________________
११७]
प्रथमः प्रत्यक्षप्रस्तावः भवन्तु तर्हि निर्विकल्पा एव बुद्धयो विकल्पबुद्धिव्यवस्थानोपायाभावादिति चेत्; अत्राह-'चक्षुरादिधियामपि' इति । चक्षुरादिर्येषां श्रोत्रादीनां तेषां कार्यभूता धियः तासा. मपि न केवलं मानसीनामित्यपि शब्दार्थः । किम् ? व्यवसायः अधिगमाभावः । कथम् ? तथैव तेनैव प्रकारेण । तथा हि
विकल्पबुद्धयो यल्लोकरूढा अपि स्फुटम् ।। क्षोदक्षमत्वाभावेन विनश्यन्ति भवन्मते ॥ ४२७ ॥ निर्विकल्पधियोऽप्येवं चक्षुरादीन्द्रियोद्भवाः ।
विचारज्वलनालीढा विमुञ्चन्त्येव जीवितम् ॥ ४२८ ॥ यतः
न तासामपि सामान्य विषयत्वेन सम्मतम् । उक्तश्च दोषो निःशेषस्तत्राप्येषः प्रसज्यते ॥ ४२९ ॥ 'निरंशं वस्तु तद्वेचं केवलं परवार्तया । न जातु न कचित्तादृक् पश्यामः प्रतिभासनम् ॥ ४३० ॥ अभावे सर्वबुद्धीनां बोद्धव्यस्यानवस्थितेः । भावनैरात्म्यवादस्य साम्राज्यमधुनाऽऽगतम् ॥ ४३१ ॥ तस्यापि न व्यवस्थेति प्रागेवेदं निवेदितम् । कल्पितं तन्न सामान्यं बौद्धानामवतिष्ठते ॥ ४३२ ॥ वस्तुभूतं तु तत्तेषां नास्त्येवानभ्युपायर्तः । ततो न तत्र निर्बन्धं शास्त्रकारः करोत्ययम् ॥ ४३३ ॥
भवतु वा किमपि सामान्यम्, तथापि शब्दस्मरणवच्चक्षुरादिबुद्धीनामपि व्यवसाया- २० त्मकत्वमनिवार्यमेव । तदाह-'पदार्थ' इत्यादि । पदमभिधानं तदेवार्थो विषयो येषां ज्ञानानां स्मरणरूपाणां तेषां भागा बहिर्विषया अंशाः, नात्मविषयाः तेषामव्यवसायस्वभावत्वात्, तेषां व्यवसायो निश्चयस्वभावः । कुतस्तेषां सः ? इत्याह-'पदसामान्यनामतः' इति । पदस्य स्मर्यमाणशब्दस्य सामान्यं तत्र नमनात् तदाहकत्वेनोपनिपातात् । ततः किम् ? इत्याह-तथे (तथैव इ) त्यादि । तथैवेति श्रवणात् यथैवेति लभ्यते-तयोर्नित्यसम्बन्धात् । ततोऽय- ११ मर्थः-यथैव शब्दस्मरणभागानां स्वविषयसामान्यगोचरत्वेन व्यवसायस्वभावत्वं तथैवं चक्षुरादिबुद्धीनामपि। न हि तासामपि पर्युदस्तसामान्यवस्तुवेदित्वम् अनुभवपथोपेस्थापितमस्तीति भावः।
-धियोऽस्त्यैवं मा०, ब०,५०, स०। २ निरंशव-ता०।३ बौद्धोक्त्या । ४ ग्रहणोपायाभावात् । ५-त्मवत्त्व-आ०, ब०प०।६ -ति लभ्यते स०। ७-स्यात् सम्ब-आ०, ब०, ५०, स०।८-व च चक्षु -मा०, ब०, ५०, स०। ९ अनुभवपथोपभावित्वप्रतीतेः। न चैकसमयपर्यवसिततद्यापारजन्मनः तज्ज्ञानस्या परापरसमयगोचरत्वं सर्वस्य सर्वाकारवस्तुदर्शित्वापत्तेः । तदाह-योग्यदेशस्थितेऽक्षाणां वृत्तिर्नातीतभाविनि । तदाश्रितं च विज्ञानं न कालान्तरभाविनीति । न चापरापरसमयस्थापितमस्तीति-आ०, २०,०स०। अनुभव" स्थापितमस्तीति ता०।