________________
११८ ] प्रथमः प्रत्यक्षप्रस्तावः
१५१ नायामनवस्थाप्रसङ्गादिति; तदपि न सम्यक् ; एकान्तभेदाभेदयोः एवं दोपेऽपि कथञ्चित्पक्षस्याप्रतिक्षेपान् । 'कर्थश्चित्' इति अन्धपदमात्रमेतत् , तदर्थस्य जात्यन्तरस्याप्रसिद्धेरिति चेत् ; न; तस्यानुभवापरू इत्वात् निरवद्यानुमानगोचरत्वेन च सुप्रसिद्धत्वात् । तच्चेदमनुमानम्-क्रमप्रवृ. त्तानेकरूपः चक्षुरादिबोधात्मा बोधत्वात् विचारवत् । कः पुनर्विचारः इति चेत् ?
"एकत्र दृष्टो भेदो हि क्वचिन्नान्यत्र दृश्यते ।
न तस्माद्भिन्नमस्त्यन्यत्सामान्यं बुद्ध्यभेदतः ॥” [प्र०वा० २।१२६ ] इत्ययमेव । कथमस्य निदर्शनत्वं चक्षुरादिज्ञानात्मनः क्रमानेकरूपत्वे स्यादिति चेत् ? उच्यतेअस्य खलु क्रमप्रवृत्ता बहव उल्लेखा 'एकत्र' इति 'दृष्ट' इति 'भेद' इति 'कचित्' इति 'नान्यत्र' इति एवमुत्तरेऽपि । तेपाञ्च निरन्वयविच्छिन्नानां विचारत्वम् , अन्वितैकज्ञानाधिष्ठानानां वा? निरन्वयविच्छिन्नानामपि प्रत्येक विचारत्वे
प्रथमोल्लेखनादेव सामान्याभावनिर्णयात् । तदुत्तरोत्तरोल्लेखा भवेयुर्निष्प्रयोजनाः ॥४६२॥ 'तत्सत्त्वनिश्चयेऽप्याँ दिचक्षुर्व्यापारतोऽन्यथा । तदुत्तरोत्तरश्चक्षुर्व्यापारो व्यर्थकः कथम् ? ॥४६३॥ सम्भूयैव विचारत्वं तेषामित्यप्यसङ्गतम् ।
मिणां सम्भवाभावात् क्षणक्षीणात्मनां मिथः ॥४६४॥ ने हि सम्भूय तेषां विचारत्वम् ; क्रमभावित्वे सम्भवाभावात् । नापि प्रत्येकम् ; एकत एव सामान्याभावनिर्ज्ञानात् उल्लेखान्तरवैयापत्तेः, अपि तु सर्वेषामेव तेषां विचारत्वम् । कालान्तरानुसन्धानशून्यानामपि तेषामेकत्र तन्निर्ज्ञाने व्यापारादिति चेत् ; न; कालप्रत्यासन्नस्यैव तत्र व्यापारा(र) "सम्भवात् , व्यवहितानां तु पूर्वपूर्वोल्लेखानां तदयोगात, अन्यथा सामान्य- २० ज्ञानेऽपि क्षणिकक्रमभाविचक्षुरादिव्यापाराणां कारणत्वोपपत्तेः तत्प्रतिक्षेपः” प्रज्ञाकरस्य प्रेक्षावत्त्वमपाकुर्यात् ।
___ अपि च, 'सर्वेषाम्' इत्युक्तम् , तत्र कः सर्वशब्दार्थः ? निरवशेपसमुच्चय इति चेत. ; अयमपि कस्य व्यापारः ? कस्यचिद्विकल्पस्येति चेत ; तस्यापि तर्हि विचारोल्लेखान् ‘एकत्रेति प्रथम उल्लेखो दृष्ट इति द्वितीयो भेद इत्यादिस्तृतीयादिः' इत्यु ल्लिख्योल्लिख्य समुच्चिन्वतो २५ विचारवबहव एवोल्लेखाः प्राप्ताः, तेषामपि क्षणध्वंसिनां न प्रत्येकं समुच्चयकरत्व पूर्ववदुल्ले. खान्तरवैयापत्तेः । नापि सम्भवोपाधीनाम् ; क्रमभावित्वेन तदभावात् । तेषामपि सर्वेषामेव
कथञ्चित्प्रत्यक्ष-आ०,ब०,०स० । २ "कथञ्चिदित्यन्धपदमेजत्"-हेतुबि०टी०पृ० ९४ । ३ -वोपासद-आ०,ब०,१०,स०। ४ एकत्रेति शब्दादेव । ५ दृष्टो भेद इत्यादिरूपाः। ६ अन्यथा उत्तरोत्तरोल्लेखानां सार्थ. कत्वे आदिचक्षुर्व्यापारतः तत्सत्वनिश्चयेऽपि तदुत्तरोत्तरचक्षुर्व्यापारः कथं व्यर्थः इति । ७ -प्यादिश्व-आ०,ब०,१०, स०। ८ क्रमाणाम् स०। ९न सम्भूय ता०।१० व्यापारासम्भ-आ०,०प०स०। अत्र ताडपत्रं त्रुटितम् । " "सामान्यस्य इन्द्रियाग्राह्यत्वात्..."-प्र०वार्तिकाल०२।१२६ । १२ -त्युल्लेखसमु-आ०, ब०, ५०, स.।