________________
११]
प्रथमः प्रत्यक्ष प्रस्तावः
२१
चेत ; सामान्यविषयत्वात् सविकल्पकमेव तदिति कथमिदमुक्तम् - " योगिनां प्रत्यक्ष
विधूतकल्पना जालम् " [
] इति ।
प्रतिबन्धस्य
सद्भावादनुमानस्य वस्तुनि । तदभ्यासेन दर्शनं सर्ववेदिनः ॥ ५३ ॥ अवस्तुरूपसामान्ये तद्वत्किन्न दृशीभ ( दृशिर्भ) वेत् । अनुमानस्य तत्रापि प्रतिबन्धो यदस्त्ययम् ॥ ५४ ॥ भन्ने वस्तुनि सम्बन्धात् सामान्ये यदभेदिनि । प्रत्यासन्नश्च सम्बन्धोऽनुमानस्यावलोक्यते ॥ ५५ ॥ सामान्यदर्शने तस्य सर्वज्ञस्य कथं भवेत् । विधूतकल्पना प्रत्यक्षं कीर्तिकीर्तितम् ? ॥ ५६ ॥ सामान्याकारतादात्म्यमनुमानस्य नास्ति चेत्; कथं तेंदवभासित्वं त्वया तस्योपवर्ण्यते ? ॥ ५७ ॥ तदुत्पत्तेर्यदि व्यक्तं वस्तु सामान्यमागतम् । उत्पत्तिरनुमानस्य न युक्ता यदवस्तुनः ॥ ५८ ॥
aad |
अर्थक्रियासमर्थं च स्वलक्षणं च तस्यापि नान्यद्वस्तुत्वलक्षणम् ॥ ५९ ॥ उत्पन्नमपि 'तंत् 'तेस्मात्तत्स्वरूपं न चेत्कथम् । 'तद्वेदि ? "यदि तद्वेदि; नष्टं सारूप्यवर्णनम् ॥ ६०॥
" तै त्सारूप्ये तु सामान्यतादात्म्यं पुनरागतम् । अनुमाने, 'तदभ्यासात्तद्दृष्टेश्च विकल्पनम् ॥ ६१ ॥ 'ततोऽपि यदि तद्भिन्नं सारूप्यादनुमानकम् । कथं तदवभासित्वमित्यादि पुनराव्रजेत् ॥ ६२ ॥
"अनवस्थोत्तरेणातश्चक्रकेणोपसर्पता ।
जिह्वागं कीलितं "बौद्ध भवतः स्पन्दते कथम् ? ॥ ६३ ॥
१ सर्ववेदिदर्शनम् । २“प्रागुक्तं योगिनां ज्ञानं तेषां तद्भावनामयम् । विधूतकल्पनाजालं स्पष्टमेवावभासते । " -प्र० वा० २।२८१ । ३ निर्विकल्पकम् । ४ अवस्तुभूतसामान्यविषयत्वम् । ५ अनुमानस्य । ६ सामान्यस्य वस्तुत्वं स्यात् इत्यर्थः । ७ अवस्तुभूतात् सामान्यात् । ८ सामान्यम् । ९ स्वलक्षणमपि अर्थक्रियासमर्थमिति तस्यापि अवस्तुत्वप्रसङ्गः, यतो हि अर्थक्रियासामर्थ्यव्यतिरिक्तमन्यत् वस्तुत्वलक्षणं नास्ति । १० अनुमानम् । ११ सामान्यात् । १२ सामान्याकारम् । १३ सामान्यविषयकम् । १४ अतदाकारमप्यनुमानं यदि सामान्यविषयम् । १५ सामान्याकारत्वे । ६६ अनुमानाभ्यासात् सामान्यदर्शनं प्राप्तं सर्ववेदिनः ततश्च तद्दर्शनस्य सविकल्पकत्वं स्यात् । १७ सामान्याकारमप्यनुमानं यदि सामान्याद् भिन्नम् । १८ अनवस्था उत्तरे अन्ते यस्य ।१९ चाद्ध आ०, ब०, प० ।
१०
१५
२०