________________
५
१०
१५
२०
२५
૪૬
न्यायविनिश्वयविवरणे
[ १७
व्यवस्थाया निवेदितत्वात् । ततो नास्मादुपायादिन्द्रियव्यापारस्य क्षणनियमप्रतिपत्तिः । तद्व्यापारजनितस्य प्रत्यक्षस्य क्षणनियमात् तद्व्यापारस्यापि तेन्नियमप्रतिपत्तिरिति चेत्; तत्प्रत्यक्षस्य कुतस्तन्नियमः ? तैव्यापारस्य तन्नियमादिति चेत्; न; परस्पराश्रयात् - इन्द्रियवृत्तेः क्षणनियतत्व तत्प्रत्यक्षं क्षणनियतं स्यात्, तत्प्रत्यक्षक्षणनियतत्वादिन्द्रियवृत्तिः क्षणनियता स्यादिति । स्वत एवेन्द्रियवृत्तेस्तन्नियमः प्रतीयत इति चेत्; न; तद्वृत्तेरचेतनत्वात् । चेतनैव तद्वृत्तिः तद्वृत्तित्वात् स्वप्नोपलब्धतद्वृत्तिवदिति चेत् ; न ; तच्चेतनत्वस्य “विप्लुताक्ष" "इत्यादौ निराकरणात् । तन्न कुतश्चिदपि तद्व्यापारस्य तन्नियमस्य सिद्धि: ।
सिद्धस्यापि न गमकाङ्गत्वं व्यभिचारात् । दृश्यते हि समयपर्यवसितादपि तव्यापाराद् अलातक्षणेष्वन्वयदर्शनम् अन्यथा चक्रभ्रान्तेरभावप्रसङ्गात् तस्यास्तदन्वयज्ञानरूपत्वात्, तज्ज्ञानस्य चेन्द्रियजत्वात् । उपघातवशादल्पसमयादपि तद्व्यापाराच्चकज्ञानमविरुद्धमिति चेत् ; न ; स्तम्भक्षणेष्वपि तत एवान्वयज्ञानस्याविरोधप्रसङ्गात् । कुतस्तत्रोपघात इति चेत् ? अलातक्षणेपु कुत: ? तेषामेव शीघ्रवृत्तितिरोहितभेदान्वयादिति चेत्; न; स्तम्भक्षणानामपि शीघ्रवृत्तित्वाविशेषात्, अन्यथा विलम्ब्य प्रतिपत्तिप्रसङ्गात् । उपघातजवे' अलातचक्रज्ञानवत् तदन्वयज्ञानस्यापि विभ्रमः स्यादिति चेत्; न; तथापि व्यभिचारस्यापरिहारात् । अपि च, यदि " तदविभ्रमेण प्रयोजनं मा भूदुपघातनिबन्धनं तदन्वयज्ञानम्, अनुग्रह निबन्धनं तु स्यात्, विषयक्षणान्वयेन वस्तुभूतेनैव तदिन्द्रियस्यानुग्रहात् । विषयस्याकारणत्वात् कथं तदन्वयस्या - नुग्राहकत्वमिति चेत् ; उपघातकत्वं कथम् ? सौगते मते विषयस्य " कारणत्वादिति चेत् ; अनुग्राहकत्वमपि तत एवास्तु " तं प्रत्येव तदन्वयस्य वस्तुभावोपपादनात् तद्वस्तुभावस्यापरिस्खलिता तज्ज्ञानादेव प्रतिपत्तेः । न चैवम् अलातचक्राकारस्यापि वस्तुभावः; करव्यापारकृतशी'परिवर्तनाभावेऽपि तत्प्रतिपत्तिप्रसङ्गात् वस्तुप्रतिपत्तौ तपरिवर्त्तनस्याकिश्चित्करत्वात् । तदेव तत्र सामग्रीति चेत्; गतमिदानीं विभ्रमवार्त्तया, काचादेरपि रजनीकर 'व्याकारप्रतिपत्तौ सामग्रीरूपत्वोपपत्तेः”, :"", "" तद् व्याकारस्यापि वस्तुत्वप्रसङ्गात् । बाधकप्रत्ययोपनिपातस्य चक्राकारे भावात् । तन्नापरिस्खलितप्रत्ययवेद्यत्वं ̈तदाकारस्य यतो वस्तुभावः स्यात् । स्तम्भाद्यन्वयज्ञानमपि परस्खलितमेव मनोविकल्पत्वात् मरीचिकातोयविकल्पवत् । क्षणक्षीणानि हि स्तम्भस्वलक्षणानि प्रत्यक्षतो वेद्यन्ते, तदनन्तरकालभावी तु मनोविकल्पः तदन्वयमविद्यमानमेवोपदर्शयतीति चेत् ; न; तस्येन्द्रियव्यापारान्वयव्यतिरेकानुविधायिनो मनोविकल्पत्वानुपपत्तेः अलातचक्रविभ्रमस्यापि " तद्विकल्पत्वप्रसङ्गात् । तथा च व्याहतमेतत्
१ इन्द्रियव्यापार । २ क्षणनियमप्रतिपत्तिः । ३ इन्द्रियव्यापारस्य । ४ तद्वृत्तत्वा-आ०, ब०, प०, स० । ५ न्यायवि० श्लो० ४८ । ६ इन्द्रियव्यापारात् । ७ ज्ञानविरो-आ०, ब०, प०, स० ८ - जन्त्वलात - आ०, ब०, प०, ०९ तदापि आ०, ब०, प०। १० अन्वयज्ञानस्य सत्यत्वेन । ११ - स्याकार - आ०, ब०, प०, स० । १२ सौगतम् । १३ - प्रपरिवर्तनभा - आ०, ब०, प०, स० । १४ - करव्यापार - आ, ब०, स० ।- करवद्यापार - प० । १५ - रूपत्वापत्तेः प० । १६ चन्द्रद्वयाकार । १७ अलातचक्राकारस्य । १८ मनोविकलत्वात् आ०, ब०, प०, स० । “परस्परविविक्ताणु प्रथमप्रतिभासनम् । विकल्पकास्तु विज्ञानात् घनाकारावभासिता ॥" - प्र०वार्तिकाल• २ २९६ । १९ मनोविकल्पत्व | !