________________
प्रथमः प्रत्यक्षप्रस्तावः
न विना च प्रमातारं प्रमाणस्योपपन्नता । न हि कर्त्तनिराशंसं करणं व्यवलोक्यते ॥ ३४ ॥ तन्न प्रमाणं सर्वार्थमेकं यस्य बलादियम् । 'प्रसिद्ध(द्धिः)सर्वतत्त्वानां प्रसिद्वेत्यादिनोच्यते ॥ ३५ ॥ इति;
तदसङ्गतम् ; यस्मादात्मन एव सर्वप्रमाणतवेद्यसन्दोहमाकलयतः स्वविषयाव्यभिचारे ५ प्रामाण्यात् , तद्व्यभिचारे तद्बलात्सुनिश्चितस्य 'यदि' इत्यादिवचनस्यानुपपत्तेः । आत्मनः प्रामाण्ये प्रमातृत्वं न स्यादिति चेत ; न; विरोधाभावात् । विषयपरिच्छित्तिं प्रति स्वतन्त्रशक्त्यपेक्षया प्रमातृत्वात् साधकतमशक्तथपेक्षया च तस्यैव प्रमाणत्वात् , एकत्र च शक्तिनानात्वस्य 'आत्मनाऽनेकरूपेण इत्यादिना निवेदनात् । तन्न प्रमाणात् प्रमातुरन्तरत्वं प्रमितेरपि 'तस्य तत्प्रसङ्गात । न चैतत्पथ्यं भवताम् , विषयप्रमितिवत् स्वप्रमितेरपि तस्मादर्थान्तरत्वे १० स्वसंविदितात्मवादाभावप्रसङ्गात् । क्रियाकर्तुस्वभावत्वमेकस्य शक्तिभेदप्रयुक्तम् वि (क्तमवि) रुद्धमिति चेत् ; तर्हि तत एव कर्जकरणस्वभावत्वस्याप्यविरोधात नात्मनः प्रमाणत्वे प्रमात्रन्तरपरिकल्पनं यतोऽनवस्थानं भवेत् ।
तस्मादात्मैव सर्वार्थवेदी स्याद्वादशासनात् ।
प्रमाणं भावना तस्य सर्वदर्शित्वमावहेत् ॥ ३६ ॥ ततः स्थितं प्रसिद्धग्रहणं परसाधनस्यासिद्धतोद्भावनार्थमिति ।
यत्पुनरिदं बौद्धस्य मतम्-भवतु किश्चित्प्रमाणं यदभ्यासात्तत्त्वदर्शित्वं भगवतः तत्तु न सर्वविषयं तदसम्भवात् । न हि संसारिंणस्तदस्ति ; सर्वस्य सर्वदर्शित्वप्रसङ्गात् । "सम्भवेऽपि तदभ्यासस्य वैफल्यात् । कस्यचित्तदभ्यासनिबन्धनसकलार्थदर्शनसाधने निःश्रेयसार्थिनां प्रयोजनाभावाच्च । "ते खलु सोपायहेयोपादेयगोचरमेव कस्यचिज्ज्ञानमन्विच्छन्ति २० "स्वयं तदाम्नायात् , सोपायहेयोपादेयतत्त्वपरिज्ञाने हेयस्य हानादुपादेयस्य चोपादानात् निःश्रेयसावाझ्या पुरुषार्थपरिसमाप्तः, सकलार्थज्ञानं तु "कस्यचिदवस्करकुटीरकोटरान्तर्गतकीटकगणनादिगोचरं विद्यमानमपि नास्मदादिभिरन्वेषणीयं पुरुषार्थोपयोगाभावात् । तदुक्तम्
"तस्मादनुष्ठेवगतं ज्ञानमस्य" विचार्यताम् । कीटसंख्यापरिज्ञानं तस्य नः क्वोपयुज्यते ? ॥” [प्रमाणवा० १।३३] इति; २५
१ प्रसिद्धत्स-ता० । २ आत्मप्रामाण्यबलात् । ३ न्यायवि. का. ९ । ४ प्रमातुः । ५ अर्थान्तरत्वप्रसङ्गात् । ६ स्वप्रतीतेरपि आ०, ब०, स०, प० । ७ प्रमातुरात्मनः। ८ शक्तिभेदप्रयुक्तादेव कारणात् । ९ सकलपदार्थविषयैकप्रमाणासम्भवात् । १० सकलविषयकैकप्रमाणसम्भवे तु। ११ निःश्रेयसार्थिनः। १२ "हेयोपादेयतत्त्वस्य साभ्युपायस्य वेदकः। यः प्रमाणमसाविष्टो न तु सर्वस्य वेदकः ॥ तस्माद्धेयतत्वस्य दुःखसत्यस्य साभ्युपायस्य समुदयसत्यान्वितस्य उपादेयतत्त्वस्य निरोधसत्यस्य साभ्युपायस्य मार्गसत्यसहितस्य प्रमाणपरिशुद्धस्य यो वेदक स प्रमाणमिष्टो न तु सर्वस्य यस्य कस्यचिद्वेदकः। न खलु सकलज्ञानादार्यसत्यचतुष्टयदेशना अपि तु तज्ज्ञानत्वात् तदुपदेष्ट तयैव च प्रामाण्यमिष्यते ॥"-प्र. वा० म० १॥३४। १३ कस्यचिदवस्मरकु-ता०। विष्ठास्थानसमुत्पन्नकीटसंख्यादिविषयम् । १४ संसारदुःखप्रशमोपायम् । १५ प्रमाणपुरुषस्य ।