________________
१४२
न्यायविनिश्चयविवरणे
[१७
__ स्यान्मतम्-न सामान्यं चक्षुरादिज्ञानस्य विषयः सम्भवति । तद्धि कल्पितम् , वस्तुभूतं वा भवेत् ? न तावत्कल्पितम् ; तस्यावस्तुत्वेन तद्विषयस्य तज्ज्ञानस्यावस्तुविषयत्वोपपत्तेः । न चैतन्न्याय्यम, तस्याऽप्रत्यक्षत्वप्रसङ्गात् । न ह्यवस्तुविषयं प्रत्यक्षं नाम; अतिप्रसङ्गात् ,'अञ्जसा' पदवैयर्थ्यापत्तेश्च निवाभावात् । अस्तु वस्तुभूतमेव सामान्यमिति चेत् ; तदपि तद्भवसामा५ न्यम् , सादृश्यसामान्यं वा भवेत् ? न तावत् तद्भवसामान्यम् ; तैद्धि कालत्रयव्यापिरूपम् , तदपि कस्यचिद्विशेषात्मकस्य, तव्यतिरिक्तस्य वा भवेत् ? विशेपात्मकस्य चेत् । तस्यापि तद्रूपं प्रतिक्षणभेदिनश्चक्षुरादिप्रत्यक्षस्य वेद्यम् , कालान्तरव्यापिनो वा ? । न तावदाद्यस्य ; तस्य वर्तमानसमयपर्यवसिते चक्षुरादिव्यापारे तदायत्तौत्पत्तिकत्वेन तत्समय एव पर्यवसानात् । न
चैकसमयपर्यवसिततद्व्यापारजन्मनः तज्ज्ञानस्य अपरापरसमयगोचरत्वम् ; सर्वस्य सर्वाकार१० वस्तुदर्शित्वापत्तेः । तदाह
“योग्यदेशस्थितेऽक्षाणां वृत्तिर्नातीतभाविनि ।
तदाश्रितञ्च विज्ञानं न कालान्तरभाविनि ॥" [प्र०वार्तिकाल० २।१२६] न चापरापरसमयप्रतिपत्तिमन्तरेण तद्व्यापित्वं कस्यचित्सुखावबोधम् ; व्यापकप्रतिपत्तेाप्यप्रति
पत्तिनान्तरीयकत्वात् , एकेन च प्रत्यक्षेण तद्हणे व्यर्थ एवापरापरश्चक्षुरादिव्यापारः स्यात् । १५ अंपरापरतत्प्रत्यक्षार्थत्वान्न दोष इति चेत् ; न ; तस्य प्रयोजनाभावात् । कालान्तरव्याप्तिप्रहणं प्रयोजनमिति चेत् ; न ; तस्य प्रथमप्रत्यक्षादेव भावात् । नैकेन तद्ब्रहणम् ;
अपरापरेणैव तेन तद्हणाभ्युपगमादिति चेत् ; न ; तस्यापि परापरसमयाननुसन्धायित्वेन स्वकालपर्यवसित एव विशेषे व्यापारात् । तन्न क्षणक्षीणं प्रत्यक्षमेकमनेकं वा कालान्तर
व्यापिभावनिरीक्षणे दक्षता कक्षीकरोति । मा भूत्तस्य” तन्निरीक्षणदक्षत्वं कालान्तरव्यापि२० नस्तु भवत्येवेति चेत् ; न; तस्यापि प्रथमचक्षुरादिव्यापारादुत्पन्नस्यैव तत्र प्रवृत्तौ अपरापरत.
द्व्यापारवैफल्यप्रसङ्गात्। "तद्व्यापारादपि "तस्योत्पत्तिरिति चेत् ; न ; उत्पन्नस्योत्पत्त्ययोगात् , उत्पन्नस्यापराधीनस्वभावत्वात् , उत्पन्नस्यापि कालान्तरव्याप्तिः अपरापरतद्व्यापारादिति चेत् ; न; 'प्रोगेव कालान्तरव्यापितयोत्पन्नत्वात् ; "प्रागतद्व्यापितयोत्पन्नस्य पश्चात्तद्व्यापित्वं तद्व्यापारा
दिति चेत् ; न; प्राच्यातद्व्यापिरूपपरिक्षयाभावे हेतुशतेनापि पुनस्तद्व्यापिरूपकरणासम्भवात् २५ "विरोधात् । तत्परिक्षयभावे पुनस्तदन्यदेव तद्व्यापारसम्पादितं भवेत् । तन्न तस्य” कालान्तर
व्याप्तिः अपरापरतद्व्यापारात् । ततः कालान्तरव्याप्तिमन्ति दर्शनान्येव परापराण्युपजायन्त इति
1-ज्ञानविष-मा०, ब०, ५०, स.। २ तद्भावसा-आ०, ब०, १०, स.। ३ तस्य हि ता.। ४-व्याप्तिरूपम् आ० ब०,०। ५ चित्तस्यापि आ०, ब०, ५०, सः। पर्यवसात् न च तयापारस्य पूर्वापरसमयभावित्वप्रतीतेः न चैक-आ०, ब०, ५०, स०। ७ अपरापरचक्षुरादिव्यापाराणाम् । ८ विशेषज्या -आ०, ब०, ५०, स०। ९ -व्यापिनिरी-आ०, ब०, ५०, स.। १० प्रत्यक्षस्य । ११ अपरापरचक्षुरादिव्यापारादपि । १२ प्रथमप्रत्यक्षस्य । १३ प्रागिव स०।११प्रागेव त-आ०,०प०स०१५ अपरापरचक्षुरादिव्यापारात् । १६ विरोधात् तत्परिच्छेदात्किमेवं भा०, ब०,५०, स०।१७ प्रत्यक्षस्य ।