________________
११७२]
प्रथमः प्रत्यक्ष प्रस्तावः
५४५
सत्यम् । अत एवास्य प्राम्यभाषित्वमाह - इति उक्तन्यायात् प्रलति बहु जल्पति । कः ? व्याकुलाप्तः इति कर्तव्यबुद्धिविकलः आप्तः तथागतः तद्विनेत्रैर । प्रत्वेनोपगमात् । कथं प्रलपति इति ? अश्लीलं प्राम्यम् । कुतस्तस्य व्याकुलत्वम् ? जडधीर्यतः । तस्वमपि कुतः ? प्रमत्तों दुर्वासनामदिरापरवशो यत इति ।
तर्हि विज्ञप्तिमात्रमेव तेन तत्त्वमुपदिष्टमस्तु “अद्वयं यानमुत्तमम्" इति वचनादिति चेत्; न; तस्यापि चित्रैकरूपत्वे अनेकान्तवादप्रत्युज्जीवनात् । परस्परव्यावृत्ताने नीलादिरूपत्वे च सन्तान भेदानिराकरणात् । न तंत्राप्यसौ तिष्ठति अपि तु पुनरपि उक्तदोषादूर्ध्वमपि सकलं चेतनमन्यथ तत्त्वं नेति प्रपेदे प्रपन्नवान् । तदेव तहि तवं तेनोपदिश्यतामिति चेत् ; न ; तत्राप्यश्लीलमित्यादेर्दोषात् । कुत एतत् ? न ज्ञाता तस्य १० सर्वाभावस्य यत इति । न हि सर्वाभावे तज्ज्ञानमपि विरोधात् । तत एव न तत्फलस्यापि परिज्ञानम्, इत्याह- तस्मिन् सर्वाभावे न च नैव फलं तत्साध्यम् अपरम् अर्थान्तरम अन्यस्य तत्फलत्वानुपपत्तेः ज्ञायते ज्ञानस्यैव तद्वावे अनुपपत्तेः । तन्न तदभावतत्त्वमपि शक्योपदेशं न च फलमपि तस्य सम्भवतीत्याह- नापि किञ्चित् । फलमिति सम्बन्धः । दुःखोपशमनादेस्तद्वादेखत एवाभावादिति देवस्याभिप्रायः ।
प्रख्यातान्मतिसागरान्मुनिपतेः श्रीहेमसेनादपि
व्यक्तं मन्मनसो यदीयहृदयं विद्वद्दयापालतः । तस्य न्यायविनिश्चयस्य विवृतः प्रस्ताव आयो मया प्रत्यक्षप्रतिपत्तये वितरतु श्रेयांसि भूयांसि नः ॥ इत्याचार्यस्याद्वादविद्यापतिविरचिते न्यायविनिश्चयकारिकाविवरणे प्रत्यक्ष प्रस्तावः प्रथमः ।
१५
१ -मुत्तरम् आ०, ब०, प० । " तथा खोक्तम् अद्वयं ज्ञानमुत्तमम्" - प्र० वार्तिकाल० १,७ । २ विज्ञप्तिमात्रेऽपि । ३ सर्वाभाववादे |