________________
न्यायविनिश्चयविवरणे ध्यक्षयोरभावं पश्येत् ? । पश्यतु को दोष इति चेत् ; न; 'अपरमपि प्रत्यक्षं पूर्वापरक्षणावप्रत्यक्षयदेव तत्र कस्यचिदन्वयं पश्यतु न कश्चिदोषः' इत्यपि प्रसङ्गात् । ततो 'न पूर्व परत्र' इत्याद्यपि परस्य प्रयासमात्रमेव, तथापि कस्यचिदैनिष्टस्याऽभावात् । तन्नायं विचारः प्रत्यक्षम् ।
अनुमानमिति चेत् ; न ; लिङ्गाभावात्। इन्द्रियव्यापाराश्रितत्वमेव लिङ्गम् , तेन ५ तदध्यक्षस्य क्षणपर्यवसानसाधनादिति चेत् ; क पुनस्तस्य स्वसाध्याविनाभावप्रतिपत्तिः ? संहृत
सकलविकल्पावस्थायामिति चेत् ; न ; तस्या एवापरिज्ञानात् अनुपजातविकल्पकल्माषा निरंश. क्षणक्षीणस्वपरविषयदर्शनप्रबन्धरूपा सेति चेत् ; नन्वियं श्रूयत एव भवद्वचनात्। न कदाचिदप्यनुभवपथमुपसर्पति अन्तर्बहिश्चान्वयिनो नानावयवसाधारणस्यैव चेतनस्येतरस्य च प्रतिपत्तिदर्शनात् ।
तस्माद् दुरन्तसंसारदुःखदावादभीरुभिः ।
अदृष्टा कल्पितैवेयं लोकविप्लवकारिणी ।। ४३४ ॥ तर्हि विपक्षे समयान्तरप्रवृत्तिलक्षणे बाधकबलादविनाभावप्रतिपत्तिरिति चेत् ; न ; विरोधाभावे बाधकानुत्पत्तेः । अस्तु क्षणमात्रपर्यवसितेन्द्रियव्यापारकृतं प्रत्यक्षं न च तन्मात्रपर्यवसितम्, किमत्र विरुद्धम् ? नियतातीतादिविषयत्वमेव । न ह्यतीतादिविषयत्वसम्भवे प्रत्यक्षस्य नियत
तद्विषयत्वं शक्यमुपपादयितुम् ; तदन्यस्याप्यतीतादित्वाविशेषात् । एवञ्च सर्वः सर्वाकारदर्शी १५ स्यात् । न चैवम्, अतीते स्मरणस्य अनागते च सम्भवानुमानस्य वैयापत्तेः । अतो विरोध
बलोपनीतस्यातिप्रसङ्गस्यैव हेतुबाधकस्य विपक्षे सम्भवात् कथं तद्बलेनाविनाभावप्रतिपत्तिर्न भवतीति चेत् ? न; वर्तमानविषयत्वेऽपि दोषात् । तथा हि
ग्रहणं वर्तमानस्य प्रत्यक्षेणावगच्छतः । सर्वस्य वर्तमानस्य तेनैव ग्रहणं भवेत् ॥ ४३५ ॥ प्रत्यक्षान्तरमन्यत्र तथैवोपकल्पितम् । गृहीतग्रहणादोषात्परस्य स्मरणादिवत् ॥४३६॥ प्रत्यक्षं वर्तमानस्य यस्यैवाकारमुद्हेत् । तस्यैव ग्रहणं तेन न सर्वस्येति चेन्मतम् ॥४३७॥ सर्वस्य वर्तमानत्वाविशेषात्स्वेष्टवस्तुवत् । तदेव नियतं कस्मादाकारोद्वहनं भवेत् ॥४३८॥ 'यत्रैव योग्यमध्यक्षं तस्यैवाकारमुद्हेत् । गृह्णाति च तदेव' इति प्रत्यवस्थान सम्भवे ॥४३९॥ अतीतादिग्रहेऽप्येवं नियमः किन्न मन्यते । यत्प्रत्यक्षस्य तत्रापि सामर्थ्य नियमान्वितम् ॥४४०॥
सं यदेव भा०,०, ५०, स०। २ कथञ्चिद्दोषः आ०, ब०, ५०, स०।३ -निष्टाभा-आ०, १०,१०, स०। ४ संहृतसकलविकल्पावस्था । ५ क्षणान्तर । ६ क्षणमात्र । तथैवावक-आ०,०, ५०, स.10-म सम्भवेत् आ०, १०, प० ।