________________
न्यायविनिश्चयविवरणे
[११
सुगतानुग्रहादिति चेत् ; न; तस्यापि सर्वचेतनसाधारणत्वात् , अन्यथा सुगतस्य जंगद्धितैषित्वानुपपत्तेः । न हि खण्डशो जगदनुगृह्णतः समयं तद्धितैषित्वमुपपन्नम् । सरीसृपादीनां तत्त्वबुभुत्सावत्त्वेपि न विनेयत्वं तत्त्वज्ञानामृतोपदेशभाजनत्वाभावात् , व्यक्तया वाचा तेषामवबोधयितुमशक्यत्वादिति चेत् ; मा भूत् व्यक्तया तदवबोधनम् , अव्यक्तया तु तद्वद्यया स्यात् । न ५ तादृशी सुगतस्य वागस्तीति चेत् ; अन्यादृशी कुतः ? तदभ्यासादिति चेत् ; सापि तत एवास्तु । तैदभ्यासोऽपि तस्य नास्तीति चेत् ; इतरवागभ्यासः कुतः ? तद्वागुपदेशादिति चेत् ; अव्यक्तवागुपदेशोऽपि नास्तीति कुतोऽवसितम् ? अनुपलम्भादिति चेत् ; न; सर्वविव्यापारस्यानुपलब्धस्यापि सम्भवात् , कथमन्यथा वाग्वैगुण्यलक्षणस्य शेषस्य भावान्निःशेष दुःखहेतुप्रहाणं सुगतस्य स्यात् , यतो निःशेषार्थ मुंपसर्गस्योक्तं सूक्तं स्यात् ?
ततः कथश्चित्सर्वेषां विनेयत्वोपपत्तितः । प्राणिनां तत्परिज्ञानं तंत्र किन्न परीक्ष्यताम् ? ॥ ४८ ॥ १"अजानन्न हि "ताँस्तेषामुपदेष्टा तथागतः । "तथा चेत् ; बुद्धिवैगुण्यं कथमस्य निवर्त्तताम् ? ॥ ४९ ॥ अस्तु कीटावबोधोऽपि तेन चेन्नास्ति वैः फलम् । युष्मद्वोधेन कीटानामपि नेति समं न किम् ? ॥ ५० ॥ ततो यथेदं कीटान्प्रत्युच्यते धर्मकीर्तिनी । 'कीटसङ्ख्या रिज्ञानं तस्य नः कोपयुज्यते' ॥ ५१ ॥ तथैव कीटकैरेतद्वक्तव्यमितरान् प्रति । भिक्षुसङ्ख्यापरिज्ञानं तस्य नः कोपयुज्यते ॥ ५२ ॥ इति ।
तन्न सङ्ख्यादिवतः कीटादिचेतनवर्गस्य ज्ञानमपुरुषार्थकरम् , तदभावे सकलचेतनवर्गाश्रितनिरवशेषानुष्ठेयतत्त्वोपदेशानुपपत्तेः। नापि तत्सङ्ख्यायाः; तस्यास्तद् व्यतिरेकेणाभावे तज्ज्ञानस्यैवासम्भवात् । सम्भवतो हि ज्ञानस्यानुपयोगित्वेनोपेक्षणीयत्वं वक्तव्यं नाऽसम्भवतः तत्परीक्षायाः परैरप्यनभ्युपगमात् । न चाविप्रतिपत्तिविषय एव विवादः तदनुपरमप्रसङ्गात् ।
अथ यस्य सङ्ख्या विद्यते स्याद्वादिनः तस्यापि तद्विषयं तदाप्तज्ञानमपुरुषार्थकरमित्ये२५ तदैदम्पर्यम् ; इदमपि न सुन्दरम; कीटसङ्ख्यागोचरस्याप्तज्ञानस्य "प्रायश्चित्तविभागाद्युपदेशहेतुत्वेन
१ "प्रमाणभूताय जगद्धितैषिणे नमोस्तु तस्मै सुगताय तायिने ॥"-प्र० समु०११। २ सरीसृपादिवेद्या अव्यक्ता वाक् । ३ अव्यक्तवागभ्यासोऽपि। ४ अनुपलब्धस्यापि अव्यक्तवागुपदेशस्यानङ्गीकारे । ५ अव्यक्तवागुपदेशा. सामर्थ्य । ६ “हेतोः प्रहाणं त्रिगुणं सुगतत्वम्-हेतोः समुदयस्य प्रहाणं निरोधः सुगतत्वम् । तच्च त्रिगुणं गुणत्रयः युक्तम् । सुशब्दस्य त्रिविधोऽर्थः-प्रशस्तता सुरूपवत् , अपुनरावृत्तिः सुनष्टज्वरवत् , निःशेषता च सुपूर्णघटवत्।" -प्र० वा० म० ११४४१ । ७ सुगतघटकसुशब्दस्य । ८ सकलचेतनसन्तानगतचतुःसत्यपरिज्ञानम् । ९ सुगते।
१. अज्ञानं न हि ता ते-आ०,ब०,प० । अशानं न हितान् ते-स०। ११ सर्वप्राणिनः। १२ सर्वप्राणिनोऽजानन्नपि यदि उपदेष्टा स्यात् । १३ युष्माकं भिक्षुणाम् । १४ प्रमाणवार्तिके(१॥३३)। १५ भिक्षुन् प्रति । १६संख्यावदर्थभिन्नतया । १७ असम्भवदर्थपरीक्षायाः। १८ विभिन्नकीटहिंसाजन्यतीव्रमन्दादिपापपरिहारकविविधप्रायश्चित्त ।