________________
न्यायविनिश्चयविवरणे
[ ११
योपसङ्कलनाभावे 'षड्भिरेव नैकेन' इत्यपि वक्तुमशक्यत्वात् । तथाहि - न हि यस्यैकं प्रमाणं प्रमाणषट्कतद्गोचरार्थ विषयमस्ति न च प्रत्यक्षादीनि स्वविषयपरिच्छेदमात्रोपक्षीणानि अपरप्रमाणतद्विषयगन्धमपि स्पृशन्ति, तत्कथमसौ प्रमाणषटकं तद्विषयं वा जानीयात, येनैवमुध्यते"यदि षडभिः प्रमाणैः स्यात्पर्वज्ञः केन वार्यते ।” इति । भवत्येवेदमुपसङ्कलनं ५ प्रमाणं तु न भवति अपूर्वार्थत्वाभावात, यथास्वं प्रमाणे निर्णीतस्यैव प्रत्यक्षादिप्रमाणतद्विषयकलापस्य स्मरणेन सङ्कलनात् अपूर्वार्थं च प्रमाणं न गृहीतमाहीति चेत्; न; विषयिविषयसन्दोहस्य प्रागसिद्धेः प्रत्यक्षादेरेकैकस्य तत्सन्दोह । विषयत्वात, तत्सन्दोह विषयं च सङ्कलनस्य गृहीतप्राहित्वं तः सन्दोहासिद्धौ न सिद्ध्येदिति । ततस्तत्सन्दोहे 'तदपूर्वार्थत्वात प्रमाणमिति कथमप्रमाणम् ? अपि च,
१०
८
गृहीतप्रहणात् मानतद्वेद्याकलनं यदि ।
२५
मानव प्रत्यभिज्ञा कथं भवेत ? ॥ ३० ॥
पूर्वोत्तराव बोधाभ्यामेकत्वस्याग्रहो यदि । मानवेद्यसमूहोऽपि किमन्यस्यैष गोचरः ? ॥३१॥
यथैव हि पूर्वोत्तरज्ञानाभ्यां स्वकालनियतपर्यायमात्रपरिच्छेदिभ्यामेकत्वस्याग्रहणात् १५ अपूर्वार्थमेकत्वप्रत्यभिज्ञानं तथैव प्रत्यक्षाद्यन्यत मापरिच्छिन्ने विष यिविषयसन्दोह गोचरमपि सङ्कलनज्ञानमपूर्वार्थमनुमन्तव्यम् । तच्च प्रमाणम् इत्यस्ति तद्वत् सकलजीवादिविषयमध्यामिक तस्य प्रमाणं यदनुष्ठानात् सर्ववस्तुसाक्षात्करणं भगवत इति न युक्तमेतत् - ' कारणाभावान्नास्ति कस्यचित् सर्वज्ञत्वम्' इति ।
स्यादाकूतम् - अस्ति निरवशेषवस्तुविषयं सङ्कलनम्, तत्तु न सकलविषयैकप्रमाण२० सामर्थ्यात " तदभावात, अपि त्वात्मसामर्थ्यात । आत्मा हि स्वपरप्रकाशादिरूपः 'पेरिस्फुरन् सकलप्रमाणतद्वेद्यसन्दोहं सङ्कलयति, 'तत्सामर्थ्यप्रयुक्तं चेदं 'यदि' इत्यादिवचनं नैकप्रमाणसामर्थ्य प्रयुक्तम् ।
न चात्मनः प्रमाणत्वं प्रमातृत्वेन निश्चयात ।
प्रमाणत्वे * हि तस्यापि प्रमाताऽन्यः प्रकल्यताम् ॥ ३२ ॥
४
तस्यापि स्वपरशस्य प्रमाणत्वोपकल्पने । प्रमाताऽन्यः प्रकल्प्यः स्यादेवं स्यादनवस्थितिः ॥ ३३ ॥
१ - माणेनि - ब०, प०, आ०। २ "सर्वस्यानुपलब्धेऽर्थे प्रामाण्यं स्मृतिरन्यथा " [मी० श्लो० १/१/५/११] इत्युक्तत्वात् । ३ विषयविषयिस-आ०, ब०, प०, सा० । ४ सङ्कलनात्पूर्वं केनापि ज्ञानेनाग्रहणात् । ५ विषयिविषयसमुदायाविषयत्वात् । तत्सन्देहावि ब०, प०, आ० । ६ सङ्कलन ज्ञान । ७ प्रमाणम् । ८ स्मरणानुभवाभ्याम् । ९ - विषयविषयिस ब०, आ०, प०, स० । १० श्रुतज्ञानात्मकम् । ११ सकलविषयैकप्रमाणाभावात् । १३ परिस्फुरंस्तु स सा० । १३ आत्मसामर्थ्य । १४ - णत्वेन त- ता० ।