________________
न्यायविनिश्वयविवरणे
अध्यभागत्क्षणक्षीणात् क्षणिकस्यैव वेदनम् ।
तदव्यक्तं समाचष्टे सूरिर्मान विवर्जनात् ॥ ४५१ ॥
विचारस्य प्रमाणत्वं तत्र पूर्वं निवारितम् । शास्त्रकारस्तदेवाह 'विशेषणविशेष्यभाक् ॥ ४५२|| - इति ।
.विशेषणं चक्षुरादिव्यापारस्य क्षणनियम एव विशिष्टज्ञानहेतुत्वात्, तच्च विशेष्यं चे तस्कृतं प्रत्यक्षस्य क्षणविषयत्वम्, ते स्वविपयत्वेन भजत इति विशेषणविशेष्यभाक् । विचाररूपं तदपि व्यक्तम्, अत्राप्युपहसनं तस्याप्रमाणत्वेन निरूपणात्, अप्रमाणोपाश्रयणेन कस्यचिद्व्यसिद्धेरिति भावः । स्वसंवेदनमेव तर्हि तंत्र प्रमाणमिति चेत्; अत्राह - 'विचित्रम्' इति । चिदिति चिच्छक्तिरनुभव इत्यर्थः सैव त्राणं त्रा परिरक्षणं यस्य तच्चित्रम्, तद्विपरीतं १०. विचित्रं - क्षणक्षयविपयत्वं प्रत्यक्षस्य | अनुभवप्रसिद्धं खल्वनुभवपरिरक्षितं भवति । न चेदं तत्प्रसिद्धम् । न हि प्रत्यक्षं किञ्चिदपि क्षणविषयत्वेनात्मानमावेदयदुपलभ्यते । न चानुपलब्धस्य कल्पनम् अतिप्रसङ्गात् । तन्न क्षणविषयं प्रत्यक्षम् । न च तस्यै निर्विषयस्य सम्भव त्यसम्भवे असम्भव्येव प्रथमो विकल्पः ।
५
१४८
'द्वितीयस्तु निरुपद्रव इति तमुपाश्रित्य प्रत्यक्षस्य सामान्यविषयत्वनिवेदनेन व्यव १५ सायात्मकत्वं व्यवस्थापयन्नाह - 'आत्मना' इत्यादि । आत्मना चक्षुरादिबोधस्वभावेन ग्रहणं साक्षात्करणं बहिरर्थस्य घटादेः व्यक्तं सर्वजनप्रसिद्धमिति । अनेनअशक्यप्रतिषेधत्वं बहिरर्थस्य दर्शयन् ।
[ ११८
विज्ञानमात्रवादादेर्वक्ति स्वेच्छा निबद्धताम् ||४५३ ॥
कथं पुनर्बहिरर्थस्य ग्रहणम् ? कथञ्च न स्यात् ? एकरूपत्वे तदयोगात् । यद्येकमन्तर्भाव२० ग्रहणप्रवृत्तमेव प्रत्यक्षस्य रूपम् कथं तेन बहिर्भावस्य ग्रहणम्, बहिर्भावस्याप्यन्तर्भावत्वप्रसङ्गात् ? न हि अन्तर्भावग्रहणैकरूपेण गृह्यमाणस्य बहिर्भावत्वम्; अन्तर्भावस्यापि तद्भावाभावप्रसङ्गात् । बहिर्भावग्रहणप्रवृत्तमेव तर्हि तस्यें रूपमिति चेत्; न; अन्तर्भावस्याननुभवप्रसङ्गात् । न चानुभवानाघ्रातस्य वहिर्भावगोचरत्वम्; 'परोक्ष' इत्यादिना " तन्निराकरणात् । तत्कथं बहिर्भावग्रहणं सुप्रसिद्धम् असम्भवदर्थस्य सुप्रसिद्धत्वायोगादिति चेत् ? अत्राह - 'अनेकरूपेण' इति । अनेकम् आत्मनि” व्यापृतमन्यत् अन्यच्चार्थे रूपं यस्य तत् अनेकरूपम्,
"
२५
तेनेति ।
अनेकरूपं प्रत्यक्षमात्मार्थग्रहणक्षमम्
एकस्वभावपक्षोक्तदोषेणालिप्यते कथम् ? || ४५४ ||
१ विशेषेण वि-आ०, ब०, प०, स० । २ चैतत्कृतम् आ०, ब०, प०, स० । ३ तत्प्रमा-आ०, ब०, प०, स० । ४ परीक्षितं आ०, ब०, प० । ५ प्रत्यक्षस्य । ६ प्रत्यक्षस्याऽसम्भवे । ७ 'विशेषात्मकतद्भवसामान्यस्वरूपं प्रतिक्षणभेदिनः चक्षुरादिप्रत्यक्षस्य वेद्यम्' इत्याकारकः । द्रष्टव्यम् - पृ० १४२ पं० ७ । ८ ' कालान्तरव्यापिनो वा' इत्याकारकः । ९ अन्तर्भावाभाव | १० प्रत्यक्षस्य । ११ न्यायवि० श्लो० ११ । १२ आत्मनि व्यावृत्तम् आ०, ब०, प० । आत्मव्याष्टतम् स० ।