________________
११]
प्रथमः प्रत्यक्ष प्रस्तावः
‘तेनापि’ इत्यादेरावृत्तेश्चक्रकादनवस्थानाच्च । ततो निराकृतमेतत् - " तच्च सर्वत्र बुद्धिरूपमध्यारोप्यते ततः सामान्यमन्यापोहोऽवस्त्वंशश्च " [ प्र० वार्तिकाल० २।१७० ] इति ; तदध्यारोपस्योक्तप्रकारेणावगन्तुमशक्यत्वात् ।
ततोऽनुमानमन्यं वा विकल्पं परिकल्पयन् ।
तत एव तदाकारग्रहणं वक्तुमर्हति ॥ ६९॥ तत्र सिद्धं तदभ्यासात् स्पष्ट सामान्यदर्शनम् । सविकल्पं ततश्चेदं प्रतिषिद्धं तयो ( त्वयो) दितम् ॥ ७० ॥ " तस्माद्भूतमभूतं वा यद्यदेवातिभाव्यते । भावनापरिनिष्पत्तौ तत्स्फुटाकल्पधी फलम्” ॥७१॥ "स्फुट कल्पधियोऽप्येवं तत्फलस्योपवर्णनात् । विकल्पानभ्युपाये च नानुमानस्य सम्भवः ॥ ७२ ॥ तत्कथं तदनुष्ठानात्तत्त्वदर्शी तथागतः । यतस्तस्य प्रमाणत्वं भवता परिकल्प्यताम् ॥ ७३ ॥ ततोऽनुमानादभ्यस्तात्सर्ववित्तत्त्वदृग् यदि । सामान्यदर्शी सम्प्राप्तो विकल्पोपहतश्च सः ॥७४॥
२३
१०
किञ्च, वस्तुन्यनु मानवद्रूपादौ रसादेरपि प्रतिबन्धात् तदभ्यासतो रूपादिदर्शनमपि भवेत् । रूपाद्यवभासित्वं न रसादेरिति चेत्; वस्त्ववभासित्वमपि नानुमानस्येति समानम्, अन्यथा प्रत्यक्षाविशेषप्रसङ्गात् । लेशतस्तदवभासित्वं" "तस्यास्त्येवेति चेत् ; न ; निरंशत्वेन वस्तुनो लेशाभावात् । कल्पितो लेश इति चेत् ; न तर्हि तस्य लेशतोऽपि वस्त्ववभासित्वम्, कल्पितस्यावस्तुरूपत्वात् । 'एैकत्वाध्यवसायाद्वस्तुरूपत्वमिति चेत्; न; एकत्वस्यापि कल्पितत्वे - ' नावस्तुरूपत्वात् । 'तस्याप्येकत्वाध्यवसायाद्वस्तुरूपत्वमिति चेत्; न; 'एकत्वस्यापि' इत्यादेरावृत्तिपौनःपुन्येन चक्रकस्यानवस्थानस्य च प्रसङ्गात् । तन्न लेशतोऽपि तस्य वस्त्ववभासित्वम् । 'तँथापि तदभ्यासाद्वस्तुदर्शने रसाद्यभ्यासाद्रूपादिदर्शनमपि स्यात् प्रतिबन्धाविशेषात् रूपादीनासामान्यधीनत्वात् तथा च कथमन्धादिव्यवहारः ?
२०
अन्धो न सोऽस्ति लोके यो रसाद्यभ्यासवर्जितः । अभ्यासेोऽपि स नो यस्मान्न सम्बद्धार्थदर्शनम् ॥ ७५ ॥ ततोऽन्धस्यापि रूपे स्यादवश्यं 'दर्शनं ततः । तथा चान्धव्यवस्थेयं विनष्टा सार्वलौकिकी ॥ ७६ ॥ अनन्धोऽप्यन्धकारस्थो रसमास्वादयन् जनः ।
१ निराकूत मे - आ०, ब०, प०, स० २ " सामान्यमन्यापोहो वस्त्वंशश्चेति" - प्र०वार्तिकाल० । ३ तथोदि - प० । ४ प्रमाणवार्तिके ( २२८५ ) । ५ सविकल्पबुद्धेः । ६ - दर्शिसम्प्राप्तौ आ०, ब०, प० । ७ मानादिवआ०, ब०, प०, स० । ८ रसादेरप्यनुब- आ०, ब०, प०, स० । ९ रसाद्यभ्यासतः । १० स्वलक्षणवस्त्वभासित्वेऽनुमानस्य । ११ वस्त्ववभासित्वम् । १२ अनुमानस्य । १३ कल्पितांशस्य वस्तुना एकत्वाध्यवसायात् । १४ एकत्वस्यापि । १५ अनुमानस्य । १६ वस्त्वनवभासित्वेपि । १७ दर्शनात्ततः आ०, ब०, प०, स०
२५.