________________
११]
प्रथमः प्रत्यक्षप्रस्ताव: मङ्गलादेव यत्सिद्धमधर्मप्रतिरोधनम् । तदर्थं न सदाचारपरिपालनमर्थवत् ॥११॥ न टेकेन कृतं कार्य हेतावन्यत्र सस्पृहम् । सिद्धस्य निरपेक्षत्वादनवस्थितिरन्यथा ॥१२॥ सिद्धे पापप्रतिध्वंसे सदाचारानुपालनात् । मङ्गलस्यैव वैयर्थ्यं किन्न स्यादित्यसम्मतम् ।।१३।। तेदभावे तेदाचारपालनस्याप्यसम्भवात् । तत्प्रयोजनभावेन तस्येष्ठत्वात् स्वयं परैः ॥१४॥ नास्तिकत्वसमाधानं मङ्गलादिति चेत् ; तेतः । कः शास्त्रस्योपयोगः स्यात् ? आदेयत्वं भवेद्यदि; ॥१५॥ आदेयं युक्तिसामर्थ्याद्युक्त्यर्थं यदि तँद् भवेत् । नास्तिकत्वनिषेधेऽपि नादेयं तदयुक्तिकम् ॥१६॥
शास्त्रनिर्वहणानङ्गमपि सदाचारपरिपालनादिकं मङ्गलस्य प्रयोजनमुक्तं तस्यापि ततः सम्भवात् । न हि शास्त्राङ्गमेव तत्प्रयोजनं वक्तव्यमिति नियमः सम्भवतोऽन्य (-वति, अन्य-) स्यापि वचने दोषाभावादिति चेत् ; न ; अप्रस्तुताभिधानस्यैव दोषत्वात् ।
१५ अपि च,
सदाचाराभिरक्षादि यद्वन्मङ्गलतो मतम् । निर्विषीकरणाद्यन्यत्तद्वदाम्नायते न किम् ? ॥१७॥ ततस्तदपि वक्तव्यं शास्त्रादौ तत्प्रयोजनम् । परैः प्रयोजनेयत्ता कथमेवं नियम्यते ? ॥१८॥ स्तुतिप्रयोजनं तस्माद्वक्तव्यं प्रस्तुतोचितम् । अतिप्रसङ्गासम्बद्धप्रवादी भवतोऽन्यथा ॥१९॥ तदन्तरायविध्वंससुकृतोत्पादनात्मना । विदुः शास्त्रोपयोगित्वं मङ्गलस्य मनीषिणः ॥२०॥
स्यान्मतम्- निर्विघ्ननिर्वहणादिकं न मङ्गलात् सत्यपि तस्मिन् केचित्तदभावात् , २५ असत्यपि "कचित्तद्भावात् । न हि यस्य "भावेऽपि यन्न भवति अभावेऽपि भवति तत्तस्य कार्यम् , अन्वयव्यतिरेकानुविधानाधीनत्वाद्धेतुहेतुमद्भावस्य, अन्यथा कुम्भादेरपि कुविन्दादि
१ मङ्गलाभावे । २ सदाचार । ३ मङ्गलस्य । ४ तुलना-"परमात्मानुध्यानाद् ग्रन्थकारस्य नास्तिकतापरिहारसिद्धिः तद्वचनस्यास्तिकैरादरणीयत्वेन सर्वत्र ख्यात्युपपत्तेस्तदाध्यानं तत्सिद्धिनिबन्धनमित्यपरे, तदप्यसारम् । श्रेयोमार्गसमर्थनादेव वक्तुर्नास्तिकतापरिहारघटनात् ।" -त० श्लो० पृ० १। ५ नास्तिकत्वपरिहारात् । ६ शास्त्रम् । • शास्त्रानङ्गमङ्गलप्रयोजनस्य सदाचारपरिपालनादेः । ८ निर्विघ्नीक-ब० । ९ उदयनाचार्यकृतकिरणावल्यादौ । १० चार्वाकप्रन्थेषु । ११ भावे यन्न प० ।