________________
११ ]
प्रथमः प्रत्यक्ष प्रस्तावः
जगदिति कथन्न तद्दर्शनस्याशेषविषयत्वम् ? कथं वा न पुरुषार्थोपयोगित्वं यतस्तत्परीक्षणम्पेक्ष्यते ? न हि सर्वविष॑यस्यैवाऽसर्वविषयत्वं पुरुषार्थहेतोर्वा तदहेतुत्वमुपपन्नम् ; विरोधात् । ततः सत्यचतुष्टयवेदित्वेन कस्यचित्प्रामाण्यमभ्युपगच्छेन् अशेषैवेदित्वेनैव अभ्युपगच्छतीति व्याहतमेतत्
१५
“हेयोपादेयतत्त्वस्य साभ्युपापस्य वेदकः ।
५
यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः || ” [ प्र० वा० १।३४ ] इति । भवतु तर्हि चतुःसत्यव्यतिरिक्तं किमपि द्विषयं सुगतदर्शनमपुरुषार्थोपयोगीति चेत् ; कस्य न तत् पुरुषार्थोपयोगि सुगतस्य, विनेयानां वा ? [न] तावत्सुगतस्य; तस्य निरवशेषचतुःसत्य-तद्व्यतिरिक्तर। शिद्वयदर्शने तद्गतसत्वक्षणिकत्वादिसकलसाध्यसाधनधर्मव्याप्तिप्रतिपत्तौ सुनिश्चितस्य स्वार्थानुमानलक्षणस्य पुरुषार्थस्य सम्भवात् अन्यथा तदयोगात् । न हि १० व्याप्तिग्रहणनिरपेक्षस्य प्रादेशिकतग्रहणसापेक्षस्ये वाऽनुमानस्य सम्भवः ; अतिप्रसङ्गात् । अत एवोक्तमलङ्कारकारेणें
" सहभावस्तु यो व्याप्तौ न तस्मादनुमोदयः ।
कादाचित्कतया "तस्य "सर्वत्रास्त्वनुमाऽथवा ।। " [प्र० वा० २४] इ
१५
स्यान्मतम्, न सुगतस्यानुमानात्मा पुरुषार्थो यतस्तदुपयोगित्वेनाशेषदर्शनस्य विचात्वम् अपि तु प्रत्यक्षादेव (क्षात्मैव ) "तस्य च न व्याप्तिग्रहणसापेक्षत्वं यतस्तत्राशेषदर्शनस्योपयोग इति; तदसारम्; अनुमानस्यैव सर्वाकारगोचरस्य सौगतप्रत्यक्षत्वेन परैरभ्युमगमात् ।
यस्मादुक्तम्
" सर्वाकारानुमान" यदध्यक्षात्तन्न भिद्यते ।
नेन्द्रियेणापि संयोगस्ततोऽधिकविशेषकृत् ॥” [ प्र० वा० १ । १३८ ] इति यद्यनुमानमेव प्रत्यक्षं तर्हि 'प्रत्यक्षात् व्याप्तिग्रहणम्' इति 'अनुमानात्तग्रहणम्' इत्युक्तं भवति, न चैतन्न्याय्यम्, तत एवानुमानात्तग्रहणे' परस्पराश्रयप्रसङ्गात्, अन्यतस्तग्रहणे तत्राप्यन्यतस्तग्रहणमित्यनवस्थापत्तेः प्रस्तुतार्थप्रतिपत्त्यभावप्रसङ्गात् । उक्तञ्च प्रज्ञाकरेण
१ - विषयस्यासर्व - आ०, ब०, प०, स० । २ तत्सत्य-आ०, ब०, प०, स० । ३-च्छतीति आ०, ब०, प०, स० । ४ सत्य वतुष्टयव्यतिरिक्तस्य जगतोऽभावात् सत्यचतुष्टयवेदित्वमेव अशेषार्थवेदित्वम् । ५ पश्यतु - पृ० ९ टि०१२ । ६ यद्विषयगतद-आ०, ब०, प० । ७ अनुमानायोगात् । ८ व्यक्तिविशेषे व्याप्तिग्रहणापेतस्य । ९ - स्यैवानु प० । १० प्रमाणवार्तिकालङ्कारकृता प्रज्ञा करगुप्तेन “सहभावस्तयोर्व्याप्त्या न”-प्र० वार्तिकाल० १।४ । ११ सहभावस्य । १२ यदि कादाचित्कसह भावेनानुमानं स्यात् तदा वह्निनापि धूमानुमानं स्यात् कादाचित्कसहभावस्याविशेषात् । १३ प्रत्यक्षाव-आ०, ब०, स० । प्र व ता० । १४ प्रत्यक्षात्मनः पुरुषार्थस्य । १५ " यत्खलु सर्वाकार पदार्थस्वरूपवेदनं तदेवाध्यक्षम् । साक्षात्करणार्थो हि प्रत्यक्षार्थः ..." प्र० वार्तिकाल ० १।१३८ । १६ सर्वाकारानुमानात्मकप्रत्यचापेक्षया । १७ इति कथनेन । १८ स्वीयव्याप्तिप्रहणे ।
२०