________________
१।१७० |
प्रथमः प्रत्यक्षप्रस्तावः
संशयस्मरणादिकमिति चेत्; न; तत्रोपचारतो मुख्यतश्च प्रामाण्यस्यैव प्रतिक्षिप्तत्वात् । न चाप्रमाणं प्रत्यक्षं तस्य तद्विशेषत्वात् । तन नैयायिकस्व प्रत्यक्षलक्षणमुपपन्नम् ।
यत्पुनरिदं मीमांसकस्य - "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म प्रत्यक्षम् ।" [जै० सू० १|१|४] इति तदप्येतेन प्रत्युक्तम् सम्प्रयोगस्य संनिकर्षार्थत्वे नैयायिकव दोषात् । यच्चेदं तस्यानुमानम् - प्राप्यकारि चक्षुरिन्द्रियत्वात् त्वगादिवदिति ; तत्र किमि ५ चक्षुर्नाम ? गोलक एवेति चेत्; न; तत्राप्राप्यकारित्वस्यैव प्रतीतेः । तन्निर्गतो रश्मिप्रसर इति चेत ; तस्यापि किमिदं प्राप्यकारित्वम् ? प्राप्य सन्निपत्य विषयं तज्ज्ञानजननमिति चेत् ; क्व तज्जननम् ? आत्मनीति चेत्; न; तत्रापि सन्निकर्षगते तदप्रतीतेः । न हि विषयसन्निकर्षसैन्निहित आत्मनि ज्ञानमिति कस्यचिदपि प्रतिपत्तिः । तथापि तत्कल्पनायां तव्यापित्वकल्पनमपि स्यात्, अविशेषात् । नचास्मिन्पक्षे दूरग्रहणम्, ज्ञातुः सन्निहितत्वेन तद- १० पेक्षया तदसम्भवात् । असन्निहिताधिष्ठानाऽपेक्षया तत्सम्भव इति चेत्; किमेतदधिष्ठानम् ? गोकरूपं शरीरमिति चेत ; न; तस्यापरिज्ञानात् । यदि हि तदपि परिज्ञायेत भवेदितो दूरनगरमिति प्रतिपत्तिर्नान्यथा । न च तस्यै नगरज्ञानेन परिज्ञानम्, असन्निकर्षात् । असन्निकृष्टस्यापि ग्रहणे नगरेऽपि सन्निकर्ष वैयर्थ्योपनिपातात् । न च यावन्न तेन तज्ज्ञानं तावत्तदपेक्षया नगरदूरत्वस्य ततः प्रतिपत्तिः । तन्न अधिष्ठानापेक्षयापि तत्सम्भव इत्ययुक्तमुक्तम्"विच्छिन्न इति बुद्धिः स्यादधिष्ठानमपेक्ष्य च ।”
[ मी० श्लो० १।१।४ श्लो० ५७ । ] इति । भवतु शरीरगत एवात्मनि तज्जननम्, दूरादिप्रतिपत्तेरपि तदपेक्षयैव भावादिति चेत्; कथमिन्द्रियाप्रभागँसन्निकर्षाद् दूरवर्तिनस्तन्मूलगते तत्र तज्जननम् इन्द्रियान्तरेष्वेव - मदर्शनात् ? तत्रादृस्यापि चक्षुषि कल्पनायां परमप्राप्यकारित्वमेव कल्पयितव्यम् । तन २० रश्मिप्रसरेण बहिर्वपरनाम्ना प्रयोजनम्, सत्येव प्राप्यकारित्वे तत्साफल्यात् ।
कथच तस्य चक्षुवम् ? कथम् न स्यादू ? गोलकस्यैव तत्त्वात् । तदपि चक्षुरुपकाराय तत्र चिकित्साविधानात् । न हि तदुपकारायान्यत्र तद्विधानमुपपन्नम् ; अविप्रसङ्गात् । अनैकान्तिको हेतुः तदर्थम्य पादयोरपि तद्विधानस्योपलम्भादिति चेत् ; न ; पादमार्गेण तद्गतस्यैव तारर्थ्यात अत्रापि गोलकमार्गेण रश्मिप्रसर गतस्यैव तस्य २५ तदर्थमिति चेत्; न; अञ्जनादिरूपस्य तद्विधानस्य बहिः प्रसरतोऽनुपलम्भात् । अन्त:प्रसवो घृतादिरूपस्यापि तद्विधानस्यानुपलम्भ एवेति चेत्; सत्यम्; स तु शरीर बहिर्भागेन व्यवधानात् । न चैवमत्र केनचिद् व्यवधानम्, अत उपलब्धिलक्षणप्राप्तस्याभावादेवानुपलम्भो
१ " सम्यगर्थे च संशब्दो दुष्प्रयोगनिवारणः । प्रयोग इन्द्रियाणाश्च व्यापारोऽर्थेषु कथ्यते ॥" - मी०सी० १|१|४| इलो ० ३८ । २ “ तयोश्च प्राप्यकारित्वमिन्द्रियत्वात् त्वगादिवत् ।” -मी० श्लो० १।१/४ इको० । ४४ । ३ संनिहितात्मनि आ०, ब०, प० । ४ आत्मनो व्यापकत्वे । ५ गोलकस्य । ६ नगरज्ञानेन । ७-भावस आ०, ब०, प० । ८ रश्मिरूपस्य । ९ चक्षुस्त्वम् आ०, ब०, प० । १० गोलकमपि ।
१५