________________
प्रथमः प्रत्यक्ष प्रस्तावः
छन्दोऽप्यनुपहतत्वात् श्रीवर्द्धमानशब्दस्य तु भगवति पश्चिमतीर्थकरे एव रूढत्वात् ततो झटिति तस्यैव प्रतीतिर्न सर्वेषाम् । भवतु तस्यैवार्य स्वतः प्रधानत्वात्, तदुपदिष्टमिदानीन्तनमिदं खलु धर्मतीर्थम्, अतश्च शास्त्रकारस्य निःश्रेयसमार्गनिर्णय इत्युपकारं प्रति प्रत्यासन्न प्रधानत्वात् स एव स्तोतयो न सर्वेऽपीति चेत्; न; सैर्वेषामपि स्तुतिविषयबुद्धिपरिगृही५ तानामिदानीमेव पापमळापायोपकारित्वेन प्रत्यासन्नत्वाविशेषात् तदपाये निःश्रेयसमार्गनिर्णय*स्याप्यवश्यम्भावात्, कथं वा "वन्दित्वा पैरमर्हतां समुदयम्" [ अष्टश० पु० २ ] इति शाखान्तरे सर्वेषामपि स्तवनमुपरचितम् ? क्वचित्सर्वेषामपि प्राधान्यं क्वचित्पश्चिमस्यैव विवक्षात इति चेत् ; स्वेच्छापरवशस्तर्हि शास्त्रकारो न गुणपरवश इति यत्किश्विदेतत् । व्युत्पत्तिवशात् अंत एव सर्वप्रतिपत्तौ प्रतिपत्तिगौरवमिति चेत्; न; चोद्यसमाधानार्थत्वात् एवंवचनस्य । १० भवति त्र चोद्यम्
१५
२०
१।१]
,
कुतः स्तवस्य सामर्थ्यं तादृशं यत्करोत्ययम् । निर्विघ्नतादिकं कार्यं नामर्थं हि कारणम् ॥ २२॥ स्वकारण बलात्तस्य यदि शक्तिर्भवेदियम् । श्रीवर्द्धमानस्तस्यासौ विषयः किमुदीर्यते ? ॥ २३॥
स्तुतिर्निर्विषया नास्तीत्ययं तद्विषयः कृतः ।
to
इति चेन्नियमः कस्मात् ? यः कश्चन विधीयताम् ॥ २-४ ॥
अत्रेदमाह - 'श्रीवर्द्धमानाय' इति । श्रीर्मङ्गलस्य मलापहरणादिशक्तिरेव मङ्गलार्थिभिरभिलषितत्वात् तल्लक्षणत्वाच्च श्रियः, सा वर्द्धमामा वृद्धि " व्रजन्ती यस्मादसौ श्रीवर्द्धमानो भगवत्समूह इति । ततः
प्रतिपत्तेर्गुरुत्वेपि कृत्वा गजनिमीलनम् ।
कृता श्रीवर्द्धमानोक्तिरस्यार्थस्य प्रसिद्धये ॥ २५॥
"
स्यान्मतम्-न भगवतः साभिप्रायात् मङ्गलस्य तच्छक्तिः सर्वत्रोपेक्षा परत्वात् न ह्युपेक्षापरस्य 'इदमित्थं करोमि' इत्यभिप्रायः सम्भवति, "उपेक्षापरत्वहाने: । नापि निरभिप्रायात् ; निरभिप्रायप्रवृत्तेरदर्शनादिति; तन; पद्मविकासकरणे "भानोर्निरभिप्रायस्यापि प्रवृत्तिदर्शनात् । २५ शक्तितो हि कारणस्य कारणत्वं नाभिप्रायात् ।
अभिप्रायेण हेतुत्वे, भानुः पद्मविकासने ।
न हेतुः स्यात्, सशक्तेश्चेत्; भगवतस्तद्वदिष्यताम् ॥ २६॥
एतदेवाह - 'भव्याम्बुरुह भानवे ' इति । भव्यं मङ्गलं भवतेर्मङ्गलार्थत्वात् । तथा च पठन्ति
१ अनुष्टुभः । २ महावीरे । ३ -षामवस्तु आ०, ब०, प०, स० । ४ - स्यावश्य प० । ५ 'परमाताम्' - अष्टश० । ६ श्रीवर्धमानायेति पदादेव । ७ स्तवस्य । ८ श्रीवर्धमानः । ९ कुतः आo, ब०, प०, स० । १० तीर्थकरः । ११ व्रजन्ति य -आ०, ब०, प०, स० । १२ उपेक्षापरत्वाद्दानेः आ०, ब०, प०, स० । १३ तुलना - " तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् ॥" त० भा० का० १० ।