________________
५४४
न्यायविनिश्चयविवरणे
[१।१७२
वक्तव्यमिति मन्यते । भवतापि कस्मादतीन्द्रियप्रत्यक्षस्य लक्षणान्तरं नोच्यत इति चेत् ? अत्राह
लक्षणं समतावान् विशेषोऽशेषगांचरम् ।
अक्रमं करणातीतमकलई महीयसाम् ॥१७१॥ इति । लक्षणं 'स्पष्टं प्रत्यक्षम्' इत्येतत् समं सदृशं त्रिष्वपि प्रत्यक्षेषु । कस्तीन्द्रियादिप्रत्यक्षा दतीन्द्रियप्रत्यक्षस्य विशेष इति चेत् ? एतावान् विशेषोऽशेषगोचरम् । निःशेषद्रव्यपर्यायपरिच्छेदरूपम् अतीन्द्रियप्रत्यक्षम् । क्रमेण तद्गोचरमितरदपि प्रत्यक्षमिति चेत् ; आह'अक्रमम्' इति । इन्द्रियायत्तत्वे कथमितरवत्तदप्यक्रम तद्गोचरमिति चेत् ? आह
करणातीतम् । करणानीन्द्रियाण्यतीतमतिक्रान्तं निरपेक्षत्त्वात् । तस्यैव समर्थनम् 'अक१० लङ्कम्' इति । अविद्यमानज्ञानावरणादिकल्मषमित्यर्थः । तथा हि-यज्ज्ञानं स्वविषये निरा.
वरणं तदक्रममकरणञ्च तं प्रत्येति यथा सत्यस्वप्नज्ञानम् , तथा चातीन्द्रियप्रत्यक्षम् । निरा. वरणत्वं तस्योत्तरत्र समर्थनात्। अनावरणमपि नियतगोचरमेव तत तत्स्वभाव्यादस्मदादिज्ञानवदिति चेत् ; न; अस्मदादिज्ञानस्याप्यावरणवशादेव असर्वार्थत्वं न स्वाभाव्यादिति निरूप
णात् । तत्केषां प्रत्यक्षम् ? इत्याह-महीयसाम् । अर्हतामिति । भवतु तर्हि तत्सुगतस्यैव १५ तत्रैव तलिङ्गस्य तत्त्वोपदेशस्य भावादिति चेत् ; सत्यमिदं यदि तत्वोपदेश एव तत्र भवेत् । न चैवम् । अत एवाह
ज्ञात्वा विज्ञप्तिमात्रं परमपि च बहिर्भासि भावप्रवाद चक्रे लोकानुरोधात्पुनरपि सकलं नेति तत्त्वं प्रपेदे। न ज्ञाता तस्य तस्मिन्न च फलमपरं ज्ञायते नापि किश्चिदित्यश्लीलं प्रमत्तःप्रलपति अडधीराकुलं व्याकुलाप्सः॥१७२।। इति ।
ज्ञात्वेत्यनन्तरम् अपि चेत्येतद् द्रष्टव्यम् । तदयमर्थो ज्ञात्वापि च प्रतिपद्यापि च । किम् ? विज्ञप्तिरेव न बहिरर्थ इति । यदि वा, सैव सकलविकल्पमलविकला न भेदो नाम कश्चिदिति तन्मात्रम् । कीदृशम् ? परं प्रकृष्टं तस्यैव निःश्रेयसत्वेनोपगमात् । किं चकार ?
घहि सिभावो बहिरर्थः तस्य प्रवादं तदस्तित्वोपदेशं चक्रे चकार । कुतः १ लोका२५ नुरोधात् विनेयाभिरुचेः । ननु यदि बहिर्भावं न प्रतिपद्यते कथं तत्प्रवादकरणं सुषुप्तवत् ?
कथं वा विनेयानुरोधः ? तस्यापि विज्ञप्तिबहिर्भूतत्वेन तेनाप्रतिपत्तेरिति चेत् ; न ; एवमपि परस्यैव दोषात् । यदि विज्ञप्तिमात्रमेव ज्ञातं तदेवोपदेष्टव्यं सत्यत्वात नापरं विपर्ययात् । संवृत्या 'तदपि तत्त्वमेवेति चेत् ; न ; विकल्पस्यैव संवृतित्वात् । तस्य चैकान्तवार निषिद्धत्वात् । तन्न संवृतिसत्योपाश्रयः तत्त्वोपदेशः सुगतस्योपपन्न इति चेत ;
-सां महतामि-आ०,०प० । २ विज्ञप्तिबहिर्भूतमपि । ३ -वादिनि आ०, ब०प०। .