________________
५
१५
तस्मै भव्यसरोजतिग्मरुचये भक्त्या नमस्कुर्महे ॥" [ ] इति ।
अथ यदि भगत्रतो भव्याम्बुरुहभानुत्वं तत्तर्हि 'वाङ्मय मयूखसापेक्षमेव नान्यथा । न हि तत्सन्निधानादनुपदेशमेव भव्यानां तत्त्वज्ञानमिति "सौगतवत् स्याद्वादिनामभिनिवेशोऽस्ति, १० ततस्तद्वाङ्मयादेव तत्त्वज्ञानसिद्धेर्वाङ्मयमिदम पार्थकम् । न ह्येकवाङ्मयसाध्ये तदन्तरमुपयोगवत् । तत्रापि तदपरापरवाड्मयोपयोगपरिकल्पनायाम् अनवस्थाप्रसङ्गादिति । तत्रेदमाहबालानां हितकामिनामतिमहापापैः पुरोपार्जितैः,
२०
न्यायविनिश्चयविवरणे
[ ११२
भव्योपदेशे व्याप्रियते । न हि स्वभावाः पर्यनुयोगमर्हन्ति भावानां निःस्वभावतापत्तेः । तत्स्वभावः तत्कार्यादाम्नायादेवावगम्यते, तस्यापौरुषेयस्य निषेधात् । अनेन च परार्थसम्पत्स्वरूपं निरूपितम् । ततः सूक्तमेतदर्थतो देवस्यै
1
“यो निःशेषपदार्थतत्त्वविषयज्ञानाभियोगादभूत्, प्रत्यर्थस्फुरितप्रदेशविशद ज्ञानैकमूर्त्तिर्जिनः । वैराग्यातिशयाद्यचिन्त्यविभवात्सत्योद्यवादी च यः,
२५
२८
माहात्म्यात्तमसः स्वयं कलिबलात्प्राघो गुणद्वेषिभिः । न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्य नेनीयते, सम्यग्ज्ञानजलैर्वचोभिरमलं तत्रानुकम्पापरैः ॥ २॥ इति । इदमत्र तात्पर्यम् - भवति भगवद्वाङ्मयादेव भव्यानां तत्त्वज्ञानम् । यदि 'तद्व्याप्य( तदद्याप्य - ) मलिनीकृतमेव स्थितम् । न चैवम् । न च मलिनीकृतस्य " भव्यजनमनसि तत्त्वावद्योतनसामर्थ्यं सम्भवति, परिशोधितमलस्यैव तस्यै' निरवद्यविद्यानिबन्धनत्वात् । अतस्तन्मलपरिशोधनार्थमिदपरं वाङ्मयमारभ्यमाणं नापार्थकत्वदोषमुद्वहति प्रयोजनविशेषसम्भवात् ।
”यस्य तु" शब्द [:] स्वरूपं स्वार्थश्च यथावस्थितमवद्योतयति" तस्य भवत्येव तत्र शास्त्रस्यान्यस्य वानुपयोगित्वं प्रयोजनविशेषवैधुर्यात् । तथा हि
शब्दश्वेदात्मनस्तत्त्वं स्वरवर्णक्रमादिभिः ।
द्योतयेत् स्वमहिम्नैव प्राप्तं व्याकरणं वृथा ॥ ९६ ॥ यतो वेदस्य नित्यस्य स्वत एवावबोधिते ।
स्वरूपे न भवन्त्येव मिध्यात्वाज्ञानसंशयाः ॥ ९७॥ तदभावे न तस्यास्ति प्रत्यवायस्ततः कुतः । क्रियते वेदरक्षायै कैश्विच्छब्दानुशासनम् ॥९८॥
१ उपदेशाम्नायात् । २ आम्नायस्य शास्त्रोपदेशस्य । ३ अकलङ्कदेवस्य । ४ वाङ्मयूख - आ०, ब०, प०, स० । ५ " सम्भारावेधतस्तस्य पुंसश्चिन्तामणेरिव । निःसरन्ति यथाकामं कुव्यादिभ्योपि देशनाः || ” - तरवस ० श्लो० ३६०८ । ६ भगवदुपदेशादेव । ७ एतद्रथात्मकम् । ८ यदि भगवद्वाङ्मयमद्य यावत् निर्मलमेव स्यात् । ९ भगवदाम्नायस्य । १० भव्यजनस्य म-आ०, ब०, प०, स० । ११ भगवदाम्नायस्य । १२ एतद्रन्थात्मकम् । १३ मीमांसकस्य । १४ वेदः। १५-तमेव व्योतयति आ०, ब०, प०, स० । १६ " रक्षार्थं वेदानामध्ये यं व्याकरणम्" - पा० म० पस्प० ।