________________
५५० न्यायविनिश्चयविवरणे
[ १११७० तैमिरविषयस्य केशमशकादेरप्रकाशनप्रसङ्गात् । न हि तस्य चक्षुषा प्राप्तिः, अविद्यमानत्वायोमकुसुमादिवत् । प्राप्त एवाक्षिपक्ष्मादिस्तेनं तथा प्रकाश्यत इति चेत् ; न; तत्रैव तस्य तत्प्रकाश नापत्तेः न दूरपुरोवर्तिन्याकाशे। न हि चन्द्रमसः प्राप्तादन्यत्र तद्वित्वप्रकाशनम् । यदि
च पक्ष्मादेः प्राप्तिर्भवतु तस्य प्रकाशनं कथं केशादेः ? मोऽपि तस्यैव स्वभाव इति चेत् ; ५ कथं तत्प्रकाशस्य मिथ्यात्वम् ? अविद्यमानत्वादिति चेत् ; कथमविद्यमानस्तत्स्वभावो व्याघा.
तात् ? अविद्यमानस्याप्राप्तस्यापि प्रकाशनमिति चेत् ; विद्यमानस्यापि स्यादविशेषात् । विद्यमानं सर्वमपि किन्न प्रकाश्यत इति चेत् ? इतरदपि किन्न ? योग्यतानियमादिन्द्रियस्येति समानमन्यत्रापि । तन्न तस्य घटादिना सन्निकर्षः संयोगः तत एव न तद्गतेन रूपादिना संयु
क्तसमवायो न रूपत्वादिना संयुक्तसमवेतसमवायो न समवायाभावाभ्यां संम्बद्धविशेषणभाव १० इति सुश्लिष्टं चक्षुर्ज्ञानेनाव्यापकत्वं लक्षणस्य ।
यदपि मत नेदं प्रत्यक्षस्य लक्षणम् , अपि तु तत्फलस्य प्रत्यक्षं प्रत्यक्षफलमिति व्याख्यानादिति; तदपि न सम्यङ् मतम् ; तत्राप्युक्तदोषाणामनपवर्तनात् । कुतश्चेदमेव न प्रत्यक्षम् ? विषयाधिगमस्यानुपजननादिति चेत् ; न; अव्यतिरिक्तस्योपजननात् । अव्यतिरिक्त
हेतुरेव फलमेव वा स्यानोभयमिति चेत् ; न; पूर्वापरतया व्यतिरेकस्यापि भावात् । पौर्वा१५ पर्येणापि कथमेकस्य द्वैरूप्यमिति चेत् ? अपौर्वापर्येण कथम् ? तथापि माभूदिति चेत् ;
नेदानी सामान्यविशेषाकाराभ्यां निर्णयेतरस्वभावं संशयज्ञानम् , अव्यभिचारीतरात्मक विपर्ययज्ञानं वेति किं तद्व्यवच्छेदाय व्यवसायात्मकमव्यभिचारीतिवचनेन ? "योगपद्येन द्वैरूप्यस्याविरोधे क्रमेण किमपराद्धं यतस्तेनापि तदविरुद्धन्न भवेत् ? क्षणिकत्वात
ज्ञानस्येति चेत ; न; अहमेव नीलं दृष्ट्वा पीतं पश्यामीत्यनुगतरूपस्यापि तस्य सङ्कलनात् । २० आत्मन एवेदं सङ्कलनं न ज्ञानस्येति चेत् ; न; ज्ञानादन्यस्य तस्यं तंत्रानवभासनात् व्यपदेश
वत् , अन्यथा व्यपदेशस्यापि तत्र सर्वत्राभावसनमिति निष्फलमव्यपदेश्यमिति विशेषण. मसम्भवात् । अपरिज्ञातशब्दार्थसम्बन्धस्याव्यपदेश्यमेव प्रत्यक्षमिति चेत् ; अगृहीतभवत्स
तस्याव्यतिरिक्तात्मविषयमेव प्रकृतमुपसङ्कलनमिति समानमुत्पश्यामः । यदि तदेवानुगमरूपं किन्तत्रेन्द्रियव्यापारेणेति चेत् ? न ; तेन तदात्मन एव विषयविशेषाधिगमस्य तत्रोपस्था२५ पनात् । तन्नेदमेकान्ततः "फलमेव प्रत्यक्षस्य, प्रत्यक्षत्वस्यापि भावात् । किच्चेदानी प्रत्यक्षम् ?
यत 'इंदमुत्पद्यते तदिति चेत् ; तदपि यदीदृशम्"; नेदं तत्फलं परिकल्पयितव्यम् , उक्तन्यायेन प्रत्यक्षत्ववत्तस्यैव फलत्वस्याप्युपपत्तेः । भवतु अन्याशमप्यचेतनमिन्द्रियालोकादि, चेतनमपि
चक्षुषा । २ केशादिरूपेण । ३ पक्ष्मादेः । ४ एव तद्ग-ता० । ५ सम्बन्धविशेषणभावेनेति आ०, ब०, ५०। ६ “फलविशेषणपक्षमेव सम्मन्यामहे । तत्र च यद्वयधिकरण्यं चोदितं तद्यतःशब्दाध्याहारेण परिहरिष्यामः यत एवं यद्विशेषणविशिष्टं ज्ञानाख्यं फलं भवति तत्प्रत्यक्षमिति सूत्रार्थः।"-न्यायमं० पृ० ६१ । न्यायवा. ता. पृ० १०८। ७ योगपद्ये =-आ०, २०, ५०। ८ आत्मनः । ९ सङ्कलने । १० फलत्व. मेव आ०, ब०, प० । ११ ज्ञानम् । १२ ज्ञानात्मकम् ।