________________
११] प्रेर्थमः प्रत्यक्षप्रस्तावः
१७ दर्शनमपुरुषार्थकरम् ? न तावत्सङ्ख्यावतः; तद्धि' 'निरवशेषदेशकालाधिष्ठानं कीटनिफुरुम्बकमेव, न च तदर्शनाभावे तदधिकरणचतुःसत्यसंवेदनं सम्भवति । न हि चतुःसत्यं नाम किञ्चित्स्वतन्त्रमस्ति, दुःखसमुदयादेश्चेतनसन्तानाधिकरणस्यैव तत्त्वात् । चेतनसन्तानस्य च नारकतिर्यङ्नरसुरभेदभिन्नस्य प्रत्येकमनेकधा भेदमनुभवतः प्रतिव्यक्तिदर्शनविरहे तदधिकरणनिरवशेषचतुःसत्यसाक्षात्करणासम्भवात् कथन्न तद्दर्शनस्य पुरुषार्थोपयोगित्वम् ? ५ सामान्यरूपतयैव सकलचतुःसत्यवेदनान्न प्रतिव्यक्तिनिरवशेषचेतनसन्तानदर्शनमर्थवदिति चेत् ; न ; सर्वाकारचतुःसत्यवेदनविरोधात् । न हि सामान्येन गृहीतं सर्वाकारेण गृहीतं नाम । सर्वाकारग्रहणं चाभिमतं भवताम् "सर्वाकारानुमानं यत्" [प्र. वार्तिकाल. १।१३८ ] इत्यादि ववनात् । भवतु सुगतस्य प्रतिव्यक्तिगतदर्शनेनैव सकलचेतनसन्तानसाक्षात्करणम् अस्माकं तु तदर्थवन्न भवति, अस्मदर्थे चतुःसत्योपदेशे तन्मात्रगोचरस्यैव सुगतज्ञानस्योपयो- १० गात् , अत एवास्मदादेशेन नसा साक्षानिर्दिशति
__"कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते" [प्र० वा० १।३३ ] इति । ततस्तन्मात्रगोचरमेव ज्ञानं सुगतस्य परीक्षितव्यम्-'किं तस्य "तदस्ति वा न वा' इति, तदभावे "तचतुःसत्योपदेशासम्भवात् , न सर्वचेतनसन्तानविषयं तदभावेऽपि "तत्सम्भवादिति चेत् ; न ; दत्तोत्तरत्वात् , सकलचेतनसन्तानादर्शने तन्निष्ठत्वेन चतु:सत्योपदेशासम्भवात् । १५ न हि कूपमपश्यतः 'कूपे जलम्' इत्युपदेशः सम्भवति । "तनिष्ठत्वेन तदुपदेशो नार्थवानिति चेत् ; कथं तर्हि तदुपदेशोऽर्थवाम् ? अतन्निष्ठत्वेनेति चेत् ; न ; "तनिष्ठतया ज्ञातस्याऽतन्निष्ठत्वेनोपदेशे वञ्चकत्वेनोपदेष्टुरप्रमाणत्वापत्तेः ।
एतेन कतिपयतव्यक्तिनिष्ठत्वेनेति प्रत्युक्तम् ; न्याय स्य समानत्वात् ।
स्यान्मतम्-विनेयानुरोधादेव भगवतो देशना, विनेयाश्च सु(स्व)गतमेव चतुःसत्यमुपदेशा- २० दवबोधुमिच्छन्ति तस्यैवानुष्ठेयत्वात् न सर्वगतं विपर्ययात् , ततः सर्वचेतनाधिकरणत्वेनाधिगतमपि विनेयाभिप्रायवशात् प्रतिनियततद्वयक्तिगतत्वेनैव चतुःसत्यमुपदिशति नान्यथेति प्रतिनियतचेतनव्यक्तिज्ञानमेव तस्य परीक्षायोग्यं न सर्वचेतनव्यक्तिज्ञानमिति ; तन्न ; विनेयनियमाभावात् । तत्वबुभुत्सावन्तो हि विनेयाः, ते च न मनुष्या एव, सरीसृपादीनामपि तत्त्वयुभुत्सावत्त्वे "तदविरोधात् । तेषां तत्त्वबुभुत्सावत्त्वमेव नास्तीति चेत् ; मानवानां कुतस्तद्वत्त्वम् ? संसार- २५ दुःखपरिपीडनोबोधितात् कुतश्चिद्वासनाविशेषादिति चेत् ; न; सरीसृपादीनामपि तदविरोधात् ।
१चतुः सत्यव्यतिरिक्तं संख्यावच्चेतनं खलु। २ कालत्रयत्रिलोकवर्तिकीटसमूह एव । ३ कोटसम्हाधिकरणक । ४-समुदायादे-आ०, ब,प०स० । समुदेति अस्मादिति समुदयः दुःखकारणं तृष्णेति यावत् । ५-दर्शनविरहिते तता० । ६ संख्यावत्कीटादिदर्शनस्य । ७-दादेरुपदेशेन न साक्षान्नि-आ०, ब०, ५०, स० । अस्मत्शब्दस्थाने आदेशीभूतेन 'नः कोपयुज्यते' इत्युक्त 'नाइति पदेन । ८ "तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम्" इति पूर्वार्द्धः। ९ अस्मदीयचतुःसत्यमात्रगोचरमेव । १० अस्मदीयचतुःसत्यगोचरज्ञानम् । ११ अस्मदीयचतुःसत्योपदेश । १२ अस्मदादिचतुःसत्योपदेश । १३ सकलचेतनसन्ताननिष्ठतया चतुःसत्योपदेशः । १४ सकलचेननसन्ताननिष्ठतया। १५ सुगतस्य । १६ विनेयत्वाविरोधात् ।