच-आ०, ब०, ५०, स०। १३ घकाराद्यशस्मरणमपि । १४-यतः आ०, ब०, ५०, स०। १५ विकल्पाभावे स्वीक्रियमाणे। १६ अभिलापविवेकतः । १७ अभिलापविशेषार्थ-स० । १८ अपिशब्दोऽत्र भिन्नक्रमः ‘स्मरणम्' इत्यस्यानन्तरमभिसम्बन्धनीयम् । तदभिलापस्मरणमपि । १९ अभिलापांश । २०-स्थादोषः आ०.ब.प.,स