________________
११७१ ]
प्रथमः प्रत्यक्ष प्रस्तावः
५४३
नित्योऽनाधेयादिस्वभाव आत्मा सन् विद्यमानो विरुध्यत इति सम्बन्धः । तस्याकिञ्चित्करत्वेन व्योमकुसुमादविशेषादिति प्रतिपादनात् । अत एव सर्वगतः सर्वमूर्तैः सम्बद्ध इति । ज्ञो ज्ञातेति च विरुध्यते असतस्तदुभयाऽसम्भवात् । कुतश्च तस्य ज्ञत्वम् ? स्वत एवेति चेत् न ज्ञानकल्पनावैफल्यात् । ज्ञानसम्बन्धादिति चेत् ; न ; तत्सम्बन्धादपि ज्ञानवानित्येव स्यात् न ज्ञ इति । ज्ञशब्दादपि तद्वत्वं प्रतीयत इति चेत्; न; ५ ताद्रूप्यस्य प्रतीतेः । अन्यथा न किञ्चित्ततः प्रतीयेत । ताद्रूप्यमपि तत्सम्बन्धादेव प्रतीयत इति चेत्; कुतो न देवदत्ते दण्डरूप्यप्रतिपत्तिः ? समवायस्यैव तत्प्रतिपत्तिहेतुत्वात् न संयोगस्येति चेत्; मिध्यैव तर्हि तत्प्रतिपत्तिः, अतद्रूपे ताद्रूप्यग्रहणात् । तथा च कथं ततः आत्मतत्त्वप्रतिपत्तिः ? आत्मन्यमिध्यात्वादिति चेत् किं पुनरेकमेव ज्ञानं मिथ्या चामिध्या च ? तथा चेत ; न; क्रमेणाप्यपरापरस्वभावस्य तस्याऽऽपत्तेः । एवञ्च तत्रैवान्वितरूपे १० ज्ञातृप्रयोजन परिनिष्ठानात व्यर्थमात्मान्तरपरिकल्पनम् विभिन्नज्ञानकल्पनं च स्वत एव ज्ञत्वात् । विभिन्नज्ञानसमवायाच्च ज्ञत्वे गगनादावपि प्रसङ्गः तत्रापि तदविशेषात् । तन समवायेन किञ्चित् । नापि ततो ज्ञत्वमात्मनस्तदाह- कस्यचित् अर्थान्तरज्ञानस्य समवायतः' इति विरुध्यते, स्वत एवात्मनो ज्ञत्वेन तद्वैयर्थ्यात् । ततश्च 'द्रव्यादिकस्याto ज्ञाता इत्यपि विरुध्यतेऽतिप्रसङ्गात् । ततो न तादृशं विज्ञानं प्रत्यक्षं तत्फलं १५ चोपपन्नमिति भावः ।
अव्यापकश्च प्रत्यक्षलक्षणं परस्य, तेनेश्वरज्ञानस्यासङ्ग्रहादित्याह - 'नेश्वरज्ञान संग्रहः।' इति । न हि तस्य नित्यस्य इन्द्रियार्थसन्निकर्षजत्वं विरोधात् । अथ तन्न प्रत्यक्षमपि, किमि - दानीं प्रमाणान्तरमिति चेत्; न; तस्यापि नित्यस्यासाधकत भत्वात् । अनुत्पत्तिमत्त्वात् । स्वविषयाव्यभिचारात्म केवलं प्रमाणमेवेति चेत्; न; वनन्तर्भावे प्रमाणचतुष्टयनियमव्यापत्तेः । अन्तर्भावश्च प्रत्यक्ष एव नानुमानादौ यविशेषापत्तेः ।
नापि तत् फलम् ;
तस्य प्रत्यक्षादि- २० अस्मदा
भवतु तदप्यनित्यमेवेति केचित् ; तन्न, तस्यापि स्वविषयस्यै तत्सन्निकर्षजत्वाभावात् । अस्वविषयत्वे सर्वविषयत्वायोगात् । अन्यस्य तद्विषयत्वेऽनवस्थापत्तिः, अन्यस्यापि तदन्यविषयत्वात् । अथ एकेन तद्व्यतिरिक्तस्य सर्वस्य अन्येन च तस्य ग्रहणादयमदोषो ज्ञानद्वय- २५ भावादीश्वरस्येति चेत्; न; एवमपि स्वसंवेदनस्यावश्यम्भावात् । न हि तदेकं ज्ञानं स्वरूपमप्रतियत् तद्व्यतिरिक्त सर्वान्तरगतस्वविषयज्ञानं प्रतिपत्तुमर्हति विषयज्ञानस्य स्वविषयतया प्रतिपत्तेः स्वप्रतिपत्तिनान्तरीयकत्वात् । तन्न ज्ञानद्वयकल्पनमर्थवत् । प्रतिक्षिप्तञ्चायं पक्षः प्रागिति नेह प्रतन्यते । ततो नानित्यस्यापिं तज्ज्ञानस्य तेन संग्रह इति लक्षणान्तरमेव तत्र
१ ताद्रूप्यप्रतिपत्ति । २ “ज्ञानाद्भिनो न नाऽभिभो भिन्नाभिन्नः कथञ्चन । ज्ञानं पूर्वापरीभूर्त सोऽयमात्मेति कीर्तितः ॥ " - वा० टि० । ३ ईश्वरज्ञानस्य । ४ ईश्वरज्ञानम् । ५ - मानाद्यविशे- आ०, ब०, प०, वा०, ता० । ६-वेति चेत् आ०, ब०, प० । ७ स्वस्वरूपगोचरस्य । ८ ज्ञानस्वरूपविषयत्वे ।