________________
न्यायविनिश्चयविवरणे
[१११ "न हि नित्यस्य नित्यमुपलभ्यस्वभावस्य कदाचिदुपलम्भो युक्तः उपलभ्येतरस्वभावयोः परस्परपरिहारस्थितत्वेन विरोधात् , उपलभ्यत एव सत्त्वेति (स इति) प्रतिपादनात् । न च सर्वदा सर्वमुपलब्धुं शक्यं क्रमोपलभ्यस्यानित्यत्वात्। न च क्रम ऍकत्वे सम्भवति; क्रमवत एकत्वेनाप्रतिभासनात् प्रत्यक्षस्याप्रवृत्तेः अनुमानस्य तदभावे अभावात् ५. प्रत्यक्षपूर्वकत्वादनुमानस्य, अनुमानपूर्वकत्वे अन्धपरम्पराप्रसङ्गात् ।" [प्र०वार्तिकाल. १।१७८ ] इति ।
एवमन्यत्रापि स्वभावहेतौ वक्तव्यम् । तन्न तत्स्वभावस्यान्यस्वभावत्वं तत्स्वभावस्यैवाभावप्रसङ्गात् । नाप्यनित्यहेतुकस्य दुःखसत्यस्य अहेतुकत्वं नित्यहेतुकत्वं वा सम्भावयितुं शक्यम् ; अहेतुकत्वे नित्यत्वस्य नित्यहेतुकत्वे चानिवर्त्तनस्य प्रसङ्गात् कारणवैकल्याभावे कार्यनिवृत्तेरयोगात् । ततो निवर्तमान कार्य कारणस्य निवृत्तिमेव गमयति नानिवृत्तिम्, तत्र स्वयमप्यनिवृत्तत्वप्रसङ्गात् । न चानिवृत्तिरूपमेव दुःखसत्यम्; "तस्य ''कदाचिदुपलभ्यत्वेनानित्यत्वस्य साधनात् । तदुक्तम्
"अहेतोर्नित्यतैवाऽस्तु नित्यहेतोः क्षयः कुतः । "हेतुवैकल्यमप्राप्य कथं भावो निवर्त्तते १ ।। यस्य हेतुकृतो भावस्त दभावान्न तद्भवेत् । "तदभावेऽपि भावश्चेदभावोऽस्य कुतो भवेत् ? ॥ अनित्यहेतुको भावो हेत्वभावान्निवर्त्तते ।
"नित्यहेतोरभावोऽस्ति न हेतोन निवर्त्तते ॥"[प्र०वार्तिकाल० १।१३५] इति । एवमन्यत्रापि कार्यहेतौ वक्तव्यम् । तन्न तत्कार्यमहेतुकमन्यहेतुकं वा युक्तमिति; अत्रे२० दमुच्यते- यत् यत्स्वभावं यत्कार्यं वा सर्वत्र सर्वदा तत् तत्स्वभावमेव नान्यस्वभावम् , तत्का
र्यमेव नाकार्य नान्यकार्य वेति । 'नहि' इत्यादिना 'अहेतोः' इत्यादिना चोच्यमानः कस्य पुनः प्रमाणस्यैतावान् व्यापारः ? प्रत्यक्षस्यैवेति चेत्, न; तस्य सन्निहिते तात्कालिकवस्तुमात्रगोचरतया निरवशेषसपक्षविपक्षाभिमतव्यक्तिनिकरनिरीक्षणशक्तिविकलत्वेन इयतो व्यापारस्याऽसम्भ.
वात् । प्रदेशतस्तादात्म्यतत्कार्यत्वग्रहणमेव देशकालव्यापित्वेनापि तद्हणमिति चेत्; व्याहत२५ मेतत्-यदि प्रदेशतस्तद्ब्रहणं कथं तद्व्यापित्वेन तद्ब्रहणम् ? तच्चेत्; कथं प्रदेशतस्तद्हणम् ?
'प्रदेशतश्च, तव्यापित्वेन च' इति स्पष्टो व्याघातः । कथमन्यथा स्तम्भस्यापि प्रदेशनियत त्वेन ग्रहणमेव तद्व्यापित्वेन ग्रहणं न स्यात् ? यत इदं सूक्तं स्यात्
१ कथञ्चिदु-आ०, ब०, प०, स० । २-हारस्थितित्वेन आ०, ब०, प०, स० । ३ इव सत्तेति "उपलभ्यतयैव स इति"-प्र. वार्तिकाल०। ४ सर्वथा आ०,ब०,५०,स०। ५ नित्यत्वे । ६ प्रत्यक्षाभावे। ७-त्वादनुमानपूर्व-ता। ८ तुलना-"न त्यहेतुकत्वे नित्यहेतुकत्वे वा निवर्तनाय व्यापारः सफलः।" -प्र० वार्तिकाल. १।१३५ । ९ यदि निवर्तमानं कार्य कारण त्यानिवृत्तिं गमयेत् तदा कारणस्यानिवृत्तौ स्वयं कार्यस्यापि न निवृत्तिः स्यादिति भावः । १० दुःखसत्यस्य । ११ कदाचिदप्युप-आ०,ब०,१०,स । १२ हेतोर्वेकल्य-आ०,व०,१०।१३ हेत्वभावात् । १४ कारणाभावेऽपि यदि कार्यसत्त्वं स्यात् तदा अस्य-कार्यस्य अभावः कुतः कारणात् स्यात् ? १५ यतः नित्यकारणकस्यार्थस्य अभावो नास्ति अतः स हेतोर्न निवर्तते। १६ सर्वोपसंहारेण । १७ सकलदेशकालव्यापित्वेन !