________________
१०
[ १११ arthaharatचदाश्रयत्वेनाधिष्ठायकम् अनुपकारिणस्तद्योगात् । न च नित्यस्यात्मनोऽन्यस्य वा कारणत्वम् ? तत्कथं तेन दुःखसत्यस्याधिष्ठानम् ? तदुक्तम्- “नाकारणमधिष्ठाता नित्यं वा कारणं कथम् ?” [ प्र० वा० १।१७९ ] इति चेत्; उच्यते
१४
न्यायविनिश्वयविवरणे
विदं कारणत्वं च संवृत्यैव न तत्त्वतः
यदुक्तं कीर्त्तिनैवेदं "संवृत्यास्तु यथा तथा " [ प्र० वा० २।४ ] ॥ ४१ ॥ लोकाभिप्राय एवायं संवृत्यर्थोऽपि नापरः ।
स च नित्यस्य हेतुत्वमविवाद प्रकल्पयेत् ॥ ४२ ॥ तस्य सद्भावात् क्षणिकादौ विपर्ययात् । इति प्रपञ्चतः पश्चाद्यथास्थानं वदिष्यते ॥ ४३ ॥ हेतुत्वादेव दुःखस्य ' तेनात्मा स्यादुपाश्रयः । तत्कथं दुःखसत्यस्य चतुराकारतोच्यते ? ॥ ४४ ॥
१.
ततो निराकृतमेर्तत्- "चतुराकारं दुःख सत्यमनित्यतो दुःखतः "शून्यतोऽनात्मतश्च" [ प्र० वार्तिकाल० १।१७८ ] इति । तन्नायं व्याप्ति विकल्पोऽनुमानात् । मा भूतथापि योग्यतयैव साध्यसाधनाविनाभाव सर्वस्वगोचरः कश्चिदपर एवायं विकल्प इति चेत् ; १५ अस्ति तर्हि निरवशेषवस्तुविषयं "छद्मस्थस्यापि किञ्चित्प्रमाणमिति तदभ्यास एव सकलार्थदर्शनार्थिना कर्तव्यो न नियतविषयानुमानाभ्यासः; "तदभ्यासे सकलार्थदर्शनासम्भवात् । नहि नियतविषयप्रमाणाभ्यासाद् अशेषविष दर्शनमुपपन्नम् अतिप्रसङ्गात् । तस्मादशेषदर्शनस्याशेषविषयमेव प्रमाणं कारणं नापरमिति प्रतिपादनार्थम् " अशेषग्रहणम् ।
यत्पुनरेतत्-भवतु भगवद्दर्शनमशेषविषयम्, तथापि किं " तस्य परीक्षया पुरुषार्थानुप२० योगात् ? यत्पुनस्तद्दर्शनं चतुरार्यसत्यगोचरं तदेव परीक्षितव्यं पुरुषार्थोपयोगित्वात् नापरविषयं विपर्ययादिति; तत्रेदमुच्यते- तत्सत्यव्यतिरिक्तं "यदि किञ्चिन्नास्ति तर्हि तावदेव
१ अर्थक्रियारहितस्य । २ नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरहात् । ३ कल्पनयैव । ४ “इयमेव खलु संवृतिरुच्यते येयं विचार्यमाणा विशीर्यते ।" "प्रमाणमन्तरेण प्रतीत्यभिमानमात्रं संवृतिः अनिरूपिततत्त्वा हि प्रतीतिः संवृतिर्मता ।" - प्र०वार्तिकाल० २४ । “ संत्रियत आत्रियते यथाभूतपरिज्ञानं स्वभावावरणादावृतप्रकाशनाच्चानयेति संवृतिः । अविद्या मोहो विपर्यास इति पर्यायाः । अविद्या ह्यसत्पदार्थस्वरूपारोपिका स्वभावदर्शनावरणात्मिका च सती संवृतिरुपपद्यते । अविद्योपदर्शितं च प्रतीत्यसमुत्पन्नं वस्तुरूपं संवृतिरुच्यते । तदेव लोकसंवृतिसत्यमित्यभिधीयते ।” - बोधिच० प० पृ० ३५२ । ५ लोकाभिप्रायात्मकः संवृत्यर्थः । ६ नित्य एव । ७ तस्यासद्भावा - आ०, ब०, प०, सं० । हेतुत्वस्य । ८ येनात्मा प० । यतात्मा स० । नात्मा ब०, स० । तेन नित्यस्य हेतुत्वसमर्थनेन । ९ धर्मसंग्रह - प्रमाणवार्तिकादौ निर्दिष्टम् । पश्यतु पृ० ११टि०३३ । १० दु:खस्य सत्य - आ०, ब०, प०, स० । ११ शून्यवतो- आ०, ब०, प०, स० । १२ व्याप्तिविकल्पोऽनात्मा मा - ता० । १३ अल्पज्ञस्य । १४ तदैव प० । सकलसाध्यसाधनगोचरव्याप्तिविकल्पाभ्यासः । १५ नियतविषयानुमानाभ्यासे । १६-र्शनाभावात् आ०, ब०, प०, स० । १७ प्रसिद्धाशेषतत्त्वार्थेत्यत्र । १८ तदशेषविषयत्वस्य । १९ “ सत्यान्युक्तानि चत्वारि दुःखं समुदयस्तथा । निरोधो मार्ग एतेषां यथाभिसमर्थं क्रमः ॥" - अभिधर्मको० ६।२ । धर्मसं० पृ० ५ । २० यस्कि - आ०, ब०, प०, स० । २१ सत्यचतुष्टयपरिमितम् ।