________________
न्यायविनिश्वयविवरणे
१५०
[१८
त्वात् । अपरिज्ञातेन रूपेण कथं तस्य प्रत्यक्षपरिज्ञानाङ्गत्वमिति चेत् ? न; सर्वात्मना परिज्ञार्तस्यैव तस्य तदङ्गत्वमित्यनभ्युपगमात् । तद्भेदस्यापरिज्ञाने कथमस्तित्वमिति चेत् ? न; कार्यभेदादेव तद्भेदस्य सुपरिज्ञानत्वात् । भिन्नं हि तत्कार्यमर्थवेदनं स्वसंवेदनं च । न हि तदेकरूपत्वे सत्युपपन्नम्, उक्तत्वात् न्यायस्य । न चैकान्तिकस्तद्भेदः ; कार्यभेदस्याप्यैकान्ति५. कत्वाभावात् । न हि स्वसंवेदनादर्थवेदनं ततो वा स्वसंवेदनमेकान्ततो भिन्नम् ; अभेदस्यापि कथञ्चिदुपलम्भात् । नन्वेवं बहिरपि नानानीलपीतादिविपयत्वे कथञ्चित्संवेदनभेदः तन्निबन्धनश्च रूपभेदः प्राप्नोतीति चेत्; सत्यमेतत्; न्यायोपपन्नत्वात् । अनेकरूपत्वमपि तस्य योकरूपनिबद्धमेव, अनेकसंवेदनत्वमेव तस्य तन्निबद्धमस्तु किमनेकरूपत्वकल्पनया ? तदपि तदुपरानेकरूप निबद्धमेवेति चेत्; न; तस्यापि तदपरानेकरूपनिबद्धत्वकल्पनायामनवस्थापत्ते१० रिति चेत्; न; पूर्वपूर्वानेकरूपनिबद्धस्य उत्तरोत्तरस्य तद्रूपस्योपपत्तेः अव्यवस्थितदोपाभावात् अनादित्वेनोपादानोपादेयभावस्य प्रकल्पनात् ।
भवतु बहिरर्थस्य ग्रहणम्, अन्वितस्य तु कथं ग्रहणम् ? प्रत्यक्षस्य क्षणपर्यवसायित्वेन तदन्वयाधिष्ठानपूर्वापरक्षणगोचरत्वाभावादिति चेत्; न; तस्य ' तत्पर्यवसायित्वाभावात्, कालान्तरावस्थायित्वेन प्रथमलोचनादिव्यापारादुत्पत्तेः । अपरापरस्तर्हि तदूव्यापारः कैमर्थ१५ क्यात् ? प्रथमप्रत्यक्षादेव बहिर्भावान्वयस्य प्रतिपत्तेः प्रत्यक्षान्तरस्यानपेक्षणादिति चेत् ; न "; तेन तत्रैवापरापरस्यातिशयस्य साधनात् । तथा हि
२०
अक्षव्यापारतः प्राच्यादुत्पन्नस्य दृगात्मनः ।
"अन्यतोऽवग्रहात्मत्वमीहनात्मत्वमन्यतः ॥ ४६० ॥
अन्यतोऽवायरूपत्वं धारणात्मत्वमन्यतः ।
व्यापारात्ततो नास्ति वैफल्यं " तस्य तात्त्विकम् ॥४६१॥
तदेवाह - अनेकरूपेण । अनेकम् अपरापरलोचनादिव्यापारोपनीतप्रादुर्भावोपग्रहम् अवग्रहादिविशेषाभिख्यं रूपं यस्य तेनेति । ततो निराकृतमेतत् - " ग्रहणस्य तु कालान्तरस्थानवत्वे सकृदेव तथा ग्रहणमिति । तदेव चतुरनुवर्त्तनं वृथेति प्राप्तम् " [ ] इति । स्यान्मतम्-प्रत्यक्षात्तद्विशेषस्यानर्थान्तरत्वे 'तद्वत् प्रथमचक्षुरादिव्यापारादेवोत्पन्नत्वात २५ किं पुनस्तद्व्यापारानुवर्त्तनेन ; अर्थान्तरत्वे तु कथं तस्येति व्यपदेश: सम्बन्धाभावात् ? तद्विशेषात्प्रत्यक्षस्योपकारः सम्बन्ध इति चेत्; न; "तस्यापि तस्मादनर्थान्तरत्वे पूर्ववदोषात्, अर्थान्तरत्वेऽपि सम्बन्धाभावेन व्यपदेशानुपपत्तेः । उपकारादप्युपकारान्तरसम्बन्धपरिकल्प
१ अनेकरूपस्य । २ - तस्य तस्यैतद - आ०, ब०, प०, स० । ३ स्वपरि-आ०, ब०, प०, स० । ४ कार्यभेदस्यैका - आ०, ब०, प०, स० । ५ प्रत्यक्षस्य । ६ तन्निबन्धनम् - आ०, ब०, प०, स० । एकरूपनिबद्ध • मस्तु । ७ प्रत्यक्षस्य । ८ क्षणपर्यवसायित्वाभावात् । ९ अपरापरव्यापारेण । १० प्रत्यक्ष एव । तत्रैवापरापराति-आ०, ब०, प०, स० । ११ व्यापारात् । १२ अपरापरव्यापारस्य । १३ अवग्रहाद्यात्मकस्य अतिशयस्य । १४ प्रत्यक्षवत् । १५ उपकारस्यापि । १६ प्रत्यक्षात् ।