________________
११]
१९
प्रथमः प्रत्यक्ष प्रस्तावः
पुरुषार्थोपनिबन्धनत्वात्, उपनतकीट वर्गपरिसङ्ख्यापरिज्ञानस्यैव हि द्वित्र्यादितद्व्यापादनोपनीतविनेयदोषपरिहारणोपायभूतस्य प्रायश्चित्तविभागस्योपदेष्टृत्वं भगवतो न तद्विपरीतस्य । तन्न चतुः सत्यव्यतिरिक्तस्य चेतनत्वम् । अचेतनत्वं तर्हि भवतु ; तदपि मूर्त्तम्, अमूर्तं वा ? मूर्त चेत् ; पृथिव्यादिकमेव । तच्च संस्वेदजादिचेतनवर्गाधिकरणमेवेति भवतामाकूतम् -
"न स कश्चित्पृथिव्यादेरंशो यत्र न जन्तवः ।
संस्वेदाद्या जायन्ते सर्व "बीजात्मकं ततः ।। " [प्र०वा० १।३९ ] इति चार्वाकं प्रति धर्मकीर्त्तेर्वचनात् । तादृशस्यै च तस्य परिज्ञानं कथन्न पुरुषार्थकारणम् ? तदपरिज्ञाने तदधिकरणचेतनवर्गस्य ' तेनानवबोवे च तंद्गोचरचतुरार्यनिरवशेषसत्यस्यानवगमेनोपदेशानुपपत्तेः । तन्न मूर्त्तम् । तदमूर्त्तमेव गगनादिकमिति चेत्; न; तस्य स्वयमनभ्युपगमेनासत्त्वात् । पराभ्युपगमात्सत्त्वे पुरुषार्थहेतुत्वमपि तस्य तदभ्युपगमादेवास्तु | तन्न जगत १० किश्चिदपुरुषार्थसाधनं यत्परिज्ञानं सर्वज्ञस्या परीक्ष्यं भवेत् । ततो "निराकृतमेतत् - 'पुरुषार्थज्ञतामात्रात् सम्पूर्ण शासनं मतम् ” [ प्र० वार्तिकाल ० २।१३८ ] इति; मात्रशब्दस्य व्यवच्छेदाभावेन वैयर्थ्यात्, 'तदभावश्च सर्वज्ञानस्यापि पुरुषार्थज्ञानत्वात्, 'तेंदपि साक्षात्पारम्पर्येण वा सर्वस्यै" यत्परिज्ञानं पुरुषार्थहेतुत्वात् । अत एवोक्तमलङ्कारकृता - " न च कार्यकारणभावमतिवृत्त्य परस्परं सकलं जगज्जायते " [ प्र० वार्तिकाल० १।१३८ ] इति । तदयम् एवं- १५ वचनात् सर्वज्ञानस्य पुरुषार्थज्ञानत्वमुररीकुर्वन्नेव अपुरुषार्थज्ञानमपि किश्चिच्चेतसि कृत्वा तद्व्यवच्छेदार्थं मात्रशब्दमप्युपादत्त इति प्रज्ञाकरव्यपदेशमात्मनि अन्धे सुलोचनव्यवहार सहशमावेदयति ।
यत्पुनरेतत्
"सर्वं जानातु सर्वस्य वेदको न निषिध्यते ।
२०
नास्माभिः शक्यते ज्ञातुमिति सन्तोष इष्यते ||" [प्र० वार्तिकाल० १।३३] इति ; तंत्र चतुः सत्यवेदनं सर्वविदः कुतोऽवसितम् ? प्रमाण संवादिनस्तत्सत्योपदेशादिति चेत् ; त एव सर्ववेदनमप्यव सातव्यं तस्य 'तन्नान्तरीयकत्वादित्युक्तत्वात् । ततः सूक्तम्- 'सर्ववेदनस्य सप्रयोजनत्वात् सुज्ञानत्वाच्च तदर्थमशेषविषयमेव प्रमाणमभ्यसितव्यं न नियतविषयमनुमानमिति ।
१ - परिज्ञानं यस्य तस्यैव । २ - तचेत- आ०, ब०, प०, स० । ३ भगवता आ०, ब०, प०, स० । ४ –दैर्वंशो आ०, ब०, प०, स० । ५ जीवात्म-आ०, ब०, स० । ६" न स कश्चित् पृथिव्यादेरंशः प्रदेशो यत्र जन्तवः संस्वेदजाया आद्यशब्दाज्जरायुजाण्डजप्रभृतयो न जायन्ते ततः सर्वभूतपरिणतिजातं प्राणादिजनने बीजात्मकमिति नास्ति बीजविरुद्धस्वभावता कस्यचित् ।" -प्र० वा० म० १।३९ । ७ चेतनवर्गाधिकरणस्य पृथिव्यादेः । ८ सुगतेन । ९ पृथिव्याद्यधिकरणकचेतनसमूहनिष्ठ । १० द्रष्टव्यम् - तरवसं ० श्लो० ६२७- । ११ निराकूतमे - आ०, ब०, प०, स० । १२ वैयर्थ्य तद-आ०, ब०, स० । १३ व्यवच्छेदाभावश्च । १४ सर्वज्ञानस्य पुरुषार्थज्ञानत्वमपि । १५ सर्वस्य प्राणिनः यत्किञ्चिदपि परिज्ञानं भवति तत्सर्वमपि साक्षात् परम्परया वा पुरुषार्थहेतुर्भवत्येवेत्यर्थः । १६ प्रज्ञाकरः । १७ चेत् न तत आ०, ब०, प०, स० । १८ अविसंवादिचतुः सत्योपदेशादेव । १९ सर्ववेदनाविनाभावित्वात् । २० - त्वाश्वत - आ०, ब०, प०, स० ।