________________
५
१०
१५
२०
२५
न्यायविनिश्चयविवरणे
[ १८
समुच्चयप्रयोजन निबन्धनत्वमिति चेत्; न; तत्रापि 'अपि च' इत्यादेः प्रसङ्गस्यानिवर्तनात् चक्रकापत्तेः अनवस्थोपनिपाताच्च । तेन्न विकल्पात् विचारोल्लेखानां सम्भवति समुच्चयः । सन्तानात् सम्भवतीति चेत्; न; तत्रापि विकल्पवद्दोषात् । अपि च,
१५२
समुच्चयः कथं तस्मात्सन्तानश्चेदवस्तुसन् । तत एवान्यथा प्राप्तमन्यदप्यर्थवेदनम् ||४६५॥ तत्पूर्वत्वात्पुमर्थस्य व्युत्पाद्यः स्यात् स एव वः । निष्प्रयोजनमे वातः सम्यग्ज्ञानविचारणम् ॥४६६॥ तस्य वस्तुस्वमारोपादित्यप्येतेन चिन्तितम् । किचारोपेण वस्तुत्वमवस्तुत्वान्न भिद्यते ॥४६७ ॥ अन्यथा मावोऽप्यग्निरध्यारोपेण कल्पितः । सुप्रसिद्धाग्निवत्कुर्यात् किन्न पाकप्रयोजनम् ? || ४६८॥ वस्तुसन्नपि सन्तानो भिद्यते चेत्प्रतिक्षणम् । विचारोल्लेख भागोक्तैरेष दोषैर्न मुच्यते ॥ ४६९॥ न त भिद्येत क्षणभङ्गिजगत्कथा | अचित्त्वादन्वितोऽप्येषः समुच्चयकरः कथम् ? || ४७०॥ "चिवेऽप्येकस्वभावत्वे सन्तानान्न समुच्चयः ।
तस्मिन्नयं चायं चेति व्यापारस्याप्यसम्भवात् ॥ ४७१॥ 'चित्पर्ययस्वभावत्वे मतान्तर गतिर्भवेत् । तन्न सन्तानतो युक्तं सर्वशब्दार्थकल्पनम् ॥ ४७२॥ अनेनैव पथाऽऽत्मापि यौगोक्तः प्रतिवर्णितः । तस्याप्य चेतनत्वेनानधिकारात्समुचये ॥४७३ ॥ चेतनेन स्वनिष्ठेन समुच्चेता स चेन्मतः । प्रत्युल्लेखगतं तद्वा यद्वैकोल्लेख गोचरम् ? ॥४७४ ॥ एकोले खगतेनासौ चेतनेन कथं पुमान् । अन्योल्लेखानविज्ञातान् समुच्चयपथं नयेत् ? ॥ ४७५ ॥ अतिप्रसङ्गदुष्टोऽयमविज्ञातसमुच्चयः । एवं हि चेतनं न स्यादेकोल्लेखेन सार्थकम् ॥४७६॥ प्रत्युलेखगतत्वे तु तस्यापि क्रमभाविनः । उल्लेखा बहवस्तेषामपि क्षणविनाशिनाम् ॥ ४७७ ॥
१ स्यादिप्र-आ०, ब०, प०, स० । २ तन्निर्विक- स० । ३ न एवातः आ०, ब०, प०, स० ।
४ सन्तामस्य । ५ - ते चित्प्र-आ०, ब०, प०, स० ६ कथाम् आ०, ब०, स० । ७ चित्तेऽप्य-आ०, ब०, प०, स० । ८ चित्पर्याय - आ०, ब०, प०, स० ।