________________
२०
न्यायविनिश्चयविवरणे
[१११ कथं वाऽनुमानाभ्यासात् कस्यचित्तत्त्वदर्शनं मिध्याज्ञानत्वात् ? मिथ्याज्ञानं खल्वनुमानम् अवस्तुसामान्यावभासित्वात् । तदभ्यासादपि तत्त्वदर्शने स्यादतिप्रसङ्गः-नित्याद्यनुमानाभ्यासादपि तत्प्रसङ्गात् । ननु न 'मिथ्याज्ञानम्' इत्येव सर्व समान प्रतिबन्धभावाभावाभ्यां विशेषात् । तत्त्वप्रतिबद्धं हि चतुःसत्याद्यनुमानं तत्प्रतिबद्धात्कार्यात् स्वभावाच्च लिगात्तदुत्पत्तेः, ५ अत एव प्रमाणं प्रत्यक्षवत् । न हि प्रत्यक्षमपि प्राप्ये तदवभासनात् प्रमाणं तस्य सन्निहितवर्तमानवस्तुस्वलक्षणावभासित्वेन प्राप्यावभासित्वासम्भवात् , अपि तु तदभावे तदभावनियमेन तत्र प्रतिबन्धात् । प्राप्यविषयमेव च प्रत्यक्षप्रामाण्यमर्थवत् तस्यैव प्रवृत्तिविषयत्वात् न वर्तमानविषयम् , तस्यानुभूयमानत्वेनाप्रवृत्तिविषयत्वात् । विषयानुभावार्थी" हि प्राणिनां
प्रवृत्तिः, सति च विषयानुभवे किं तया ? तदनुपरमप्तसङ्गात् । प्रतिबन्धसामर्थ्याच्च प्रत्यक्ष१० प्रामाण्यमनुमानप्रामाण्यमवकल्पयति तस्यापि तदविशेषादित्यविशेष एव प्रत्यक्षानुमानयोः ।
तदुक्तम् -
"अर्थस्थासम्भवेऽभावात् प्रत्यक्षेऽपि प्रमाणता ।
प्रतिबन्ध(बद्ध) स्वभावस्य तद्धेतुत्वे समं द्वयम् ॥” [इति । न चैवं नित्यादिप्रतिबद्धं किश्चिल्लिङ्गमस्ति तत्स्वभावस्य तत्कार्यस्य च कस्यचिद् (द) १५ दर्शनात् । न हि नित्यस्वभावं किश्चित्प्रत्यक्षवेद्यम् ; तत्र तदनवभासनस्य वक्ष्यमाणत्वात्। अतः
एव न तत्कार्यम् । न च लिङ्गान्तरम् । तत्कथं तदनुमानस्य वस्तुप्रतिबन्धत्वं यतः प्रामाण्यम् ! ततो मिथ्याज्ञानत्वेपि चतुःसत्याद्यनुमानाभ्यासादेव तत्त्वदर्शनं तस्य तत्त्वप्रतिबन्धान नित्यानुमानाभ्यासात् तस्य विपर्ययात् तत्कथमतिप्रसङ्ग इति चेत् ? उच्यते- यद्यनुमानस्य वस्तुप्रति
बन्धाद् वस्तुदर्शनं सर्वज्ञस्य तद्वद स्तुसामान्यदर्शनमपि स्यात् तत्सामान्येऽपि तस्य प्रतिबन्धात्, २० वस्तुप्रतिबन्धापेक्षया तत्सामान्यप्रतिबन्धस्य प्रत्यासन्नत्वाच्च । तदुत्पत्तिलक्षणो हि वस्तुन्य
'नुमानस्य प्रतिबन्धः स च "भिन्नाधिकरणत्वाद्विप्रकृष्टः तत्सामान्यप्रतिबन्धस्तु तादात्म्यमभिन्नाधिकरणमिति प्रत्यासन्नः। अतो वस्तुदर्शनात् प्रागेव सर्ववेदिनस्तदर्शनेन भवितव्यम् । तथा
१ मिथ्याज्ञानाभ्यासादपि । २ तत्त्वदर्शनप्रसङ्गात् । ३ अविनाभावसम्बन्धसद्भावासद्भावाभ्याम् । ४ तत्प्रतिबन्धात् आ०, ब०, ५०, स० । तत्त्वप्रतिबद्धात् । ५ यतः प्राप्यं वस्तु भावि, न वर्तमानेऽवभासते । ६ क्षणिकपरमाणुनिरंशरूपं वस्तु स्वलक्षणम् । ७ स्वलक्षणवस्वभावे प्रत्यक्षस्यानुत्पत्तिनियमेन । ८ स्वलक्षणे वस्तुनि तदुत्पत्त्या सम्बन्धात् । ९ वर्तमानविषयस्य । १० अनुभवः अनुभावः इति द्वयमप्येकार्थकम् । ११ विषयानुभवकाल एव यदि प्रवृत्तिः स्यात् तदा विषयवत् साप्यनुभूयत एवेति तदर्थ प्रवृत्त्यन्तरापेक्षा स्यात् , प्रवृत्यन्तरस्य च तदैवानुभूयमानत्वे तदर्थमपि प्रवृत्त्यन्तरमपेक्षणीयमिति प्रवृत्युपरमाभावादनवस्था । १२ अनुमानस्यापि प्रतिबन्धसामर्थ्यजन्यत्वाविशेषात् । १३ "अत एवाह-अर्थस्यासम्भवे...प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयोः।" -प्र. वार्तिकाल. ४१११७ । १४ तादात्म्येन तदुत्पत्त्या वा अर्थसम्बद्धस्वरूपस्य लिङ्गस्य अनुमानहेतुत्वे । १५ प्रत्यक्षे। १६ नित्यस्य क्रमयोगप द्याभ्यामर्थक्रियाकारित्वाभावात् इति भावः । १७ नित्याद्यनुमानस्य । १८ स्वलक्षणवस्तुदर्शनवत् । १९ अवस्तुभूतं यत्सामान्यम् । २० अवस्तुभूतसामान्येऽपि । २१ -नुमानप्रतिआ०, ब०, ५०, स० । २२ यतो हि अग्नेधूमो जायते धूमाद् धूमदर्शनं ततश्च अग्न्यनुमानम् , अतः अग्निस्वलक्षणेन तदुत्पत्तिसम्बन्धी धूमस्वलक्षणस्य न त्वग्न्यनुमानस्य इति भिन्नाधिकरणत्वम् । २३ अवस्तुभूतं यत् समारोप्यमाणमग्निसामान्यम् । २४ विषयाकारत्वाज्ज्ञानस्य विषयविषयिणोस्तादात्म्यम् । २५ अवस्तुभूतसामान्यदर्शनेन ।