________________
२७
१।१]
प्रथमः प्रत्यक्षप्रस्ताव: धित्वात्' इति बेमः । तथाहि-यत् यत्कारणविरुद्धं तत्तस्याभावकारणम् यथा शीतस्पर्शविरोधी दहनः तत्स्पर्शहेतुकस्य रोमहर्षादेः, आवरणोपश्लेपकारणमिथ्याज्ञानाभिनिवेशविरोधी च सम्यरज्ञानाभ्यास इति कारणविरुद्धोपलब्धेः अन्यथानुपपत्तिनियमनिश्चयवत्याः सुनिश्चित एव प्रमाणाभ्यासस्यावरणविश्लेषं प्रति कारणभाव इति ।
यथास्त्यावरणं तस्य मिथ्याज्ञानं च कारणम् ।
तथा तृतीये वक्ष्यामः सा हि तद्विस्तरेक्षितिः ॥९५॥ तदनेन श्लोकस्य प्रथमपादेन भगवतः स्वार्थसम्पत्कारणमुक्तम् ।
स्यान्मतम्-निःशेषवस्तुविषयज्ञानजनितं भगवद्वचनं निःशेषार्थमेव स्यान्न नियतार्थम्, नियतार्थज्ञानजनितं हि वचनं नियतार्थ स्यात् । न च भगवतो नियतार्थ वेदनमस्ति । नियतार्थत्वञ्च वचनेषु दृश्यते । न खलु सर्व तद्वचनं सर्वार्थमेव प्रतीतिबाधनात्, वचनान्तर- १० वैयर्थेन "प्रबन्धविलोपप्रसङ्गाच्चेति ; तन्न ; सर्वविषयत्वेऽपि तज्ज्ञानस्य प्रदेशतो नियतविषयत्वस्यापि भावात् । सप्रदेशं हि तज्ज्ञानम् "आमनाऽनेकरूपेण" [ न्याय वि० श्लो० ९] इति वचनात् । तत्प्रदेशयोगपद्ये तन्निमित्तसकलवचनयोगपद्यमिति चेत् ; न ; प्रतिपित्सुप्रश्नसहायस्यैव तत्प्रदेशस्य वचनकारणत्वात् । न च प्रतिपित्सुः सर्वमेव पृच्छति। ततस्तप्रदेशनिमित्तस्य वचनसन्दर्भस्य नियतार्थत्वमित्येतत् प्रतिबुद्धग्रहणेन प्रतिव्यक्तिनियतभगवत्प्र. १५ बोधप्रदेशवाचिना कथयति । ततो नेदमत्र दूषणं प्रज्ञाकरस्य
"सर्वार्थदर्शनायातः शब्दः सर्वार्थवाचकः ।". [प्र० वार्तिकाल० १।९] इति ।
एकग्रहणेन तु सकलप्रदेशालङ्कृतनिखिलवस्तुगोचरभगवत्प्रबोधप्रदेशवाचिना तन्निमित्तस्य तत्सन्दर्भस्य सर्वार्थत्वं दर्शयति । 'सर्वार्थ' इत्यादि पुनरस्मिन् पक्षे अनुकूलत्वादेव न दूषणम् । अत एवोक्तम्
२० "स्याद्वादकेवलज्ञाने सर्वतत्त्वप्रकाशने ।” [ आप्तमी० श्लो. १०५] इति ।
मूर्तिग्रहणं तु ज्ञानतदभेदावबोधार्थम्", अन्यथा"ज्ञत्वायोगस्य वक्ष्यमाणत्वात्। तदनेन द्वितीयपादेन स्वार्थसम्पन्निवेदिता । ...
श्रीवर्द्धमानशब्देन तु 'निरतिशयापदानकर्मपरमवैराग्यादिसम्पद्वाचिना भगवदाम्नायस्य प्रामाण्यमावेदयता परार्थसम्पत्कारणमभिहितम् । परमवीतरागस्योपदेश एव कस्मात् ? २५ निग्रहबुद्धिवदनुग्रहबुद्धेरपि "तस्याऽसम्भवात् , अवीतरागत्वप्रसङ्गादित्यत्रेदमाह-भव्याम्बुरुहभानवे । भव्यानामम्बुरुहत्वेन रूपणं विकासयोग्यतासाधात् , भानुत्वेन भगवतो" रूपणं तत्प्रबोधनप्रवृत्तिस्वाभाव्यसाधात् । स्वभाव एव खल्वयं तस्य यत्सर्वदर्शी वीतरागोऽपि
- अन्यथा साध्याभावे अनुपपत्तिरभावः साधनस्य, अविनाभावनियम इत्यर्थः । २-रक्षतिः आ०,ब०,५०, स०। विवरणस्थानम् । ३ वचनोत्तर-आ०, ब०, ५०, स०। ४ उपदेशपारम्पर्य । ५ -त् प्रदेश-श्रा०,व०प०, स० । सांशम् । ६ युगपत् । ७-तार्थमि-आ०, ब०, प, स०।८ प्रतिबुद्ध कमूर्तय इति प्रतिबुद्धपदेन । ९ प्रज्ञाकरगुप्तस्य वचनम् । १०-भेदावरोधार्थम् आ० ।-भेदार्थम् ब०, ५०, स०।११ ज्ञात्वायो-आ०, ब०, प० । १२ अतिप्रशस्तकर्म । १३-शस्तस्मानि-4०१४ परमवीतरागस्य भगवतः । १५-तो निरूप-आ०,ब०,१०,स