________________
प्रथमः प्रत्यक्षप्रस्ताव:
११८]
वेद्यमेकस्वभावेन रूपं तञ्चेदनेककम् । तस्य नानास्वभावत्वमेवं सति सुदुर्घटम् ॥४५५।। एकरूपग्रहाविष्टस्वभावस्यैव तत्परम् । विषयीभावमापन्नं कथं तस्मात्पृथक् भवेत् ? ॥४५६।। वेद्यं नानास्वभावेन तंच्चेत्स्यादनवस्थितिः ।
तस्यापि नानारूपेण परेणैव प्रवेदनात् ॥४५७॥ इति चेत् ; अत्र प्रतिविधानम्
अनेकरूपज्ञानं हि नान्यत्प्रत्यक्षवेदनात् । किं तत्रानेकरूपस्य परस्य परिकल्पनम् ॥४५८।। अनवस्थानदौःस्थित्यं यत्सामर्थ्यादुपस्थितम् । बहिरर्थपरिज्ञानं निरुणद्धि प्रसिद्धिमत् ॥४५९।।
न हि प्रत्यक्षवेदनादन्यदेव अनेकरूपवेदनम् । तच्च तच्छक्तिरूपादुपपन्नमेव,ततः किं तत्रापरानेकरूपपरिकल्पनेन ? यतोऽयमनवस्थानदोषो बहिरर्थपरिच्छेदप्रसिद्धिविध्वंसकारी निराबाधवृत्तिः प्रवर्तेत । तर्हि प्रत्यक्षीदव्यतिरिक्तमेवानेकरूपं तत्परिज्ञानविषयत्वात् तद्रूपवत् , तथा चान्येन रूपेणार्थवेदनम् अन्येन च स्ववेदनमिति स्वराद्धान्तो विरुध्यत इति चेत् ; न; सर्वथा १५ तदव्यतिरेकस्याशक्यसाधनत्वात् । सर्वथा हि प्रत्यक्षादनेकरूपस्याव्यतिरेके तदेव प्रत्यक्षं निर्भागमवशिष्येत । न च निर्भागं प्रत्यक्षमन्यद्वा वस्तु किञ्चित्सम्भवति निरवद्यप्रमाणसंवेद्यत्वाभा. वादिति करिष्यत एवात्र प्रबन्धः । कथञ्चिव्यतिरेकसाधनं तु सिद्धसाधनमेव, "रूपतद्वतरत्यन्तव्यतिरेकस्यानभ्युपगमात् । नन्वेवमपि येनात्मना प्रत्यक्षात्तदैव्यतिरिक्तं तेन तत्परिज्ञानमेव "तस्यापि परिज्ञानमस्तु, येन तु "तद् व्यतिरिक्तं तेनान्यदेव तद्वदनाद् अनेकरूपवेदनमिति २० तन्निबन्धनमन्यदेव शक्तिरूपं परिकल्पयितव्यम् , तद्रूपवेदनमप्यन्यस्मादेव शक्तिरूपादिति तदवस्थमनवस्थानमिति चेत् ; अन्यदेव तद्वेदनमिति कुतः ? तथैवानुभवादिति चेत् ; न; "रूपतद्वद्विषयस्य वेदनद्वयस्याननुभवात् । अनुभवे वा कथमनवस्थानं तस्यानुभवप्रतिकूलत्वात् , तदिदमन्योन्यव्याहतम्-'अनुभवश्वानवस्थानं च' इति । यदि भिन्नं तद्वदनं नास्ति; कथं ततः प्रत्यक्षस्य वेदनम् ? अवेदनविषयस्य शक्तिरूपस्य तद्वेदनानङ्गत्वात् , अन्यथा प्रत्यक्षस्याप्यविदितस्यैव २५ अर्थवेदननिबन्धनत्वापत्तेरिति चेत् ; कस्तस्थावेदनमाह ? प्रत्यक्षतादात्म्येन तद्वेदनस्याभिहित
प्रत्यक्षस्य । २ प्रत्यक्षस्य अनेकरूपम् । ३ -दुपनतमेव ता.। . -कादिनिरा-बा०, प., १०, स०।५-शादिव्य-आ०, ब०, ५०, स०। ६ विरुध्यत आ०, २०, ५०, स०। ७ स्वभावतद्वतोः । ८ तत् अनेकरूपम् । ९ प्रत्यक्षपरिज्ञानमेव। १० अनेकरूपस्यापि । ११ अनेकरूपम् । १२ प्रत्यक्षवेदनात् । १३ रूवं कल्प-आ०, ब०, प., स०। १४ रूपतद्वि-आ०, ब०, ५०, स. । स्वभावतद्वद्गोचरस्य । १५-वपरिकू-ता। १६ अनेकरूपवेदनम् ।