________________
न्यायविनिश्चयविवरणे
[१1१
प्रसङ्गादिति ; तदसत् ; समग्रस्यैव हेतुत्वात् । असमग्रस्य व्यभिचारेऽपि दोषाभावात्, अन्यथा न पावकस्यापि धूमहेतुत्वम्, आर्द्रेन्धनादिविकलस्य धूमन्यभिचारात् । तस्मात् —
४
आर्द्रेन्धनादिसहकारिसमप्रतायां
यद्वत्करोति नियमादिह धूममग्निः ।
तद्वद्विशुद्ध्यतिशयादिसमग्रतायां
निर्विघ्नतादि विदधाति जिनस्तवोऽपि ॥ २१ ॥
नाप्यति तस्मिन् तद्भावः ; तस्य निंबद्धस्याऽभावेऽप्यनित्रद्धस्यै तस्य परमगुरुगुणा - नुस्मरणात्मनो मङ्गलस्यावश्यम्भावात्, तदस्तित्वस्य च तत्कार्यादेवानुमानात् धूमादेः प्रदेशादि - व्यवहितपावकानुमानवत् । मङ्गलसामग्रीवैकल्यस्य च केचित्तत्कार्यस्य वैकल्यादेवानुमानात् १० धूमाभावात्तदुत्पादनसमर्थदहनाभावानुमानवत् । यदि परमगुरुगुणानुस्मरणमपि मङ्गलं ि तत एव समीहितसिद्धेः किमन्येन वाचिकेन कायिकेन वा ? सतोऽपि तस्यान्तरङ्गसहितस्यैव समग्रत्वात् अन्तरङ्गस्य तु केवलस्यापि माङ्गलिकप्रयोजनसमर्थत्वादिति चेत्; इदमनुमतमेवास्माकम्, "आभ्यन्तरं केवलमप्यलं ते" [ बृहत्स्व० श्लो० ५९ ] इत्याम्नायात् । न च तावता वाचिकादेर्वैयर्थ्यम् ; तस्य सामग्र्यन्तरत्वात् । एकस्मिन् कार्ये किं सामग्र्यन्तरेणेति चेत् ? न ; दहनकार्ये काष्ठादिवन्मण्यादेरपि सामप्यन्तरस्योपलम्भात् । अन्यदेव दहनकार्यं मण्यादेर्यत्कष्टादेर्न भवतीति चेत्; मङ्गलकार्यमप्यन्यदेव परमगुरुगुणानुस्मरणात् यद्वाचिकादेर्न भवतीति समानमुत्पश्यामः । यद्येवं भगवद्गुणस्तवनादिवत् मिध्यातीर्थकरगुणस्तवनादिकमपि सामप्यन्तरं भवेत् ततोऽपि मङ्गलकार्योपलम्भादिति चेत्; कस्तगुणो नाम ? यदि सर्वज्ञपरमवीतरागत्वादिः ; स तर्हि भगवद्गुण एव, "तदपरस्य तद्गुणत्वं नास्तीति यथास्थानं निवेदनात् । २० अतः सर्वत्र तद्गुणस्तवनमेव मङ्गलं तत एव तत्प्रयोजनभावान्नापरम् ।
५
किं पुनस्तत् ? इत्यत्राह
प्रसिद्धाशेषतत्त्वार्थप्रतिबुद्धैकमूर्तये ।
नमः श्रीवर्धमानाय भव्याम्बुरुह भानवे ॥ १ ॥
अस्यायमर्थ:- "श्रीर्वर्द्धमाना यस्माद्विनेयानां स श्रीवर्द्धमानो भगवतां समूहस्तस्मै 'नमस्करोमि' २५ इत्युपस्कारः । ननु यदि 'श्रीवर्धमानाय' इत्युक्तेऽपि सर्वेषामेव भगवतां प्रतिपत्तिस्तर्हि 'श्रीजिननाथाय' इति वक्तव्यम्, एवं हि लघ्वी प्रतिपत्तिः अस्य सामान्यवाचित्वात्
१ निर्विघ्न निर्वहणादिसद्भावः । २ निबद्धस्य भावेप्यनिबद्धस्य तस्याभावेपि परम - ब०, आ०, प० । प्रन्थाङ्गभूतस्य । ३ -स्य तस्याभावेपि परम स० । प्रन्धानन्तर्गतस्य मनोवाक्कायव्यापाररूपस्य । ४ मङ्गलकार्यात् निर्विघ्नपरिसमाप्त्यादेरेव । ५ असमाप्तग्रन्थादौ । ६ वाचिकस्य कायिकस्य वा । ७ परमगुरुगुणस्मरणात्मकस्य । ८ अन्तरङ्गस्य केवलस्य माङ्गलिकप्रयोजनसमर्थत्वे । ९ यदैवं ब०, प०, आ० । १० सर्वज्ञवीतरागवाद्यतिरिक्तस्य । ११ श्रीवर्धमाना यस्माद्विनेयानां सहश्री आ०, ब०, प० ।