________________
न्यायविनिश्वयविवरण
"सत्तायां मङ्गले वृद्धौ निवासे व्याप्तिकर्मणि । गतौ चापि समाख्यातं पडर्थं भवतिं विदुः ॥” इति ।
भव्यमेवाम्बुरुहदम्बुरुहं भगवदभ्यर्चनाङ्गत्वात्तस्य भानुरित्र भानुर्भगवान् स्वशक्तितस्तच्छक्तिविकासकारित्वात् ।
स्वभावत एव मङ्गलस्य तेच्छक्तिः शब्दशक्तित्वात् अर्थप्रत्यायनशक्तिवदिति चेत्; न; स्वार्थप्रत्यायनशक्तेरपि पुरुषायत्तत्वात्, निदर्शनस्य साध्यवैकल्यात् । न हि चक्षुरादिवदेव स्वभावतः शब्दस्य स्वार्थावद्योतनसामर्थ्यम् असमितम्यापि प्रसङ्गात्, उपाध्यायवैयर्थ्यापत्तेः । समितस्येति चेत्; समयात्तर्हि तस्य तच्छतिर्न स्वभावात् पुरुषवशवर्त्तित्वाभावप्रसङ्गात् । अनुधावन्ति च पुरुपेच्छामपि शब्दाः पुरुषेण यथाकामं प्रसिद्धादर्थादर्थान्तरेऽपि प्रयुज्यमानानां तेषां तदवद्योतनं प्रत्याभिमुख्यस्यैव प्रपिपत्तेर्न वैमुख्यस्य । स्वशक्तित एव तंत्रापि तदाभिमुख्यं न तदिच्छात १० इति चेत्; न; इच्छाविरहेऽपि तत्प्रसङ्गात् । सत्यामेव तस्यां तेषां तच्छक्तिरिति चेत्; तत्कृतैव तर्हि सा तेषामिति न शब्दस्य स्वार्थावबोधनशक्तिः स्वभावात् अपि तु समयात् स च पुरुषादिति पुरुषायत्तैव तच्छक्तिः तदाह- श्रीवर्द्धमानाय । श्रीर्वचनस्यार्थ'प्रत्यायनशक्ति वर्द्धमाना शिष्यप्रशिष्यपरम्परया वृद्धिं गच्छन्ती यस्मादिति व्युत्पत्तिः ।
Jo
,
to
कुतः पुनरत्यन्तकृतार्थत्वेन निरीहस्य भगवतः शब्दशक्तिकरणव्यापार इति चेत् ? १५ न ; तथाविधस्य स्वभावनियमस्य " भावात् भानोः पद्मविकासनवत् । "तदाह- भव्याम्बुरुहभानवे । निःश्रेयसतत्कारणपर्यायेण भवन्तीति भव्याः तेषाम्बुरुहमिवाम्बुरुहं प्रवचनं सकलतरत्र निवेदन श्रीनिवासत्वात् तस्य भानुरिव भानुर्भगवान्, "अनभिसन्धेरपि स्वभावत"स्तच्छक्तिविकास कारित्वात् । नन्वेवं प्रवचनमेव भगवत्कृतमुक्तं भवति शक्तितद्वतोरभेदात्, तथा चाप्रमाणमेव प्रवचनं प्राप्तम्, अनभिसन्धाय प्रवृत्तत्वात् बालोन्मत्तादिवाक्यवदिति चेत् ; अत्राह - 'प्रसिद्ध' इत्यादि । निःश्रेयसार्थिमिरर्ध्यमानत्वादर्था अनन्तज्ञानशक्त्यादयो गुणाः, तस्वेन न " संवृत्या अर्थास्तत्त्वार्थाः, अशेषा अविकलास्तत्त्वार्थास्तेषां प्रतिबुद्धं प्रत्युद्बोधनं प्रतिबन्धविगमे समुन्मीलम् 'भावे क्तप्रत्ययविधानात्' अशेषतत्वार्थप्रतिबुद्धम्, प्रसिद्धं प्रमाण निश्चितं तच तदशेषतस्त्वार्थप्रतिबुद्धं च तत्तथैवोक्तम्, सैव एका प्रधानभूता स्वसत्तां प्रति अनन्यापेक्षत्वेनासहाया वा मूर्तिः स्वभावो यस्य स तथोक्तस्तस्मा इति । अनन्तज्ञानशक्त्यादिप्रतिबोधप्रसिद्धता । प्रभोश्च तत्स्वभावत्वं पश्चाव्यक्तं वदिष्यते ||२७|| अनन्तज्ञानसाम्राज्यप्रतिबोधे सति प्रभोः । शासनं तद्विविकार्थमप्रमाणं कुतो भवेत् ? ॥ २८ ॥
[११
३ मलापहरणादिशक्तिः । २ अगृहीतसङ्केतस्यापि । ३ समवायात्त -आ०, ब०, प०, स० । सङ्केतात् । ४ शब्दस्य । ५ यदि स्वभावात् शब्दस्य अर्थप्रत्यायनशक्तिः स्यात्तर्हि पुरुषाधीनत्वं न स्यादिति भावः । ६ अप्रसिद्धऽर्थेपि । ७ पुरुषेच्छायाम् ८ अप्रसिद्धार्थावद्योतनशक्तिः । ९ पुरुषेच्छा कृतैव । १० - प्रत्ययनश-आ०, ब०, प०, स० । ११ - स्याभावा ब०, प० । १२ - तथाह आ०, ब०, प० । १३ अभिसन्देशोऽपि प०, आ० । अभिप्रायरपितस्यापि । १४ प्रवचनशक्ति । १५ कल्पनया |
५
२५