________________
११]
प्रथमः प्रत्यक्षप्रस्तावः इदमन्यत् व्याख्यानम्- श्रीः देवागम-नभोयान-सुरपुष्पवृष्टि-हरिविष्टरादिलक्षणा निरतिशयपुण्यपरमवैराग्याविहंतताल्वादिकरणशक्तित्वादिलक्षणा' वा वर्द्धमाना प्रतिदिवसमभिवृद्धि ब्रजन्ती यस्य भगवतां समूहस्य सन्मतेर्वा तस्मै श्रीवर्द्धमानाय नमः। प्रसिद्धानि प्रमाणनिश्चितानि अशेषाण्यविकलानि तत्त्वानि जीवादीनि तान्येवार्थो विषयो यस्याः सा प्रसिद्धाशेषतत्त्वार्था, प्रतिबुद्धा स्वावरणसम्बन्धनिद्राव्यपगमे सति प्रतिव्यक्त्युद्बुद्धा, एका ५ अविच्छिन्ना असहाया वा मूर्तिनिदर्शनादिरूपा यस्य तस्मै 'प्रसिद्धाशेषतत्त्वार्थप्रतिबुद्धकमूर्तये' इति ।
"किमर्थमत्र प्रसिद्धग्रहणम् ? भगवतः सुगतादिभ्यो व्यवच्छेदार्थम् तेषां प्रसिद्धतत्त्वार्थाया बोधमूर्तेरभावात् प्रतिभासाद्वैतादेस्तद्बोधविषयस्याप्रमाणत्वादिति चेत् ; उच्यतेप्रतिभासाद्वैतादिकं तत्त्वम् , अतत्त्वं वा ? तत्त्वमपि ज्ञातम्, अज्ञातं वा ? यद्यज्ञातम् ; १० कथं 'तत्त्वम्' इत्युक्तिः ? ज्ञाते एव तदुपपत्तेः । ज्ञातं चेत् ; कथमप्रमाणत्वम् ? तस्य तत्त्वरूपतया ज्ञातत्वेन सप्रमाणत्वस्यैवोपपत्तेः । ज्ञातमप्यतत्त्वमेव तदिति चेत् ; तथाऽपि तत्त्वपदेनैवातत्त्ववियो' भगवतस्तत्त्वविदो व्यवच्छेदात् किं प्रसिद्धपदेन कर्त्तव्यम् ? पराभ्युपगमेन तत्त्वमेव तदिति चेत् ; तथाऽपि न प्रसिद्धपदमर्थवत्" प्रसिद्धतयाऽपि परेण तस्याभ्युपगमात । अभ्युपगमनिबन्धना प्रसिद्धिरप्रसिद्धिरेवेति चेत., "तन्निबन्धनं तत्वमप्यतत्त्वमेवेति, १५ व्यथं प्रसिद्धपदमिति चेत ; न व्यर्थम; परोपन्यस्तस्य "साधनस्यासिद्धत्वोद्भावनार्थत्वात् । अत्र हि परमतम्-“यस्तावदसर्वज्ञ एव सर्वज्ञो भवति तस्य परोक्षार्थपरिज्ञाने को हेतुः? न खल्वीदृशं किमपि कारणमुपलक्षितं यदनुष्ठानात् सर्ववेदनं सम्भवति । मत्रतत्रादयस्तु प्रायशः सकलसमयसम्भविनः" [प्र. वार्तिकाल० १।२९] इति ; तत्रेदमुच्यतेअसिद्धः कारणाभावः । प्रसिद्धपदसूचितस्य प्रमाणस्यैवाशेषतत्त्वगोचरस्य सर्वज्ञत्वनिमित्तत्वात । २० किं पुनस्तादृशं प्रमाणं छद्मस्थस्य सम्भवति ? बाढम् , कथमन्यथा षट्प्रमाणकृतसर्वज्ञत्वाङ्गीकरणं मीमांसकस्य ? तथाहि
यदि प्रमाणमेकं न षटप्रमाणार्थगोचरम् ।
यदि षड्भिः प्रमाणैः स्यात' इत्यादि कथमुच्यते ? ॥२९॥
न होकेन प्रमाणेन प्रत्यक्षादिप्रमाणषटकं तद्विषयं च सर्वमनुपसङ्कलयन् 'इदमनेनायं २५ जानाति' इत्यङ्गीकर्तुनर्हति स्वयमप्रतिपन्नस्याङ्गीकारायोगात् । प्रतिपद्यत एव, परं नैकेन, किन्तु षड्भिरेव प्रमाणैर्यथास्वं "तानि तद्विषयांश्च पृथगेवावगच्छतीति चेत ; न ; "एकप्रत्य
संवरान
अप्रतिहत । ३-णव-प०, ०।-णा ब-आ.।३ महावीरस्य पश्चिमतीर्थकरस्य । १ “जीवा. जीवात्रवबन्धसंवरनिर्जरामोच स्तरवम्"-त. सू. १३।५-पत्यद्वोधा आ०, ब०, स. प० । ६ आदिशब्देन अनन्तवीर्य-अनन्तसुखपरिग्रहः । किमर्थ प्रसि-ता०।८ प्रतिभासाद्वैतादेः । ९ सुगादिभ्यः। १० सार्थकम् ।
"अभ्युपगमनिबन्धनम् । १२ साभनस्यासिद्धियो-१०, ब०, भा०। १३ मी. श्लो. १२११२ । १४ मीमांसकः । १५ प्रत्यक्षादिप्रमाणानि । १६ एकप्रत्ययेन प्रमाणषट्कतद्विषयाणामनुसन्धानाभाषे ।
किमर्थ
-०,०,
विषयाणामनुसन्धान