________________
१२६]
प्रथमः प्रत्यक्षप्रस्तावः
१३९.
न्यव्यपदेशात्, ततो वास्तवमेव तस्याभिलाप सम्बन्धसामर्थ्यमिति तत्रोच्यते-यदि साधारणं रूपं स्वलक्षणस्यास्ति न किञ्चित् संवृतिसत् ? तदपरस्य तस्याभावात् । नास्ति चेत् ; तेनावभासनम् ? मरीचिकातोयवदिति चेत्; उच्यते
कथं
स्वलक्षणस्य शेक्तेश्चेत्तद्रूपस्य प्रवेदनम् । सर्वदा तत्प्रवृत्तिः स्यात्तच्छक्तेरविलोपनात् ॥ ४१४ ॥ अलुप्तशक्तिकत्वेऽपि सदा तच्चेन्न वेदयेत् । असाधारणरूपस्याध्यप्रवेदनमागतम् ॥ ४१५ ॥ शक्तिमत्त्वं विहायान्यन्न तंत्रापि निबन्धनम् । ततः स्वलक्षणस्यैव वार्ताऽपि विलयं गता ।। ४१६ ॥ सचिवाभावतो नो चेत्सर्वदा तत्प्रवेदनम् ।
तद्रूपदर्शनी शक्तिस्तदा तहिं कथं भवेत् ? ॥ ४१७ ॥ भावेषु हि विना कार्यं न शक्ति: शक्यकल्पना । सर्वकार्येषु सामर्थ्यं सर्वेषामन्यथा भवेत् ॥ ४१८ ॥ साऽपि नास्ति तदानीं चेत्; प्राप्तेऽपि सचिवे कथम् ? | यत्साधारणरूपस्य तद्भावे स्यात्प्रवेदनम् ॥ ४१९ ॥ सचिवात्सन्निधिप्राप्तात् न स तस्योपजायते । समकालतया हेतुहेतुमत्त्वाव्यवस्थितेः ॥ ४२० ॥ प्रागशक्तस्य पश्चाच्चेत्तस्य शक्तिस्ततो भवेत् । क्षणद्वयस्थितौ तस्य क्षणभङ्ग जगत्कथम् ? ॥ ४२१ ॥
१०
१ - रणरूपं ता० । २ - तिश्चे-आ०, ब०, प०, स० । ३ प्रवेदने । ४ सजीवाभा - आ०, ब०, प०, स० । सहकारिविरहात् । ५ सहकारिविरहावस्थायाम् । ६ शक्तिः । ७ प्रागशतश्च आ०, ब०, प० । ८ सहकारिसकाशात् । ९ वस्तु । १० अर्थज्ञानेऽपि ।
१५
तन्न स्वलक्षणबलात्तदाकारप्रवेदनम् । विज्ञानबलादेवेति चेत्; तदपि कथम् अविद्यमाने - २० मुपदर्शयेत्, कारणस्य विषयत्वोपगमात् ? न चासतः कारणत्वम् । अर्थज्ञान एवायं नियम इति चेत्; "तत्राप्यकारणस्य विषयत्वे को दोषः ? सर्ववेदनमेव प्रतिबन्धाभावाऽविशेषादिति चेत्; न; असद्वेदनेऽपि समानत्वात् ।
मरीच्यां जलवत्सर्वस्यासतः किन्न वेदनम् ? |
प्रतिबन्धो न तत्रापि यदस्ति नियमक्षमः ॥ ४२२ ॥ सर्वस्याप्यसतो वित्तावेकस्मादेव वेदनात् ।
अपरं तत्र विज्ञानं सर्वमेव वृथा भवेत् ॥ ४२३ ॥ सर्वसदनेऽप्येवं नैष दोषोऽन्यथा भवेत् । इत्यनिष्टप्रसङ्गोऽयं कथन्नाम निवार्यताम् ॥ ४२४ ॥
२५