________________
५४२
स्यायविनिश्वयविवरणे
११७१ ]
घटादिवत् । ततो गोलकमेव चक्षुः, तब शरीर एव वृत्तिमत् न बहिरिति प्रतिषिद्धमेतत्
"केचित्तस्य शरीराच्च बहिर्वृतिं प्रचक्षते । चिकित्सादिप्रयोगश्च योऽधिष्ठाने प्रयुज्यते ॥ सोऽपि तस्यैव संस्कार आधेयस्योपकारकः । तद्देशश्चापि संस्कारः सर्वव्याप्त्यर्थ इष्यते ॥ चक्षुराद्युपकारश्च पादादावपि दृश्यते । तस्मान्नैकान्ततः शक्यं संस्कारात्तत्र वर्त्तनम् ॥” |
२०
[ भी० श्लो० १|१|४ | श्लो०४४-४६ ] इति ।
1
यत्पुनः पक्षान्तरम् - इन्द्रियाणामर्थे व्यापारः तत्रगुण तयाऽवस्थानं वा कार्यावसेया १० शक्तिर्वा सम्प्रयोग इति; तदपि न सारम् ; सत्यार्थस्य स्वप्नज्ञानस्य तदभावेऽपि भावेन लक्षणस्याव्याप्तिदोषात् । न हि तत्र सम्प्रयोगः; पिण्डीपिहितलोचनस्यापि तद्भावात् । अस्त्येव शक्तिलक्षण इति चेत्; न; तस्यापि विस्फारित एव अक्षणिक स ( अणि स ) म्भवात् न पिहिते अतिप्रसङ्गात् । प्रत्यक्षमेव तत्र भवतीति चेत्; किमिदानीं भवेन्नाम प्रमाणं सत्यार्थ - त्वात् ? नानुमानाद्यन्यतमम्; तल्लक्षणाऽनन्वयात् । सप्तमन्तु प्रमाणमनिष्टमापद्यते । ततः १५ प्रत्यक्षमेव तदभ्युपगन्तव्यं निर्बाधस्पष्टनिर्भासत्वात् जाग्रत्प्रत्यक्षवत्, लोकप्रसिद्धत्वाच्च । तन्न
द्विद्यमानोपलम्भनमेव अविद्यमानोपलम्भनस्यापि तस्य बहुलमुपलम्भात् । तत्कथं तस्य धर्म प्रत्यनिमित्तत्वम्, यतस्तत्रै चोदनेव प्रमाणमवसीयते ? नन्वेवं लोक एवाविद्यमानोपलम्भनस्यासत्सम्प्रयोगजस्य च तत्प्रत्यक्षस्य सम्भवे योगिप्रत्यक्षमपि तादृशमर्थासि ( मर्थात् सि ) ध्यतीर्त्यबद्धमेतत्
"न लोकव्यतिरिक्तं हि प्रत्यक्षं योगिनामपि । प्रत्यक्षत्वेन तस्यापि विद्यमानोपलम्भनम् ॥ सत्सम्प्रयोगजत्वश्चाऽप्यर्वाक्प्रत्यक्षवद् भवेत् ॥”
[ मी० श्लो० १।१ । ४, श्लो० २८-२९ ] इति चेत्; सत्यम् ; अरत्ययमपि परस्य दोषः । तन्नैवमपि प्रत्यक्षं शक्यलक्षणम् । पुनरपि नैयायिकस्य विरुद्धं दर्शयति
I
-
नित्यः सर्वगतो ज्ञः सन् कस्यचित्समवायतः ॥ १७० ॥ ज्ञाता द्रव्यादिकार्थस्य [नेश्वर ज्ञानसंग्रहः । ] इति ।
"यदि वार्जवस्थानं सम्प्रयोगोऽत्र वर्ण्यते । योग्यतालक्षणो वान्यः संयोगः कार्यलक्षितः ॥” मी० श्लो० १/१/४, श्लो० ४२ । २ नेत्रे । ३ -म्भावात् न बहिरेति प्र० - भ० ब०, प० । ४ प्रत्यक्षम् । ५ धर्मे । ६ - लम्भस्यास -आ०, ब०, प०1७ - मर्थो सि आ०, ब०, प० मर्थो सि - ता० । वारङ्गभठीयताडपत्रे - मर्था सि । - त्यपबद्ध वा० वा० । ९. कस्यार्थेति आ०, ब०, प० ।