________________
न्यायविनिश्चयविवरणे
असाक्षात्कारिता चास्य तत्त्वज्ञानस्य कारणात् ।
भवतीति वदिष्यामः शिष्य विश्वस्यतामिदम् ॥९२॥
नोपवर्णितप्रमाणाभ्यासात् भगवतो निरवशेषतत्त्वज्ञानम्, अपि तु तैदावरणविगमादिति चेत् ; न; तस्य तदव्यतिरेकात् । सकलावरणविगमो हि न सकलज्ञानादन्यः, तज्ज्ञान५ कैवल्यरूपत्वात् तदावरणवैकल्यस्य, नीरूपस्याभावस्यानभ्युपगमात् । न च तदेव वस्य कारणम्; सदसत्समयविकल्पानुपपत्तेः । तथा हि
यदाऽस्ति सकलज्ञानं तदा किं तेन हेतुना ? । सिद्धं न हेतुसापेक्षं सिद्धमेवान्यथा न तत् ॥९३॥ यदापि नास्ति तज्ज्ञानं तदा कस्य क हेतुता।
न हासत् खरशृङ्गादि स्वरूपेऽन्यत्र वा क्षमम् ॥९४॥ इति ।
स्यान्मतम्-सकलज्ञानप्रथमपर्याय एव तदावरणविश्लेषात्मा तत्समय एव तत्पूर्वकालभाविनिरवशेषावरणप्रध्वंसनाद् अन्धकारविश्लेषात्मकप्रदीपप्रथमपर्यायवत् , उत्तरस्तु तत्पर्यायो न तद्विश्लेषात्मा ततः पूर्वमावरणस्यैवाभावात् । न ह्यविद्यमानं कचिद्विश्लिष्टमुपश्लिष्ट वेति
व्यपदेशमर्हति वस्तुसद्गोचरत्वात् तद्व्यपदेशस्य, अवस्तुत्वे सति तदयोगात् । “स तु तद्विश्ले१५ षात्मनः प्रथमतत्पर्यायादेव अन्धकारविरहात्मप्रदीपपर्यायात्तदुत्तरपर्यायवत." तस्यैव तद्रूपेण
परिणामाद्भवति ततस्तदावरणविगमस्य तत्कारणत्वमुच्यते । न चेदमत्र मन्तव्यम्-तदुत्तरोत्तरस्य तर्हि तत्पर्यायस्य तद्विश्लेषहेतुकत्वं न स्यात् पूर्वपूर्वस्य तत्कारणपर्यायस्यावरणप्रध्वंसाधिकरणत्वाभावादिति; तस्यापि "तद्विश्लेषप्रभवपर्यायवंश्यत्वेन 'तद्धेतुकत्वाविरोधादिति; तदपि
न सम्यङ्मतम् ; तद्विश्लेषकारणावचनात् । प्रथमस्य हि निरवशेषावरणविश्लेषस्य हेतुर्वक्तव्यः, २० तदहेतुकत्वासम्भवात् । तत्पूर्वभावी 'तद्विश्लेष एव तद्धेतुरिति चेत् ; न; 'तस्यापि तद्धेतुत्वे
अनादितद्विश्लेषस्यानिष्ट[स्य] प्रसङ्गात् । आवरणोपश्लेषनिधा" (दा)नभूतमिथ्याज्ञानविरोधी सम्यग्ज्ञानाभ्यासस्तद्धेतुरिति चेत् ; अनुकूलमाचरसि, तदभ्यासस्यैव प्रमाणाभ्यासत्वात् । रत्नत्रयादावरणविश्लेषो न "तदभ्यासादिति चेत् ; न; तस्यैव रत्नत्रयत्वात् । आदरोपगृहीतस्य
तत्त्वज्ञानपरिमलनस्य तदभ्यासव्यपदेशात् , प्रशब्देन च प्रकर्षवाचिना तस्याप्यभिधानात् । कुतः २५ पुनरावरणोपश्लेषविगमकारणत्वं प्रमाणाभ्यासस्यावगत मिति चेत् ? 'आवरणोपश्लेषनिदानविरो
१ अनुमानस्य । २ ज्ञानावरण । ३ आवरणविगमस्य । ४ कैवल्यं प्रतियोग्यसंसृष्टत्वम्, प्रकृते च आवरणरहितत्वम् । ५ तुच्छस्य । ६ सदसत्त्वमयवि-आ०, ब०,५०,स.। तद्धि कारणं भवत् कार्यकाले वा स्यात्, कार्याभावकाले वा ? ७ ह्यसद्व्योम-आ०,०प०स०। ८ प्रथमपर्यायकाल एव । ९ सकलज्ञानपर्यायः। १० उत्तर: सकलज्ञानपर्यायः । ११प्रथमपर्यायस्यैव उत्तरपर्यायरूपेण । १२ परम्परया। १५ द्वितीयपर्याय। १४ आवरणविश्लेष. हेतुकत्व । तद्धेतुत्वावि-आ०,०,५०, स०। १५-कारणवचनात् आ०, ब०,५०, ता०।१६ आवरणविश्लेषः। १७ तत्पूर्वभाविनो विश्लेषस्यापि स्वपूर्वभाविविश्लेषहेतुकत्वे अनादितद्विश्लेषकल्पनायामनवस्थेति भावः। १८-षविधान-ता० । १९ आवरणविश्लेषहेतुः। २. सम्यग्दर्शनशानचारित्राणि रत्नत्रयम् । २१ सम्यग्ज्ञानाभ्यासात् । २२-परिमेलनस्य आ०, ब०, ५०, साढाभ्यासस्य । २३ सम्यग्ज्ञानाभ्यास । २४ प्रसिद्धाशेषेति प्रशब्देन ।