________________
२४
न्यायविनिश्चयविवरणे
[११ रूपाद्यध्यक्षतः पश्यन् अनुमानं किमिच्छति ? ॥७७॥ एकसामध्यधीनस्य इत्यादि तन्न सुभाषितम् । अभ्यासादर्थदृष्टौ च साफल्यं नाक्षसंहतेः ॥७८॥ प्राग्बोधिमार्गादभ्यासादर्शनं चेन्न देहिनाम् । भौविन्यभ्यासतोऽध्यक्षं कथमुक्तं प्रवृत्तिकृत् ? ॥७९॥ अविचार्य तदुक्तं चेत् व्यवहारप्रसिद्धये । तदसद् ; व्यवहारस्याऽप्यन्यथैव प्रसाधनात् ॥८॥ वृत्त्यादिव्यवहारश्चेदन्यथा यन्न सम्भवेत् । तदभ्यासजमध्यक्षं तव स्याद्भाविगोचरम् ॥ ८॥ न चैवम् ; वर्तमानार्थदर्शनात्तस्यै सम्भवात् । व्यावर्णयिष्यते चैतत्पश्चादेव सविस्तरम् ॥८२॥ व्यवहारप्रसिद्धं चेद्भाव्यध्यक्षं तदप्यसत् । तदस्ति व्यवहारस्य व्यवहारिष्वदर्शनात् ॥८३॥ पश्यति व्यवहारी चेत्नानपानादि भाव्यपि । वृत्तिप्रयोजनं सिद्धं वृत्तिस्तस्य किमर्थिका ॥८४॥ न हि साक्षारिक्रयातोऽन्यदस्ति वृत्तिप्रयोजनम् । तत्सिद्धौ च प्रवृत्तिश्चेत् प्रवृत्तेर्न व्यवस्थितिः ॥८५॥ भाविदर्शी च पृष्टः सन् 'रसः कीदृशः' इत्ययम् । किं वक्ति नोत्तरं स्वादुर्लवणो वेत्यसंशयम् ॥८६॥ व्यवहारमतिक्रम्य भाव्यध्यक्षस्य कल्पने ।
अन्धस्य रूपदर्शित्वं किमेवं नावकल्प्यते ? ॥८७॥
तन्न अनुमानाभ्यासात्कस्यचित्तत्त्वदर्शनम् , रसाथभ्यासादन्धस्यापि रूपदर्शनापत्तेः प्रतिबन्धाविशेषात् ।
यत्पुनरुक्तम्-'न नित्यप्रतिबद्धं किञ्चिल्लिङ्गमस्ति' इति; कुत एतत् नित्यस्यैव कस्यचिद (चिदद)र्शनादिति, तत्समानं निरंशस्वलक्षणेऽपि । न हि तदपि तथाविध पश्यामो यथा व्यावर्ण्यते परैः,बहिः स्पष्टज्ञानसन्निवेशिनः स्थूलस्यैकस्य अन्तश्च हर्षविषादाद्यनेकाकारविवर्त्तस्य वस्तुनः" प्रत्यवभासनात् । तदपह्नवे सर्वापह्नवान्न किश्चिद्भवेत् , तत्कथं स्वलक्षणप्रतिबद्धमपि किञ्चिल्लिङ्गं यतोऽनुमानम् ?
"एकसामग्र्यधीनस्य रूपादे रसलो गतिः । हेतुधर्मानुमानेन धूमेन्धनविकारवत् ॥” -प्र०वा. ३१८: २ “यत्र भाविगतिस्तत्रानुमान मानमिष्यते। वर्तमानेतिमात्रेण वृत्तावध्यक्षमानता ॥ -यत्रात्यन्ताभ्यासादविकरुपयतोपि प्रवर्तनं तत्र प्रत्यक्ष प्रमाणम् ।" -प्र. वार्तिकाल. २१५६ । ३ प्रवृत्त्यादिव्यवहारः। ४ व्यवहारस्य । ५प्रवृत्तिप्रयोजनम् । ६ अनवस्था स्यादित्यर्थः । ७ -नादभ्यासा- भा०, ब०, ५०, स०। ८ सम्बन्धाविशेषात । ९ पृ. २० ५० १४ । १० घटाद्यवयविनः। ११ आत्मनः। १२ बहिः स्थूलस्यैकस्य अन्तब आत्मनोऽपहवे।