________________
१४३
११७]
प्रथमः प्रत्यक्षप्रस्तावः चेत् ; न ; तेषां प्रयोजनाभावात् । प्रथमतद्व्यापारोपजनितेनैव कालान्तरव्यापिना प्रत्यक्षेण भावसामान्यस्य परिच्छेदात् किमेवं भावानां प्रेक्षावत्त्वमस्ति यत्सति प्रयोजने भवन्ति नासतीति ? स्वहेतुसामर्थ्यायत्तजन्मानो हि ते संत्यसति च प्रयोजने भवन्त्येव नियमेनेति चेत् ; सत्यमेवैतत् ; यदि तथादर्शनं तेषाम् , दृष्टे चानुपपत्तिपर्यनुयोगस्यासम्भवात् । न चैवम् । न चादर्शनपथप्रस्थायिनि वस्तुनि एवमुत्तरमुचितम् , अतिप्रसङ्गात् । तन्न कालान्तरव्यापि- ५ नापि प्रत्यक्षेण कस्यचित्कालान्तरव्यापिरूपं सूपग्रहम् । तन्न विशेषात्मनः कालान्तरव्यापिरूपं सम्भवति; असम्प्रतिपत्तेः । तदुक्तम्
"एकत्र दृष्टो भेदो हि क्वचिन्नान्यत्र दृश्यते ।" [प्र० वा० २।१२६]इति । नापि विशेषव्यतिरिक्तस्य सामान्यस्य तव्यापित्वम् ; तव्यतिरेकस्यैवाप्रतिपत्तेः विशेषबुद्धेरेवो. पलम्भात् । यदि हि विशेषवत्सामान्यमपि स्यात् तँबुद्धिरप्युपलब्धैव स्यात्, न चैवम् । न १० चानुपलब्धस्यास्तित्वं व्योमकुसुमवत् । तदप्युक्तम्
"न तस्माद्भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः॥"[प्र०वा० २।१२६]इति ।
एतेन सादृश्यसामान्यमपि प्रत्युक्तम् ; तस्यापि विशेषव्यतिरिक्तस्यानुपलम्भात् , विशेषाणां चानन्वयात् । तन्न सामान्यविषयत्वमक्षज्ञानस्य यतो व्यवसायस्वभावत्वमिति ।
तत्रेदमुच्यते-प्रथमस्तावद्विकल्पोऽनुपपन्न एव; क्षणक्षीणस्य प्रत्यक्षस्यान्वयविषय- १६ त्याभावे विषयत्वप्रसङ्गात् । स्वरूपविषयत्वान्नेति चेत् ; न तीन्द्रियंप्रत्यक्षत्वम् , स्वरूपे मध्यापार भावात् । क्षणिकबहिर्वस्तुविषयत्वात् तत्प्रत्यक्षत्वमिति चेत् ; तस्य तद्विषयत्वं कुतोऽवसीयते ? "योग्यदेशस्थितेऽक्षाणाम्" इत्यादिकाद्विचारादिति चेत् ; स विचारः किन्नाम
माणं भवेत् ? प्रत्यक्षमिति चेत् ; न ; तस्य निर्विकल्पत्वेन एवंविचारकत्वायोगात् । विचारकस्यापि प्रत्यक्षत्वे तस्य समयत्रयगोचरत्वमुररीकर्तव्यम् , अन्यथा मध्यसमयपर्यवसितेन्द्रिय व्यापारोपलब्धसत्ताकस्य कथमतिक्रान्तेऽनागते च प्रत्ययस्य प्रवृत्तिरिति ? अस्यं तद्व्यापारस्यानुपपत्तेः । यदि हि तत्प्रत्यक्षं मध्यमसमयवत् पूर्वापरावपि समयौ पश्येत्तदा मध्ये इन्द्रियव्यापा
त्य तत्प्रत्यक्षस्य च सद्भावं पूर्वापरयोश्च तदभावं पश्येत् नान्यथा । न हि भूतल पतियत्प्रत्यक्षं तत्र कस्यचिद् भावमभावं वा प्रत्येतुमर्हति । भवतु तस्य समयत्रयगोचरत्वमिति चेत् ; कथमुक्तम्-"न पूर्व परत्र न परं पूर्वत्र प्रत्यक्षम्" [प्र०वार्तिकाल० २।१२६] इति ? प्रस्तुत- २५ प्रत्यक्षवदपरस्यापि प्रत्यक्षस्य पूर्वापरसमयविषयतोपपत्तेस्तत्कृतस्य विशेषान्वयग्रहणस्याप्यनिवार. णात् । ततो निराकृतमेतत्-"व्यक्तीनां भावो न तासामन्वयः" [प्र. वार्तिकाल० २। १२६ ] इति । यदि पुनरिदमपि प्रत्यक्षं न पूर्वापरक्षणौ पश्यति कथं "तत्रेन्द्रियव्यापारतद्
-जन्मनो भा०, ब०, ५०, स०।२ सत्यसती च । ३ कालान्तरव्यापित्वम् । ४ सामान्यबुद्धिरपि । ५ निर्विकल्पकत्व प्र-आ०, ब०, प०।६ प्रत्यक्षं स्व-आ०,०, ५०, स०। ७ प्रत्यक्षस्य । ८ भवेत्प्रत्यक्ष तत्र कस्यचि-आ०,व०प० । ९ मध्यसमयव्यापारोत्पभप्रत्यक्षस्य । १० प्रत्यक्षस्य । ११ पूर्वापरक्षणयोः ।