________________
५
१०
२२
न्यायविनिश्चयविवरणे
सामान्यप्रतिभासित्वं यदि योग्यतया भवेत् । अनुमानस्य सम्बन्धनियमस्ते विहन्यते ॥ ६४ ॥ तदभ्यासेन तत्रापि तत्सामान्यस्य दर्शने । निर्विकल्पकमध्यक्षं न सिद्धिपथमृच्छति ॥ ६५ ॥ अथ तत्प्रतिभासित्वं नानुमानस्य ते मतम् । विलक्षणस्य यत्तत्रें स्वरूपस्यावभासनम् ।। ६६ ॥ अध्यक्षमेव तत्प्राप्तम् नानुमानं तथा सति । कस्याभ्यासादिदानीं स्यात्तत्त्वदर्शी तथागतः ॥ ६७ ॥ अध्यक्षाभ्यास चिन्ता तु प्रागेव विनिवारिता । तन्न सामान्यभासित्वमन्तरेणानुमास्ति वः ॥ ६८ ॥
[ १1१
स्यान्मतम् - न सामान्यं नाम अनुमानादिविकल्पादन्यदस्ति प्रमाणाभावात्, तत्प्रतिबिम्बमेव केवलमव्यतिरिक्तमबाह्यमनन्वितमपि व्यतिरिक्तमिव बाह्यमिवान्वितमिव चानादिवासनासामर्थ्यादध्यवसीयते, ततोऽभ्यासपाटवे सति सकलविप्लवव्यपगमादव्यतिरिक्तादिरूपस्यैव तस्य दर्शनात् कुतस्तद्दर्शनस्य सविकल्पकत्वमिति ? तन्न सारम् ; व्यतिरिक्तादिरूपतया १५ गृहीतस्याभ्यासादपि तथैव दर्शनोपपत्तेः । न हि तं द्रूपतयाऽभ्यस्तमन्यथा द्रष्टुं शक्यमतिप्रसङ्गात् । अभ्यासोऽपि तस्यान्यथैवेति चेत्; न; तथा गृहीतस्यैव तत्सम्भवात्, अन्यथा " विद्यमानतया गृहीतस्य कामिन्यादेरन्यथाभ्यासात् तद्दर्शनमप्यन्यथैवै' स्यादिति निरस्तमेतत् - " पश्यति (न्ति ) पुरतोऽवस्थितानिवें" [प्र०वा०] इति ; पुरतोऽवस्थितत्वस्यें' अविद्यमानतया दर्शनस्य च विरोधात् । अथ कदाचिद्विद्यमानतयापि कामिन्यादेरभ्याससम्भवात् तद्दर्शनं पुरोऽवस्थितत्वेन पठ्यते; २० तर्हि सामान्यस्यापि व्यतिरिक्तादिरूपतया कदाचिदभ्याससम्भवात् सविकल्पकमपि तद्दर्शनं पठ्यतामविशेषात् । न पूर्वमपि सामान्यस्य " व्यतिरिक्तादिरूपमनुमानावगतमस्ति यतस्तदद्भ्यासाद्दर्शनमपि 'तस्य 'तैथैव स्यादिति चेत्; कुतस्तर्हि "तस्य तद्रूपमवगतम् ? वासना लावम्बिनो विकल्पान्तरादिति चेत्; न; तेनापि स्वतस्तस्य " तथाऽवगमे अनुमानेनापि स्यादविशेषात् । तत्रापि विकल्पान्तरादेव तदाकारस्य व्यतिरिक्तादिरूपावगमो न स्वतः इति चेत्; न; तत्रापि
૨૩
१: तदाकारेण विनापि । २ तदुत्पत्ति - तादात्म्यान्यतरलक्षणसम्बन्धनियमः । ३ अनुमानाभ्यासेन । ४ अनुमाने । ५ " तत्स्वभावविकल्पा धीस्तदर्थे वाप्यनर्थिका । विकल्पिकाsतत्कार्यार्थभेदनिष्ठा प्रजायते ॥ तस्यां यद्रूपमाभाति बाह्यमेकमिवान्यतः | व्यावृत्तमिव निस्तत्वं परीक्षा नङ्गभावतः | अर्था ज्ञाननिविष्टास्त एवं व्यावृत्तरूपकाः । अभिन्ना इव चाभान्ति व्यावृत्ताः पुनरन्यतः ॥ प्र० वा० ३।७५, ७६, ७७ । ६ विकल्पप्रतिबिम्बितमेव । ७ विकल्पाकारभूतस्य सामान्यस्य । ८ व्यतिरिक्तादिरूपेणैव । ९ व्यतिरिक्तादिरूपतया । १०. अव्यावृत्तादिरूपेणैव । ११ अन्यथा गृहीतस्य अन्यथाऽभ्यासेन अन्यथा दर्शनसम्भवे । १२ अविद्यमानतया - ऽभ्यासात्। १३ अविद्यमानत्वेनैव । १४ “कामशोकभयोन्माद चौरस्वनाद्युपप्लुताः । अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव ।।” - प्र० वा० २।२८२ । १५ - स्य विद्यमान - ता० । १६ सुगतदर्शनम् । १७ - व्यतिरिक्ततादिआ०, ब०, प०, स० । १८ सामान्यस्य । १९ व्यतिरिक्तादिरूपेण । २० सामान्यस्य । २१ व्यतिरिक्तादिरूपेण । २२. विकल्पान्तरेऽपि । २३ सामान्याकारस्य । २४ अनन्तरोक्त विकल्पान्तरेऽपि ।