________________
१४७
२२८
प्रथमः प्रत्यक्षप्रस्तावः "शीघ्रवृत्तरलातादेग्न्वयप्रतिघातिनी ।
चक्रभ्रान्ति गाधत्ते न दृशां घटनेन सा ॥"[प्र०वा० २।१४० ] इति । स्पष्टप्रतिभासत्वात् न चक्रसंवेदनस्य मनोविकल्पत्वम् । न हि तद्विकल्पाः स्पष्टावभासिनो भवन्ति । "नं विकल्पानुविद्धस्य स्पष्टार्थप्रतिभासिता।" [प्र० वा० २।२८३ ] इति वचनादिति चेत् ; न; स्तम्भागन्वयज्ञानेऽपि स्पष्टप्रतिभासाविशेषात् । दर्शनसान्निध्यकृतः तत्रं ५ तत्प्रतिभास इति चेत् ; न; चक्रसंवेदनेऽपि तत एव तदापत्तेः । तन्न तदन्वयज्ञानस्य मनोविकल्पत्वम् ।
'ननु इन्द्रियव्यापारस्य अनुग्रहवशादन्वयज्ञानहेतुत्वे प्रथमतद्व्यापारादेव तदुत्पत्तेः अपरापरतद्यापारेण किं कर्त्तव्यम् ? परापरं तज्ज्ञानमेवेति चेत् ; न; तस्यैव प्रयोजनानवधारणात् । अन्वयग्रहणस्य प्रथमज्ञानादेव भावात्।' इत्यपि अलातचक्रज्ञाने समानः पर्यनुयोगः-प्रथमे- १० न्द्रियव्यापारादेवोपघातवशात् तज्ज्ञानोत्पत्तेरपरापरतद्व्यापारस्य तत्कृतस्य चापरापरज्ञानस्य वैयर्थ्याविशेषात् । अपरापरज्ञानेनैव चक्राकारप्रतिपत्तौ अन्वयप्रतिपत्तिरपि तथैवास्तु । तथा च व्याहतमेतत्"तथा सति परापरदर्शनानां विच्छेदात् एकेनापि न तत्कालान्तरस्थानग्रहः"[ ]इति। तन्नक्षणपर्यवसितस्येन्द्रियव्यापारस्य गमकाङ्गत्वं व्यभिचारात् । ततो नानुमानत्वमपि विचारस्य ।
___अवस्तुसंस्पर्शी विकल्प एवायं कश्चिन्न प्रमाणमिति चेत् ; कथमतः प्रत्यक्षस्य क्षणनियमप्रति- १५ पत्तिः ? तद्विपर्ययप्रतिपत्तेरपि तत एव प्रसङ्गात् । तादृशाद् विकल्पात्पराभिमतसिद्धिं निवारयन् तत एव स्वाभिमतमवस्थापयतीति किमतः परं परस्य साहसमुद्भावयामः । तथा च वक्ष्यति
"सर्वथा वितथार्थत्वं सर्वेषामभिलापिनाम् ।
ततो वेद्यव्यवस्थानं प्रत्यक्षस्येति साहसम् ॥' [न्यायवि० श्लो०१५६] इति ।
तन्न विचारबलात्प्रत्यक्षस्य क्षणविषयत्वावगमः । स्वत एवेति चेत् ; न ; तथैवासम्प्र- २० तिपत्तेः । एतदेवाह
आत्मनाऽनेकरूपेण बहिरर्थस्य तादृशः।
विचित्रं ग्रहणं व्यक्तं विशेषणविशेष्यभाक् ॥८॥ इति । 'चक्षुरादिधियाम्' इत्यनुवर्तते । तदयमर्थः-चक्षुरादिज्ञानानाम् आत्मना स्वभावेन बहिरर्थस्य स्तम्भादेर्य ग्रहणं संवेदनं तद् व्यक्तम् उपहसनपरमेतद् अव्यक्ते व्यक्तोपादा- २५ नात् अव्यक्तमित्यर्थः । कीदृशेन तेन कीदृशस्य तस्य ग्रहणं व्यक्तमिति चेत् ? अनेकरूपेण । न विद्यते एकमन्वितं रूपं यस्य तेन क्षणिकेनेति यावत् । तादृशः अनेकरूपस्य क्षणिकस्येति यावत् । .
घट्टनेन भा०, ब०, ५०, स.। २ "न विकल्पानुबद्धस्य..."-प्र. वार्तिकाल | "न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता॥"-प्र. वा. म०।३ स्तम्भाद्यन्वयज्ञाने। ४ स्पष्टप्रतिभासः। ५ दर्शनसान्निध्यादेव । ६ अन्वयज्ञानमेव । ७ कथमतप्र-आ०, ब०, प० । -न् स्वत आ०, ब०, ५०, स०।