________________
११]
प्रथमः प्रत्यक्षप्रस्ताव
तदुक्तम्"अनशं बहिरन्तश्चाप्रत्यक्षं तदभासनात् ।
कस्तत्स्वभावो हेतुः स्यानिक तत्कार्य यतोऽनुमा ॥"[लघी० श्लो०१७] इति।
कल्पितं 'लिङ्ग तत्प्रतिबन्धश्च नित्यादावपि, तेदनुमानव्यवहारस्यापि प्रसिद्धः। ततोऽनुमानाभ्यासात्
सुगतस्तत्त्वदर्शी चेत्कणादोऽपि न किं भवेत् ? तत्त्वदृक् सोऽपि चेत् , मान किन्न वः सोऽपि बुद्धवत् ।।८८॥ अभूतोक्ने चेत् ; सापि तत्त्वरक्त्वे कथं भवेत् । तोक् चाभूतवादी चेत्येतदन्योऽन्यबाधितम् ॥८९॥ कथं वा भूतवादित्वं सुगतस्यावगम्यताम् । प्रमासंवादभावाच्चेन्न निरंशे से नित्यवत् ॥९॥ संवादः कल्पनातश्चेत् ; कणादवचने न किम् ?।
कणादे सत्यपि स्तोत्रं सुगतस्यैव यद्भवेत् ॥९१॥ ततो न युक्तमेतत्-"भगवानेव प्रमाणं नापरः” [ ] इति ।
न परमार्थतः कणादस्य तत्त्वदर्शित्वं तदभिमतस्यात्मादेरप्रमाणसिद्धत्वेनातत्त्वरूप- १५ त्वात् । नापि संवृत्या, यौगानां तदभ्युपगमाभावादिति चेत् ; मा भूद्यौगानां तदभ्युपगमः, भवतस्तु न्यायनिपुणचूडामणिम्मन्यस्य "सांवृतन्याय(-तन्याय-)बलायाते कणादतत्त्वदर्शित्वे कस्मादनभ्युपगमः, यतस्तदुपदेशोपनीतं नित्यादिकमेव तत्त्वं नानुमन्येथाः १ तस्मादयुक्तमेतत्"ततो न परमार्थोऽसावीश्वरो नापि "सांवृतः।" [प्र. वार्तिकाल० १।९] इति ;"तस्यापि संवृत्या सुगतवत् तत्त्वदर्शित्वस्योपपादनात् । तस्मादन्ययोगव्यवच्छेदेन सुगतस्यैव तत्त्वदर्शित्वे २० 'तदर्शनोत्पत्तिनिबन्धनमभ्यासेनाधिष्ठीयमानं प्रमाणमपि तत्त्वविषयमेवानुमन्तव्यं नापरम् , उक्तादतिप्रसङ्गादित्येतत् तत्त्व'पदेन दर्शयति । "तस्यापि तत्त्वविषयत्वे प्रत्यक्षेतरयोः को विशेष इति चेत् ? 'साक्षात्करणाऽसाक्षात्करणरूपः' इति ब्रूमः । तथा चोक्तम्-“भेदः साक्षादसाक्षाच" [ आप्तमी० श्लो० १०५ ] इति ।
लिङ्गं च प्रतिबद्धश्च आ०, ब०, ५०, स०। २ नित्याद्यनुमान । ३ प्रमाणम् । ४ असत्योपदेशात् । ५ तरवद्रष्टा । तादृग्वाभूत-आ०, ब०, ५०, स०। ६ प्रमासंवादः। . "तद्वत्प्रमाणं भगवानभूतविनिवृत्तये । भूतोकिः साधनापेक्षा ततो युक्ता प्रमाणता ॥...."यतस्तस्य भगवतो भूतोक्तिस्ततः स एव सर्वशो नापरस्तथा च प्रमाणम्"-प्र. वार्तिकाल १९। ८ संवृतिस्वीकारः। ९-मणिम्मन्यमानस्य भा०, ब०, १०, स०।१० सौगताभिमतसंवृतिरूपेण कणादतस्वदर्शित्वस्य सिद्धौ। ११ "संवृतिः"-प्र. वार्तिकाल १२ कणादस्यापि।१३ तत्त्वदर्शित्वोप-आ०,०,५०,०। १४ "विशेष्यसङ्गतैवकारोऽन्ययोगव्यवच्छेदबोधकः, यथा पार्थ एव धनुर्धरः। अन्ययोगव्यवच्छेदो नाम विशेष्यभिन्नतादात्म्यादिव्यवच्छेदः । तत्र एवकारेण पार्थान्यतादात्म्याभावो धनुर्धरे बोध्यते तथा च पार्थान्यतादात्म्याभाववद्धनुर्धराभिन्नः पार्थ इति बोधः।" -सप्तमजि. पृ० २६ । वैयाकरण भू०६० पृ. ३७०। १५ सुगतदर्शन । १६ अभ्यस्यमानं प्रमाणमनुमानम् । १७ प्रसिद्धाशेषेतत्त्वार्थेति तत्त्वपदेन । १८ अनुमानस्यापि।