________________
१३८
न्यायविनिश्चय विवरणे
[ २२६
परमाणव इत्यर्थः । तेषाम् अभिलापविवेकतः वाचकशब्दविरहाद् अवश्यं नियमेनअनुषज्यते अप्रमाणप्रमेयत्वम् । माणः शब्दः, मणेः शब्दार्थस्य घञि एवंरूपत्वात्, प्रकृष्टो माणः प्रमाणः, शब्दपरमाण्वपेक्षया तदवयवी तत्कलापापेक्षया पुनस्तदवयवी, तावदेवं यावदक्षराणि, तदपेक्षया पदम्, पदापेक्षया वाक्यम्, तस्य प्रमेयत्वं स्मरणकृतम्, तदभावः अप्रमाण५ प्रमेयत्वम् । तदवश्यम्भावेनापद्यते तत्प्रतिपत्तिनिबन्धनस्य पूर्वपूर्वतद्भागानुस्मरणस्याभावात्, सोऽपि तत्पर्यन्तवर्त्तिशब्दपरमाणूनामननुस्मरणात् । तन्न परस्याभिलापसम्भवः तदभावात् कथमुक्तम्- 'अभिलापप्रतिबेद्धतयैवार्था व्यवसीयन्ते' इति ।
भवतु वा कथश्चिदभिलापः, तथापि तत्स्मरणस्यापराभिलापप्रतिबन्धे अनवस्थानमुक्तम् । तदप्रतिबन्धे यदि तैन्निर्विकल्पकं न तद्विषयस्य शब्दस्यान्यत्र योजनं स्वलक्षणत्वादिति गतमर्थ - १० व्यवसायवार्त्तया । सविकल्पकं चेत्; कथमव्यापकं विकल्पलक्षणं न भवेत् ? अनभिलापव
तोऽपि तत्स्मरणस्य सविकल्पकत्वात् । साक्षादनभिलापवत्त्वेऽपि उपचारादभिलापवदेव तत्स्मरणम् । न हि साक्षादभिलापसम्बन्धादेवाभिलापवत्त्वं प्रतीतेः, अपि तु अभिलापसम्बन्धयोग्या कारगोचरत्वादपि । तद्योग्यञ्चाकारः साधारणाकार एव तत्र शब्दसङ्केतादेः शक्यविधानत्वात् । अ एवोक्तम्- "अभिलापसम्बन्धयोग्यप्रतिभासा प्रतीतिः कल्पना ' ' [ न्यायबि० पृ० १३ ] इति । १५ ततः शब्दस्मरणस्यापि शब्दसामान्यगोचरत्वेनोपचाराद् अभिलापवत्त्वोपपत्तेरुपपन्नं विकल्पत्व
२०
चेत्; अत्रोच्यते - स सामान्याकारः कल्पितः, पारमार्थिको वा भवेत् ? कल्पितश्चेत्; कथं तस्याभिलापसंसर्गं प्रति योग्यत्वम् ? योग्यत्वं हि सामर्थ्यमेव । न हि तत् कल्पितस्योपपन्नम् । कल्पितश्चेत्कथं योग्यः ? योग्यचेत्कल्पितः कथम् ?
योग्यच कल्पितश्चेति मिथो निष्पीडितं वचः ॥ ४११ ॥ कल्पितश्चेत्समर्थोऽपि कल्पितं स्यात्स्वलक्षणम् । सौगतानां ततः प्राप्तं न किश्चित्परमार्थसत् ॥ ४१२ ॥ कल्पनामात्रवादस्तु पश्चात्प्रतिविधास्यते ।
कल्पितोऽपि समर्थश्चेत्; मरीच्यम्भोऽपि पीयताम् ॥ ४१३ ॥
योग्यत्वमपि तस्य कल्पितमिति चेत्; तर्हि तेनाप्यभिलापसंसर्गयोग्येन भवित२५ व्यम्, अन्यथा तत्प्रतिभासवत्याः प्रतीतेर्विकल्पकत्वानुपपत्तेः । तदपि तस्य तद्योग्यत्वं यदि पारमार्थिकम् स एव प्रसङ्गः - कल्पितश्चेत्यादि । कल्पितञ्चेत्; न; तर्हि ' तेनापि ' इत्यादेः प्रसङ्गस्यानुबन्धादनवस्थापत्तेश्च ।
;
यत्पुनरेतंत्-स्वलक्षणमेव सामान्यं तस्यैव दृष्टसाधारणरूपेण प्रतीत्युपस्थापितस्य सामा
१ - स्याभागात् आ०, ब०, स० । २ - बन्धतयैवार्थोऽप्यवसीयते इति आ०, ब०, प०, स० । ३ अभिलापस्मरणम् । ४ अभिलापस्मरणस्य । ५ - वत्त्वापत्तेः आ०, ब०, प०, स० । ६ शब्दसामान्याकारस्य । ७ - तमपि चेत् आ०, ब०, प०, स० । ८ -ल्पत्वानु-आ०, ब०, प०, स० । ९ तुलना - " यदा साक्षाज्ज्ञानजननं प्रति शतत्वेन प्रतीयते तदासौ स्वेन रूपेण लक्ष्यमाणत्वात् स्वलक्षणम् । यदा तु पारम्पर्येण शकता तस्यैव प्रतीयते तदा सामान्यरूपेण लक्षणमिति सामान्यलक्षणम्" - प्र० वार्तिकाल० २।२ ।