________________
१६] प्रथमः प्रत्यक्षप्रस्तावः
१३७ न्तरस्मरणमर्थवत् तत्कथमनवस्थानमिति ? तदप्यसदेव मतम् ; शब्दस्य स्वप्रतिपादनस्वाभाव्याभावात् । तद्भावे वा श्रोत्रज्ञानेऽपि स्ववाचकत्वेनैव तस्यावभासनात् स्मरणवत्कथं तस्यापि निर्विकल्पकत्वम् ? तंत्र तस्य न तथावभासनमिति चेत् ; किं तर्हि स्यात् ? अप्रतिभासनमिति चेत् ; न; तज्ज्ञानस्य निर्विषयत्वप्रसङ्गात् , न च विषयशून्यं विज्ञानमिति श्रोत्रज्ञानव्यवहारविध्वंसनमेव प्राप्तम् । अन्यथाऽवभासनमिति चेत् ; न ; तस्याभ्रान्तत्वेन प्रत्यक्षत्वाभावापत्तेः । तन्न शब्दस्य ५ स्वप्रतिपादनस्वाभाव्यम् । तथा चेत् स्मरणेऽपि कथं तस्य तद्रूपतया प्रतिभासनम् ? अथ स्मरणमतद्रूपमपि तद्रूपमि अवद्योतयति । कुत एतत् ? तस्य विकल्पत्वेनैवंस्वाभाव्यादिति चेत् ; सदपि कुतः ? वाचकरूपविद्योतनादिति चेत् ; न ; परस्पराश्रयात्-विकल्पत्वाद्वाचकरूपावद्योत. नम् , ततश्च विकल्पत्वमिति । अन्यदेव तस्य विकल्पत्वनिबन्धनं वाचकरूपावद्योतनमिति चेत् ; न ; तस्याऽभावात् । भावे तदपि यदि तत्परिकल्पितं स एव दोषः-तदवोतनात्तस्य १० विकल्पत्वम् , ततश्च तदवद्योतनमिति। पुनस्तद्विकल्पत्वनिबन्धनस्यापरतदवद्योतनस्य परिकल्पनायां कथमनवस्था न भवेत् ?
____ अपि च, "स्वाभिलापसम्बद्धा एवार्था विज्ञानैर्व्यवसीयन्ने"[ ]इति" ब्रुवाणेन स एव तदभिलापो वक्तव्यः। पदं वाक्यं वेति चेत् ; ननु वाक्यं नाम पदसन्दोहकल्पितं नाखण्डैकरूपं तस्य निषेत्स्यमानत्वात् , ततः पदयोजनया "तदवक्लृप्तिः कर्त्तव्या, पदानां चानुस्मर- ६५ "णोपस्थापितानामेव योजनम् । न च पदमपि किश्चिदखण्डैकरूपं तस्यापि निषेत्स्यमानत्वात् । वर्णयोजनया तु "तत्क्लुप्तिर्विधातव्या । वर्णानां च स्मरणोपस्थापितानामेव योजनम्। न च वर्णा निर्भागाः; दीर्घादिव्यवहाराभावप्रसङ्गात् । भ्रान्तस्तद्व्यवहार इति चेत् ; आस्तां " तावदेतत् , तृतीये" विचारणात् । ततो वर्णप्रक्लृप्तिरपि स्मरणोपनीततद्भागयोजनयैव सम्पादयितव्या । तावञ्चैवं प्रक्रिया यावत्पर्यन्ते निर्भागाः शब्दपरमाणवः, तेषां चाशक्यसङ्केतत्वेन अनभिला - २० सम्बन्धादस्मरणम् , तदस्मरणे च तद्विशिष्टतया "तदवयविनो न स्मरणं तस्मिंश्च तद्विशिष्टतया "सदवयविन इति तावद्वक्तव्यं यावद्वाक्यानुस्मरणं न भवति । तत्र च कथं स्वाभिलासम्बद्धसया अर्थव्यवसायः ? न ह्यननुस्मृताभिलाफ्स्य तत्सम्बद्धतया सम्भवति तद्व्यवसायः, प्रथमदर्शनेऽपि प्रसङ्गात् । तन्नाभिलापवत्त्वं विकल्पलक्षणम् असम्भवादिति । एतदेवाह-'अभिला'इत्यादि । अभिला बुद्धिः, अभिलायते अभिगृह्यते विषयोऽनयेत्यभिलेति व्युत्पत्तेः । तस्याम् २५ अपतन्तो विषयत्वेनाऽप्रविशन्तोऽशा भागा येषां ते अभिलापतदंशा अनवगृहीतभागाः
१शब्दस्य । २ श्रोत्रज्ञाने । ३ शब्दस्य । ४ स्ववाचकत्वेन । तदाव-मा०, ब०, ५०, स०। ५ शब्दस्य । ६ वाचकविशिष्टतया । ७-मिवातव्यो-आ०, ब०, प०, स०। ८ स्मरणस्य । ९ विकल्पकल्पितम् । १.-स्थानं न भ-भा०, ब०, ५०, स.।" "स्वाभिधानविशेषापेक्षा एवार्था निश्चयैर्व्यवसीयन्ते इत्येकान्तस्य..."-अष्टसह पृ० १२० । १२ वाक्यरचना। १३-णोपनीततद्भागस्थापि-आ०, ब०, ५०, स.। १४ पदरचना । १५ वर्णेषु दीर्घादिव्यवहारः। १६ तावदिदं तृ-मा०, ब०, ५०, स. । १७ प्रस्तावे। अभिलापसम्बन्धाभावात् । १९ वर्णस्य । २० पदस्य । २१ वाक्ये। २२-सम्बन्धतया भा०, ब०,५०, स. २३ अभिला + अपतत् + अंशाः।