________________
न्यायविनिश्चयविवर णे
"अनुमानान्तराक्षेपाद नवस्थावतारतः । प्रकृताऽप्रतिपत्तिः स्यात्तस्य तस्येत्यपेक्षणात् ॥” [ प्र० वार्तिकाल ० १ ४ ] इति चेत्; अस्तु सौगतस्यैवायं दोषो यस्माद्वयवहारमात्रादेव प्रसिद्धमनुमानम्, तदभावे प्रवृत्त्यादिव्यवहारविरहप्रसङ्गात् । प्रत्यक्षस्याप्यनुमानपूर्वकस्यैव व्यवहारकारित्वात्, अनुमानमेव ५ खल्वत्यन्ताभ्यासपाटव परिके लितशरीरमननुस्मृत साध्यसाधनसम्बन्धतयोपजायमानम् अकस्मा द्धूमदर्शनाद्वह्नि संवेदनवत् अध्यक्षव्यपदेशमनुभवत् प्रवृत्त्यादिव्यवहारमारचयति नापरम् । तत्र यदि अन्धपरम्पराप्रसङ्गापादनादनुमानमवसाय्येत व्यवहार एवापसारितः स्यात् । तत्र यद्येताaar परितोषस्तदा न किञ्चित्कर्तव्यमिति मुक्तिरेव संसारात् तस्यात्यन्तमसम्भवात् । अथ व्यवहारप्रसिद्धः संसारः ; तर्हि सिद्धमेवानुमानं व्यवहारस्य तन्नान्तरीयकत्वात् । अतस्तै गृहीत१० व्याप्तिसामर्थ्यात् सर्वाकारगोचरमनुमानं सुगतस्योपजायमानमनवद्यमेवेति चेत्, आस्तां तावदेतत्, 'तत्त्व पदतात्पय्र्यचिन्तायां विचारणात् । तन्नानुमानात्तस्य सर्वाकारानुमानं दर्शनादेव तदुपपत्तेः । यदि "तद्दर्शनमर्ने नुमानं कथमनुमानात्मकं तत्प्रत्यक्ष मुक्तमिति चेत् ? न; एवमपि परस्यैव दोषात् । तन्न सुगतस्य निरवशेषदर्शनमपुरुषार्थकरम्, तदभावे तत्पुरुषार्थस्य स्वार्थानुमानस्या
भावप्रसङ्गात् ।
१६
५
[ ११
93
१६
एतेन 'विनेयानामपि तत् पुरुषार्थकरं न' इति चिन्तितम् । तदभावे स्वार्थानुमानवत् " तन्निबन्धनस्य परार्थानुमानस्यापि विनेयपुरुषार्थतयाऽभिमतस्याभावप्रसङ्गात् । साध्यप्रतिबद्धलिङ्गोपदर्शनपरं हि वचनं परार्थानुमानम्, तेनैव" सुगतोपदिष्टेन विनेयानां तत्त्वप्रतिपत्तेः, न वचनमात्रेण तस्य वस्तुनि प्रामाण्यानभ्युपगमात् प्रमाणसङ्ख्याव्याघातप्रसङ्गात् " । न चासति स्वार्थानुमाने तदुपदर्शनपरं वचनम् । न च निरवशेषदर्शनमन्तरेण २० स्वार्थानुमानमिति स्वपरार्थसिद्धिमूलनिबन्धनत्वादखिलवस्तु साक्षात्करणस्य कथन्नाम विचारभूमिभागविधेयत्वन्न भवेत् ?
अपि च, परमपीदं "प पर्यनुयुज्यते - यत्तञ्चतुः सत्यव्यतिरिक्तं तत् चेतनम् अचेतनम्, वा गत्यन्तराभावात् ? चेतनमेव कीटसङ्ख्यादिलक्षणमिति चेत्; अत्रापि सङ्ख्यावतः, सङ्ख्याया वा
३ ' अत्य
१ प्रकृता प्रकृता वा स्या प० । प्रकृता च प्रकृता स्या-स० । २ - परिकरितश - ता० । न्ताभ्यासतस्तस्य झटित्येव तदर्थवित् । अकस्माद्भूमतो वह्निप्रतीतिरिव देहिनाम् ||" - प्र० वार्तिकाल० १११३८ । ४ व्यवहारापसारणेन । तुलना - " तत्र यद्येतावता परितोषस्तदा न किञ्चित्कर्त्तव्यमिति मुक्तिरेव ” - प्र० वार्तिकाल० १।५ । ५ व्यवहाररूपस्य संसारस्य । ६ अनुमानाविनाभावित्वात् । ७ चतुःसत्य तद्वयतिरिक्त राशिद्वयदर्शनगृहीत । ८ प्रसिद्धाशेषतस्त्वार्थेति श्लोकोक्ततत्स्वपदविचारावसरे । ९-मानं तद्दर्श-आ०, ब०, प०, स० । १० राशिद्वयदर्शनादेव । ११ सुगतप्रत्यक्षम् । १२ - नमनुमा आ०, ब०, प०, स० । १३ सुगतस्वार्थानुमाननिबन्धनस्य । १४ “त्रिरूपलिङ्गाख्यानं परार्थानुमानम् " - न्यायबि० पृ० ६१ । " तत्र परार्थानुमानं स्वदृष्टार्थ प्रका शनमित्याचार्यीयलक्षणम्" - प्र० वा०, म० ४। १ । १५ साध्यप्रतिबद्धलिङ्गोपदर्शकवचनेनैव । १६ वचनस्य । १७ “ वचसां प्रतिबन्धो वा को बाह्येष्वपि वस्तुषु । प्रतिपादयतां तानि येनैषां स्यात्प्रमाणता ।।" - तरवस ० श्लो० १५१३ । १८ यतो हि बौद्धः प्रत्यक्षमनुमानश्चेति प्रमाणद्वयमेवानुमन्यते । १९ सौगतम् ।