________________
१३.
१।१]
प्रथमः प्रत्यक्षप्रस्ताव: “यो यत्रैव स तत्रैव यो यदैव तदैव सः ।
न देशकालयोर्व्याप्तिर्भावानामिह विद्यते ॥ [ ] इति ।
तन्न प्रत्यक्षस्यायं व्यापारः, तस्यान्वयविषयस्य व्यतिरेकविषयस्य वेयतो व्यापारस्याऽनुपपत्तेः । तजन्मनो विकल्पस्येति चेत् ; कः पुनरसौ विकल्पः ? अनुमानमेवेति चेत् ; अनुमानात्तर्हि व्याप्तिग्रहणम् , तदपि न सम्यक ; तेनैव तद्हणे परस्पराश्रयप्रसङ्गात् । ५ अन्येन तद्हणे अनुमानपूर्वकत्वमनुमानस्योक्तं स्यात् ।' भवतु को दोष इति चेत् ; किं पुनरिदमिदानीमेवोक्तं भवद्वचनं भवतैव विस्मृतम् 'अनुमानस्यानुमानपूर्वकत्वे अन्धपरम्पराप्रसङ्गात्' इति ? अनुमानपूर्वकमेवानुमानं तथैव व्यवहारात ; न च व्यवहारो विचारमर्हति तस्याविवारितरमणीयत्वात् , तद्विचारे सकलभेदव्यवहारविरहप्रसङ्गादित्यपि न बन्धुरम् ; अनित्याधनुमानवन्नित्याद्यनुमानस्याप्यङ्गीकारप्रसङ्गात । नित्यादित्वेनादृश्यमाने दुःखसत्यादौ कथं १० तथानुमानमिति चेत् ? स्यादेतदेवं यदि दर्शनपूर्वकमनुमानं स्यात्, न चैवम् , तस्यानुमानपूर्वकत्वेनोपगमात्, अन्धपरम्पराप्रसङ्गस्य चाविचारितरमणीयव्यवहारपद्धतिमुग्धवारवनितापारवश्येनैव निवारणात् । व्यवहारादपि नित्याद्यनुमानमप्रसिद्धमेव तत्र तस्यानुपयोगादिति चेत् ; न ; व्यवहारे तस्यैवोपयोगात्, प्रवृत्ति निवृत्त्यादिव्यवहारस्य नित्यत्वादिनिमित्तत्वेन व्यवहारिणां प्रसिद्धत्वात् । न हि निरंशक्षणिकादिरूपतया वस्तु किश्चिनिश्चितं ..विपश्चितां १५ व्यवहारकारणम् । कथमन्यथा अभ्यासावस्थायां "प्रत्यक्षविषयतयाऽध्यारोपितं दृश्यप्राप्यैकत्वमेव व्यवहारकारणं भवतैव
"ततो"भाव्यथविषयं "विषयान्तरगोचरम् । प्रमाणमध्यारोपेण व्यवहारावरोधकृत् ॥”[प्र० वार्तिकाल० १।१ ।
इति ब्रुवता निरूपितम् ? "तदनुमानाङ्गीकरणे च न दुःखसत्यस्यानित्यत्वं तन्नित्यत्वस्यानुमानेन २० साधनात् । नापि “तस्यानात्माश्रितत्वम् ; अनुमानसिद्धनित्यादिरूपस्यात्मनः तदाश्रयत्वोपपत्तेः ।
१ प्रत्यक्षपृष्ठभाविनः । २ प्रकृतानुमानेनैव स्वीयव्याप्रिग्रहणे । ३ व्याप्तिग्रहणे सति अनुमानोत्थानम्, सति चानुमाने व्याप्तिग्रहणमिति । ४ द्वितीयानुमानेन प्रथमानुमानव्याप्तिग्रहणे । ५ पुनरिदानी-३०। ६ नित्यादित्वेन । ७-रमणीयत्वव्य-आ०, ब०, प०, स०। ८ तत्र व्यवहारे तस्य नित्यादिवस्तुनः । ९ तस्मादुप-प०। १०-हारेणाप्र-प० । -हारेणां प्र- भा०, ब०, स०। ११ “अन्यो हि दर्शनकालः अन्यश्च प्राप्तिकालः, किन्तु यत्कालं परिच्छिन्नं तदेव तेन प्रापणीयम् । अभेदाध्यवसायाच्च सन्तानगतमेकत्वं द्रष्टव्यमिति ।" -न्यायबि० टी० पृ०७ । १२ दर्शनविषयभूतः क्षणः दृश्यः, प्रवृत्त्यनन्तरं प्राप्तिविषयीभूतः क्षणः प्राप्यः । बौद्धानां मते सर्वस्य क्षणिकत्वात् अन्यत् दृश्यम् प्राप्यञ्च अन्यत् स्यात् अतश्च विसंवादात् अप्रामाण्यं व्यवहारविसंवादश्च प्राप्तः तत्परिहारार्थ तैः 'यद् दृष्टं तदेव प्राप्तम्' इति विभिन्नक्षणगतसन्तानात्मकमध्यारोपितमेकत्वं स्वीक्रियते । ततश्च ज्ञानप्रामाण्यं व्यवहारश्च निर्वहति । १३ प्राप्त्यपेक्षया। १४ दर्शनापेक्षया अतीतक्षणगोचरम् । १५ सन्तानात्मकैकत्वारोपेण । १६ "व्यवहारावबोधकृत्"-प्र. वार्तिकाल । १७ नित्याद्यनुमानस्वीकारे । १८ तस्यात्माश्रि-आ०, ब०, ५०, स० । दुःखसत्यस्य ।