________________
न्यायविनिश्चयविवरण
[११ अत्रेदमुच्यते- किं तत्प्रमाणं यदभ्यासादनुष्ठेयवस्तुसाक्षात्करणं तथागतस्य ? प्रत्यक्षमिति चेत् ; न; अनुष्ठानवैयर्थ्यप्रसङ्गात् । अनुष्ठानं हि प्रमाणविषयसाक्षात्करणार्थम् , प्रत्यक्षस्यैव च 'तत्साक्षात्करणरूपत्वे किं तदनुष्ठानेन ? न चाऽसाक्षात्करणरूपं प्रत्यक्षम् ; अनुमानाद्यविशेषप्रसङ्गात् । साक्षात्करणतारतम्याददोष इति चेत् ; स्यादाकूतम्-प्रत्यक्षमपि किञ्चि५ साक्षात्कारि तदन्यत् साक्षात्कारितरं तदन्यत् साक्षात्कारितममिति सातिशायनमेव, तत्र प्रथमा
भ्यासाहितीयस्य तदभ्यासात्तृतीयस्य तदभ्यासादपि तत उत्कृष्टस्याध्यक्षस्य सम्भवान्नानुष्ठानवैयर्थ्यदोष इति; तन्न; विषयविशेषाभावे प्रत्यक्षविशेषानुपपत्तेः। तथा हि-न साक्षात्करणतारतम्यमध्यक्षस्य स्वलक्षणविषयम् ; तस्यैकरूपत्वात् । यदि तस्य विशदविशदतरादिज्ञानवेद्यं
नानारूपं भवेत् , भवेदपि तद्विषयमध्यक्षस्य साक्षात्करणतारतम्यं फलवत् । न चैवम् , तस्य १० "निरंशत्वेन नानारूपत्वस्यासम्भवात् । सम्भवे वा प्रथमप्रत्यक्षत एव तथावभासनात
तवस्थमनुष्ठानवैयर्थ्यम् , असमप्रप्रतिभासस्य स्वयमनभ्युपगमात् । “तस्मात् दृष्टस्य भावस्य दृष्ट एवाखिलो गुणः" [प्र. वा० ३।४४ ] इति वचनात् ।
प्रत्यक्षस्य भिंदा किं स्यादेकरूपे स्वलक्षणे ? । 'नानारूपं न तत्कस्मादाद्येऽध्यक्षेऽवभासते ॥३७॥ यदनुष्ठानवैयर्थं न स्यात् ? नाप्यवभासनम् । असमग्रस्य भावस्य सौगतैरनुमन्यते ॥३८॥ तन्न स्वलक्षणेप्येप विशेषोऽध्यक्षगोचरः । 'अन्यत्र चेत् ; तथाप्यस्य कैमर्थक्येन कल्पनम् ? ॥३९॥ तत्त्वस्वलक्षणं यस्माद्विना तेनापि गृह्यते ।
"विशेषेणोत्तरेणेति नानुष्ठानस्य तत्फलम् ॥४०॥
तन्न "प्रमाणं प्रत्यक्षं यदनुष्ठानात्तत्त्वदर्शित्वम् । अनुमानमिति चेत् ; न; तस्य "प्रतिबन्धग्रहणमन्तरेणासम्भवात् । तद्रहणश्च न योगिप्रत्यक्षात् ; अस्मदादौ तदभावात् । अस्मदादिप्रत्यक्षादेवेति चेत् ; तदप्यन्वयविषयम्, व्यतिरेकविषयं वा स्यात् ? अन्वयविषयमपि
अनुष्टेयवस्तु । २ इदं बौद्धस्य आकूतमभिप्रायः स्यात् । ३ “तत्र यदर्थक्रियासमर्थ तदेव वस्तु स्वलक्षणमिति ।"-प्रमाणसमु. टी. पृ. ६ । “यस्यार्थस्य सन्निधानासन्निधानाभ्यां ज्ञानप्रतिभासभेदः तत्स्वलक्षणम् । तदेव परमार्थसत् ।"-न्यायबि० १.१३, १४ । “स्वमसाधारणं लक्षणं तत्त्वं स्वलक्षणम् ।"-न्यायबि. टी. पू. २२। "अर्थक्रियासमर्थ' यत्तदत्र परमार्थसत् । अन्यत् संवृतिसत्प्रोक्तं ते स्वसामान्यलक्षणे ॥" -प्र. वा. ३।३ । एतन्मते स्वलक्षणं क्षणिकं निरंशं परमाणुरूपं च । ४ स्वलक्षणस्य । ५ "एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् । कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥-सर्व एव दृष्टो निरंशत्वाद्भावस्य । एको हि अर्थात्मा निरंशः। स तावत् प्रत्यक्षोऽभ्युपगन्तव्यः।" -प्र. वा. स्व० टी० पृ. १२१ । ६ भिधा ब०, ५०, आ० । ७ स्वलक्षणं परमार्थत एकरूपम् , यदि नानारूपं स्यात् तथापि कथं तन्नानारूपं प्रथमप्रत्यक्ष एव नावभासते ? यतः साक्षात्करणविशेषार्थ क्रियमाणमनुष्ठानं व्यर्थ न स्यात् ? अपि तु स्यादेवेति भावः । ८ स्वलक्षणभिन्ने । ९ अध्यक्षगोचरविशेषस्य । १० स्वलक्षणभिन्ने कल्पितेन । ११ प्रमाणप्र-आ०,०प०। १२ अविनाभावसम्बन्ध।