________________
प्रथमः प्रत्यक्ष प्रस्तावः
११
१०.
सकलव्यक्तिविषयम्, प्रतिनियतव्यक्तिविषयं वा स्यात् ? 'न सकलव्यक्तिगोचरम् ; तद्वतः सर्वज्ञत्वापत्तेः । प्रतिनियतव्यक्तिगोचरं चेत्; तर्हि तद्गतस्यैव प्रतिबन्धस्य तेन ग्रहणं भवेन्न निरवशेषव्यक्तिगतस्य । न हि या व्यक्तयो न तद्गोचरा तन्निष्टस्य प्रतिबन्धस्यान्यस्य वा धर्मस्य तेन प्रतिपत्तिः सम्भवति, "आधेयप्रतिपत्तेराधारप्रतिपत्तिनान्तरीयकत्वात् । एक तग्रहणमेवान्यत्रापि तद्रहणमिति चेत्; अन्यत्र 'तदग्रहणमेवैकत्रापि तदग्रहणं किन्न स्यात् ? एकत्र तग्रहणं ५ प्रत्यक्षत एवानुभूयत इति चेत्; अन्यत्र तदग्रहणमपि तत एवानुभूयते तदन्यविषयपराङ्मुखत्वेन तस्य स्वयमनुभवात् । " अतः " अन्यत्र साध्याभावेऽपि साधनं सम्भाव्येत, तथा च कथमदृष्टपूर्वधूमादिदर्शनात् निश्चिता पावकादिप्रतिपत्तिर्भवेत् ? तन्न अन्वयविषयात्प्रत्यक्षात्प्रतिबन्धप्रतिपत्तिः । व्यतिरेक विषया देवान्योपलम्भरूपादिति चेत्; " तस्य च " साध्याभावप्रयुक्त साधनाभानियमाधिकरणभावाभिमतकतिपयविपक्षगोचरत्वे स एव दोषः " तन्निष्ठस्यैव तथाविधतदभावे - १० नियमस्य तेन ग्रहणान्न निरवशेषविपक्षनिष्ठस्येति । न हि यो यस्याविषयः' १८ " तत्तस्य कस्यचि - त्सदसत्त्वप्रतिपत्तौ समर्थं मेरुशिखरे मोदकसदसत्त्वप्रतिपत्तिवत् । सकल विपक्षग्रहणे चोक्तम्'तद्वतः सर्वज्ञत्वापत्तिः' इति । तथा च "दुःखसत्यस्य " यत् अनित्यत्वे कदाचिदुपलभ्यत्वं दुःखत्वे हेतुपरवशत्वं शून्यत्वे चोत्त्रासभावनानिर्मितत्वम् अनात्मत्वे चानात्मकार्यकारित्वं साधनमुक्तं तत्साकल्यव्यतिरेकनिश्चयविरहात् विपक्षेपि संभाव्यमानं कथ मुक्तसाध्यप्रत्यायनसामर्थ्य मुद्वहेत् यत १५ तुराकारस्य दुःखसत्यस्य निर्णयः स्यात् ? एवमन्यत्रापि । तन्न परस्यानुमानं यदभ्यासादनुष्ठेयवस्तुसाक्षात्करणम् ।
१।१
२५
स्यान्मतम् - न सकलविपक्षग्रहणात् व्यतिरेकनिर्णयो येनायं दोषः स्यात् अपि तु तादात्म्यतदुत्पत्तिप्रतिबन्धसामर्थ्यात् । तथा हि दुःखसत्यस्य कदाचिदुपलभ्यत्वमनित्यत्वस्वभावं तदभावे न भवत्येव । नित्यत्वे हि नित्योपलभ्यस्वभावस्यैव प्रसङ्गात् । तदुक्तम्- २०
१ न तत्सक प० । २ प्रतिबद्धस्य ब० आ०, प०, स० । ३ स हि ता० । ४ अस्मदादिप्रत्यक्षविषयाः । ५ वस्तुगतः सम्बन्धोड़न्यो वा धर्मः । ६ प्रत्यक्षगोचरव्यक्तौ । प्रत्यक्षागोचरे व्यक्तौ । ८ तद्ग्रहणमेवैकत्रापि तद्ग्रहणं आ०, ब०, प०, स० । सम्बन्धा ग्रहण | ९ स्वविषयातिरिक्तविषयपराङ्मुखत्वेन । १० यतः प्रत्यक्षं प्रतिनियतविषयम् अतः । ११ स्वागोचरव्यक्तौ । १२ स्वागोचरव्यक्तौ अन्वयव्यभिचारे सति । १३: विपक्षोपलम्भरूपात् । १४ विपक्षोपलम्भरूपस्य व्यतिरेकविषयकप्रत्यक्षस्य । १५ व्यतिरेकनियम | १६ कतिपयविपक्षनिष्टस्यैव साध्याभावप्रयुक्तसाधनाभावरूपव्यतिरेकनियमस्य । १७ - भावानि - ता० । १८ -यस्ततस्तत्र कस्य ता० । १९ तत् ज्ञानम् तस्य स्वाविषयी भूत पदार्थनिष्ठस्य कस्यचित् धर्मस्य । २० दु:खसरवस्य आ०, ब०, प०, स० । २१ " दुःखं संसारिणः स्कन्धाः " - प्र० वा० १।१४९ । 'यत्' इत्यस्य साधनमित्यनेनान्वयः | २२ "दुःखसत्यच अनित्यतो दुःखतः शून्यतोऽनात्मतश्चेति चतुराकारमाख्यातुमाह- कदाचिदुपलम्भात् तदध्रुवं दोषनिश्रयात् । दुःखं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम् ॥ कदाचिदुपलम्भात् दुःखमध्रुवम् अनित्यम्, दोषनिश्रयात् रागादिदोषाश्रयेणोत्पत्तेः हेतुवशत्वाश्च सर्वं परवशं दुःखमिति न्यायात् दुःखं तत् । न चात्माश्रयम् अनात्मन आत्मविलक्षणत्वात् नाप्यधिष्ठितम् अधिष्टातुरात्मनोऽभावात्, अनेन शून्यत इत्याख्यातम् ।”–प्र० वा० म० १।१७८,७९ । २३ "तत्र दुःखसत्ये चत्वार आकाराः । तद्यथा अनित्यतो दुःखतः शुन्यतोऽनात्मतश्चेति । ” - धर्मस० पृ० २३ । २४ " स च प्रतिबन्धः साध्येऽर्थे लिङ्गस्य वस्तुतस्तादात्म्यात् साध्यार्थादुत्पत्तेश्च ।”–न्यायबि० पृ० ४१ । हेतुबि० टी० पृ० ५५ । स्वभावहेतौ तादात्म्यसम्बन्धः, कार्यहेतौ च तदुत्पत्तिसम्बन्धः। २५ दुःखसत्यत्वस्य आ०, ब०, प०, स० । २६ अनित्यत्वाभावे । २७ नित्यत्वोपल-आ०, ब०, प०, स० ।