________________
१४०
न्यायविनिश्चयविवरणे
[१७ मिथ्याज्ञान तथा शक्तेनियतग्राहकं यदि । अर्थज्ञानं तथा शक्तेनियतग्राहकं भवेत् ।। ४२५ ॥ ततस्तस्यार्थकार्यत्वकल्पना युक्तिवर्जनात् ।
'अकारणं न विषयः' इत्येतद्वालभाषितम् ॥ ४२६ ॥ ५ दस्मादसदाकारस्याकारणत्वेन ग्रहणाभावान्न साधारणाकारग्रहणमपि विकल्पलक्षणम् ।
भवतु वा तेंद्रहणम्, तथापि तद्रहणशक्त्या ज्ञानस्वरूपग्रहणे तदाकारवस् तत्स्वरूपस्यापि मिथ्यात्वं भवेत् । न ह्यसदाकारग्रहणाभिमुखेन स्वभावेन गृहीतमन्यथा भवति, नीलाभिमुखस्वभावगृहीतस्यापि पीतत्वप्रसङ्गात् । न च ज्ञानस्वरूपस्य मिथ्यात्वम् ; अनभ्युपगमात्,
तद्प्रतिपत्तिप्रसङ्गाच्च । न हि मिथ्यारूपादेव मिथ्यात्वम् अमिथ्यात्ववच्छक्यप्रतिपत्तिकम् । १० शक्तयन्तरेण तद्हणे तेंदुभयशक्तिसाधारणत्वं विज्ञानस्य प्राप्तम् । भवतु को दोष इति चेत् ; न;
साधारणविषयवत्तस्यापि मिथ्यात्वप्रसङ्गात् । पुनरपि तत्साधारणाकारकल्पने अनवस्थापत्तेः अग्रहणमेव सामान्याकारस्य । तन्नेदमपि विकल्पलक्षणम् असम्भवात् । एतदेवाह
पदार्थज्ञानभागानां पदसामान्यनामतः।
तथैव व्यवसायः स्याचक्षुरादिधियामपि ॥७॥ इति । १५ अर्थोऽभिधेयः पदस्यार्थः पदार्थः सामान्यम्, तत्रैव शब्दसङ्केतस्य सम्भवात् ।
तस्य ज्ञानं तस्य भागाः परापरसामान्यरूपा अंशास्तेषां व्यवसायः स्यात् । अव. सायोऽधिगमस्तदभावो व्यवसायो विशब्दस्याभावार्थत्वात् "विमलादिवत् सः स्याद्भवेत् अनवस्थानादिति भावः । कुतः "सम्भवतां तेषां व्यवसाय इत्याह-पदसामान्यनामतः ।
पद्यन्ते ज्ञायन्तेऽनेनेति पदं ज्ञानमेव तत्र सामान्यानामपरापरात्मनाम्, तद्विषयत्वेन नमनम् उक्त२० प्रकारेणोपसर्पणं तस्मादिति । तर्हि मा भूज्ज्ञानस्यात्मनि सामान्याकार इति चेत्, न; शक्ति
भेदेन ज्ञानभेदप्रसङ्गात् । तथा हि-न सामान्यग्रहणं तद्ब्रहणस्य स्वसंवेदनशक्तिव्यतिरेकात् , असंविदितस्य च बहिर्विषयत्वानभ्युपगमात् । -पुनरप्यपरस्वसंवेदनशक्तिकल्पनायां स एव प्रसङ्गै शक्तिभेद इत्यादिरनवस्था च । ततः सुदूरमपि गत्वा शक्तिद्वयाधिष्ठानमेकं संवेदनमभ्यु• पगन्तव्यम् । ततो यदुक्तम्-"बहीरूपतयैव सामान्यं न ज्ञानरूपतया" [ ] २५ तन्निषिद्धम्; ज्ञानरूपतयापि सामान्यस्योपदर्शितत्वात् । सदपि सामान्य ज्ञानरूपतयाऽर्थ एव;
इत्यपि न शोभनम् ; साधारणाकारस्य अर्थत्वानभ्युपगमात् । तदनर्थत्वे च तत्प्रतिपत्तेरसम्भवात् न साधारणाकारग्रहणं विकल्पलक्षणमिति साधूक्तम्-‘पदार्थ' इत्यादि ।
तथाशक्तिर्निय-आ०, ब०, प०।२ अर्थज्ञानस्य । ३ साधारणाकारग्रहणम् । ४ तदग्रहण-भा०, ब, प०, स.।५-खरूपस्य ग्र-आ०, ब., प०, स०।६ ज्ञानस्वरूपस्यापि । ७ मिथ्यात्वाप्रतिपत्ति । ८ ज्ञानस्वरूपग्रणे । ९ साधारणाकारग्रहणशक्तिःस्वरूपग्रहणशक्तिरिति शक्तिद्वयसाधारणत्वम् । १०-त् व्यव-आ०, ब०, ५०, स०।११ विकला-आ, ब०, प० । १२ सम्भवता ते-आ. ब०, ५०, स.। १३ -र्पणात्तस्माआ०, ब०, ५०, स०।१४ तथापि न ता०।१५ प्रसाश-आ०, २०, ५०, स.।