________________
प्रथमः प्रत्यक्षप्रस्तावः 'सामर्थ्य ननु भावानां वेद्यते कार्यदर्शनात् । सामर्थ्यात्कार्यक्लृप्तिस्तु न युक्तान्योन्यसंश्रयात्' ॥४४१॥ इत्यपि प्रत्यवस्थानं तमोबाहुल्यसम्भवम् । आकारनियमेऽप्येवं दोषवादानिषेधनात् ॥४४२॥ आकारनियमः सिद्धः प्रत्यक्षात् , 'स तु किंकृतः' । इत्यत्राध्यक्षसामर्थ्यस्योत्तरत्वेन वर्णनात् ॥४४३॥ नान्योन्याश्रयदोषश्चेत् ; गृहीतनियमेऽप्ययम् । समाधिः किन्न येन त्वं तत्रैवासि पराङ्मुखः ॥४४४॥ अपि चइन्द्रियस्याल्पकालत्वं तदध्यक्षे भवेद्यदि । कारणस्याल्पदेशत्वं कार्य किन्नोपगच्छति ॥४४५॥ तथा सत्यल्पकाद्वहेर्ने महाधूमसम्भवः । बीजादप्यणुनो न स्यात् स्थूलनालाङ्कुरोदयः ॥४४६॥ प्रतीतिबाधनान्नैवमिति चेदभिलप्यते । कालदैर्येऽपि संवित्तेः प्रतीतिः किन्न विद्यते ॥४४७॥ देशव्याप्तिरणुत्वान्न भावस्येत्यपि दुर्वचः । अवयव्यादिसंसिद्धेर्यथास्थानं निरूपणात् ॥४४८॥ न चापि देशव्यापित्वमत्रातीव प्रसक्तिमत् । योग्यतानियम मुक्त्वा नान्यदस्ति च कारणम् ॥४४९॥ कालव्याप्तौ च बोधस्य से समानस्ततः कथम् ।
अतिप्रसङ्गो येनास्या बाधनं परिकल्प्यते ॥४५॥ तन्न बाधकवलादप्यस्याविनाभावनिश्चयः । न चानिश्चिताविनाभावस्य गमकत्वम् अतिप्रसङ्गात् । तदयमप्रयोजको हेतुः।असिद्धश्च; इन्द्रियव्यापारस्य क्षणमात्रनियमभावप्रतिपत्तेरुपायाभावात् ,अतीतस्य स्मरणेन भाविनश्च समयस्यानुमानेनावष्टम्भान्न तत्रेन्द्रियव्यापारः । न हि स्मरणानुमान. व्यापार एवेन्द्रियव्यापारः तन्निबन्धनस्यापि विषयपरिच्छेदस्याध्यक्षत्वप्रसङ्गादिति चेत् ; न; २५ अध्यक्षयोग्ये अतीते भाविनि च स्मरणानुमानप्रवृत्तेरभावात् । स्मरणं हि नानासमयव्यवहित एवोपलब्धपूर्वे प्रवृत्तिमत् , न च तस्याधुनिकप्रत्यक्षविषयत्वम् । अनुमानस्य अनन्तरसमयगोचरत्वमपि न प्रत्यक्षविषयापेक्षम् अप्रत्यक्षविषय एव शब्दविद्युदाद्युत्तरपरिणामादौ तदभ्युपगमात् । आनन्तर्याविशेषात्तत्परिणामस्यापि कस्मान्नेन्द्रियविषयत्वमिति चेत् ? न; योग्यतानियमेन विषय
तत्रैवापि प-आ०,०प०२ इन्द्रियप्रत्यक्षे। ३ कालस्याप्तौ मा०,०,०स०। योग्यतानियमः। ५ कालव्याप्तेः । ६ प्रतिपत्तावुपाया-ता०, स०। ७ अनुमानाभ्युपगमात् । ८ शब्दविद्युदाद्युत्तरपरिणामस्यापि ।
९